🙏

रुद्र

Rudra

स्तोत्र · 🔱 भगवान शिव · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as रुद्र

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

ॐ अथात्मानं शिवात्मानं श्री रुद्ररुपं ध्यायेत् ।

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् ।
गंगाधरं दशभुजं सर्वाभरणभूषितम् ।।

नीलग्रीवं शशाड्कांड्कं नागयज्ञोपवीतिनम् ।
व्याग्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ।।

कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिड्गलजटाशिखामुद्योतधारिणम् ।।

वृषस्कन्धसमारूढं उमादेहार्धधारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ।।

दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ।।

सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजः स्म्यक ततो यजनमारभेत् ।।

अथातो रुद्रस्नानार्चनाभिषेकविधिं व्याख्यास्याम: ।।

आदित एव तीर्थे स्नात्वा उदेत्य शुचि: प्रयतो
ब्रह्मचारी शुक्लवासा
देवाभिनुखः स्थित्वा आत्मनि देवता: स्थापयेत् ।।

प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु ।

बाह्वोरिन्द्रस्तिष्ठतु । जठरेSग्निस्तिष्ठतु ।
हृदये शिवस्तिष्ठतु ।

कण्ठे वसवस्तिष्ठन्तु ।
वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु ।

नयनयोश्चन्द्रादित्यौ तिष्ठेताम् ।
कर्णयोर्श्विनौ तिष्ठेताम् ।

ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु ।
शिरसि महादेव्स्तिष्ठतु ।

शिखायां वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु ।
पुरतः शूली तिष्ठतु ।

पार्श्वयो: शिवाशंकरौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु ।
ततो बहि: सर्वतोSग्निर्ज्वालामालापरिवृतस्तिष्ठतु ।
सर्वेष्वड्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु ।
मां रक्षन्तु ।।

अग्निर्मे वाचि श्रितः । वाक हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

वायुर्मे प्राणे शिर्तः । प्राणो हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

सूर्यो मे चक्षुषि श्रितः । चक्षुर हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

चंद्रमा मे मनसि श्रितः । मनो हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

दिशो मे श्रोत्रे श्रिता: । श्रोत्रं हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

आपो मे रेतसि श्रिता: । रेतो हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पृथिवी मे शरीरे श्रिता । शरीरं हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

ओषधिवनस्पतयो मे लोमसु श्रिता: ।
लोमानि हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

इन्द्रो मे बले श्रितः । बलं हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

ईशानो मे मन्यौ श्रितः । मन्युर्हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

आत्मा म आत्मानि श्रितः । आत्मा हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पुनर्म आत्मा पुनरायुरागात् ।
पुनः प्राणः पुनराकूतमागात्
वैश्वानरो रश्मिभिर्वावृधानः ।
अंतस्तिष्ठत्वमृतस्य गोपा: ।।

स्रोत · Source

Sanskrit Wikisource, page "रुद्र", revision 348160.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयभगवान शिव पूजा बुक करें