श्रीमृत्युंजयमानसिकपूजास्तोत्रम्
स्तोत्र · 🔱 भगवान शिव · Sanskrit · ⏱ 4 min
अन्य नाम · Also known as श्रीमृत्युंजयमानसिकपूजास्तोत्रम्
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये ॥ १ ॥
आगत्य मृत्युंजय चन्द्रमौले
व्याघ्राजिनालंकृत शूलपाणे ।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वर पार्वतीश ॥ २ ॥
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृते
सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते ।
ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने ॥
मन्दारमल्लीकरवीरमाधवी-
पुंनागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलै-
राधत्स्व मृत्युंजय पाद्यमुत्तमम् ॥ ४ ॥
सुगन्धपुष्पप्रकरैः सुवासितै-
र्वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादरा-
द्गृहाण मृत्युंजय सर्ववन्दित ॥ ५ ॥
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः ।
मृत्युंजय महादेव शुद्धाचमनमाचर ॥ ६ ॥
गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वितधेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥ ७ ॥
पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युंजय प्रभो ॥ ८ ॥
जगत्त्रयीख्यात समस्ततीर्थ-
समाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं
मृत्युंजयानन्तगुणाभिराम ॥ ९ ॥
आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युंजय प्रभो ॥ १० ॥
नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युंजय सुधारय ॥ ११ ॥
विशुद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्र-
माधत्स्व मृत्युंजय भक्तिगम्य ॥ १२ ॥
श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युंजय श्रीविभो ॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युंजय महादेव पूजयामि वृषध्वज ॥ १४ ॥
चम्पकपङ्कजकुरवक-
कुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं
मृत्युंजय पुण्डरीकनयनाप्त ॥ १५ ॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युंजय निवेशय ॥ १६ ॥
माणिक्यकेयूरकिरीटहारैः
काञ्चीमणिस्थापितकुण्डलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञै-
रङ्गानि मृत्युंजय भूषयामि ॥ १७ ॥
गजवदनस्कन्दधृते-
नातिस्वच्छेन चामरयुगेन ।
गलदलकाननपद्मं
मृत्युंजय भावयामि हृत्पद्मे ॥ १८ ॥
मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं काञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युंजय तेऽर्पयामि ॥ १९ ॥
मणिमुकुरे निष्पटले
त्रिजगद्गाढान्धकारसप्ताश्वे ।
कंदर्पकोटिसदृशं
मृत्युंजय पश्य वदनमात्मीयम् ॥ २० ॥
कर्पूरचूर्णं कपिलाज्यपूतं
दास्यामि कालेयसमन्वितैश्च ।
समुद्भवं पावनगन्धधूपितं
मृत्युंजयाङ्गं परिकल्पयामि ॥ २१ ॥
वर्तित्रयोपेतमखण्डदीप्त्या
तमोहरं बाह्यमथान्तरं च ।
११०
श्रीमृत्युंजयमान सिकपूजास्तोत्रम् ।
साज्यं समस्तामरवर्गहृद्यं
सुरेश मृत्युंजय वंशदीपम् ॥ २२ ॥
राजानं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिगूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥
कुश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्ल्या ।
सुपाकयुक्तानि ससौरभाणि
श्रीकण्ठ मृत्युंजय भक्षयेश ॥ २४ ॥
शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो ॥ २५ ॥
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६ ॥
केवलमतिमाधुर्यं
दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचिमिलितं
मृत्युंजय देव भुङ्क्ष्व परमान्नम् ॥ २७ ॥
रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुम-
त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युंजय पूरय त्रिभुवनाधारं विशालोदरम् ॥
मनोज्ञरम्भावनखण्डखण्डिता-
न्रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभान्सैन्धवसेवितांश्च
गृहाण मृत्युंजय लोकवन्द्य ॥ २९ ॥
हिङ्गूजीरकसहितं
विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डाल्ँलवणयुता-
न्मृत्युंजय तेऽर्पयामि जगदीश ॥ ३० ॥
एलाशुण्ठीसहीतं
दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं
मृत्युंजय भुज्यतां त्रिलोकेश ॥ ३१ ॥
जम्बीरनीराञ्चितशृङ्गबेरं
मनोहरानम्लशलादुखण्डान् ।
मृदूपदंशान्सहसोपभुङ्क्ष्व
मृत्युंजय श्रीकरुणासमुद्र ॥ ३२ ॥
नागररामठयुक्तं
सुललितजम्बीरनीरसंपूर्णम् ।
मथितं सैन्धवसहितं
पिब हर मृत्युंजय ऋतुध्वंसिन् ॥ ३३ ॥
मन्दारहेमाम्बुजगन्धयुक्तै-
र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युंजय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ॥ ३४ ॥
गगनधुनीविमलजलै-
र्मृत्युंजय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं
प्रक्षालय चारु हस्तपदयुग्मम् ॥ ३५ ॥
पुंनागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।
मृत्युंजय महादेव पुनराचमनं कुरु ॥ ३६ ॥
मौक्तिकचूर्णसमेतै-
र्मृगमदवनसारवासितैः पूगैः ।
पर्णैः स्वर्णसमानै-
र्मृत्युंजय तेऽर्पयामि ताम्बूलम् ॥ ३७ ॥
नीराजनं निर्मलदीप्तिमद्भि-
र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि
मृत्युंजयाय त्रिपुरान्तकाय ॥ ३८ ॥
विरिञ्चिमुख्यामरबृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युंजय पादपङ्कजे
फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥ ३९ ॥
पुंनागनीलोत्पलकुन्दजाजी-
मन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युंजयाङ्घ्रौ विनिवेशयामि ॥ ४० ॥
पदे पदे सर्वतमोनिकृन्तनं
पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युंजय रक्ष रक्ष माम् ॥ ४१ ॥
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥ ४२ ॥
संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युंजय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।
कर्पूराश्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युंजयं भावये ॥ ४४ ॥
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युंजयपदमनेकाद्भुतपदम् ॥ ४५ ॥
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम् ।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीमृत्युंजयमानसिकपूजास्तोत्रं संपूर्णम् ॥
The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.