🙏

श्रीवेंकटेशमङ्गलाशासनम्

Shrivenkatesha Mangalashasanam

स्तोत्र · 🪷 भगवान विष्णु · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as श्रीवेंकटेशमङ्गलाशासनम्

Sanskrit text attributed to प्रातिवाधि भयङ्करम् अन्नङ्गराचार्यः from श्रीवेङ्कतेशकाव्यकलापः, तिरुमलैतिरुपतिदेवस्थानमुद्रणालयः, तिरुपति, 1943.

अक्षर का आकार

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेंकटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥

लक्ष्मीसविभ्रमालोकसुभ्रूविभ्रमचक्षुषे ।
चक्षुषे सर्वलोकानां वेंकटेशाय मङ्गलम् ॥ २ ॥

श्रीवेंकटाद्रिशृङ्गाग्रमङ्गलाभरणांघ्रये ।
मङ्गलानां निवासाय वेंकटेशाय मङ्गलम् ॥ ३ ॥

सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् ।
सदा संमोहनायास्तु वेंकटेशाय मङ्गलम् ॥ ४ ॥

नित्याय निरवद्याय सत्यानन्दचिदात्मने ।
सर्वान्तरात्मने श्रीमद्वेंकटेशाय मङ्गलम् ॥ ५ ॥

स्वतस्सर्वविदे सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेंकटेशाय मङ्गलम् ॥ ६ ॥

परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुजे परतत्त्वाय वेंकटेशाय मङ्गलम् ॥ ७ ॥

आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् ।
अतृप्त्यमृतरूपाय वेंकटेशाय मङ्गलम् ॥ ८ ॥

प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाऽऽदिशते श्रीमद्वेंकटेशाय मङ्गलम् ॥ ९ ॥

दयामृततरङ्गिण्यास्तरङ्गैरिव शीतलैः ।
अपाङ्गैः सिञ्चते विश्वं वेंकटेशाय मङ्गलम् ॥ १० ॥

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये ।
सर्वार्तिशमदायास्तु वेंकटेशाय मङ्गलम् ॥ ११ ॥

श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे ।
रमया रममाणाय वेंकटेशाय मङ्गलम् ॥ १३ ॥

श्रीमत्सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ १३ ॥

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैस्सत्कृतायास्तु मङ्गलम् ॥ १४ ॥

इति श्रीवेंकटेशमङ्गलाशासनम्

स्रोत · Source

श्रीवेङ्कतेशकाव्यकलापः, तिरुमलैतिरुपतिदेवस्थानमुद्रणालयः, तिरुपति, 1943
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#venkateshastotrani

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयभगवान विष्णु पूजा बुक करें