🙏

श्रीसूक्त

Shrisukt

स्तोत्र · 🪙 माँ लक्ष्मी · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as श्रीसूक्त · Shrisukt

अक्षर का आकार

ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्‌ ।
चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १ ॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्‌ ।
यस्यां हिरण्यं विंदेयं गामश्वं पुरुषानहम्‌ ॥ २ ॥
अश्वपूर्वां रथमध्यां हस्तिना"दप्रबोधिनीम्‌ ।
श्रियं देवीमुपह्वये श्रीर्मा" देवीजुषताम्‌ ॥ ३ ॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलंतीं तृप्तां तर्पयंतीम्‌ ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्‌ ॥ ४ ॥
चंद्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम्‌ ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५ ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फला"नि तपसा नुदंतु मायांतरायाश्च बाह्या अलक्ष्मीः ॥ ६ ॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्‌ कीर्तिमृद्धिं ददातु मे ॥ ७ ॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्‌ ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्‌ ॥ ८ ॥
गंधद्वारां दुराधर्षां नित्यपुष्पां करीषिणीम्‌ ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्‌ ॥ ९ ॥

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १० ॥
कर्दमेन प्रजाभूता मयि संभव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम्‌ ॥ ११ ॥
आपः सृजंतु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२ ॥
आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम्‌ ।
चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३ ॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्‌ ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४ ॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्‌ ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान, विंदेयं पुरुषानहम्‌ ॥ १५ ॥
ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात्‌ ॥
ॐ शांतिः शांतिः शांतिः ॥

स्रोत · Source

गुजराती विकिस्रोत — "श्रीसूक्त" (શ્રીસૂક્ત), Dohavali and Anya pado.pdf, संस्करण 208118. मूल गुजराती लिपि से देवनागरी में लिप्यंतरित। CC BY-SA 4.0.
Gujarati Wikisource — devotional collections · Creative Commons BY-SA
Text from Gujarati Wikisource (gu.wikisource.org), used under CC BY-SA 4.0. The exact page, scan and revision are recorded with each text.

#wikisource#gujarati

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयमाँ लक्ष्मी पूजा बुक करें