🙏

श्रीदत्तात्रेयस्तुतिः

Shridattatreya Stutih

स्तोत्र · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as श्रीदत्तात्रेयस्तुतिः

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

श्री दत्तात्रेय स्तुती

दत्तात्रेयं सनातनं ब्रह्म निरञ्जनम् ।
आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् ॥ १ ॥

चिन्मयं व्यापितं सर्वं चिदाकाशं दिगम्बरम् ।
निर्विकल्पं निराभासं दृश्यदर्शनवर्जितम् ॥ २ ॥

अगोचरं निरालम्बं ब्रह्मचारी यतीश्वरः ।
बर्गलोकनायकं स्म्पूर्णं परमात्मनरक्षकः ॥ ३ ॥

आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः ।
शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥ ४ ॥

दत्तात्रेय नाथोत्तमं सुखदं परमानन्दसागरम् ।
चित्कीर्तिभूषणं वन्दे स्मर्तृगामी स माऽवतु ॥ ५ ॥

हर्षवर्धनं वन्दे कौवल्यसुखदायकं ।
सकलागमपूजितं वन्दे स्मर्तृगामी स माऽवतु ॥ ६ ॥

संसारतमनाशनं संकल्पदु:खदलनम् ।
तापत्रयनिवारकं वन्दे स्मर्तृगामी स माऽवतु ॥ ७ ॥

संशयार्णवखण्डनं दोषत्रयविभेदिनम् ।
ब्रह्मप्रकाशात्मानं वन्दे स्मर्तृगामी स माऽवतु ॥ ८ ॥

भार्गवप्रियकृत्तमं दूरत्वपरिनाशनम् ।
जगदार्जवपालनं वन्दे स्मर्तृगामी स माऽवतु ॥ ९ ॥

नमस्ते कालाग्निशमनाय योगिजनवल्लभाय नमोऽस्तु ते ।
नमस्ते अत्रिपुत्राय दत्तात्रेयाय नमोऽस्तु ते ॥ १० ॥

नमस्ते लीलाविश्वम्भराय अवधूताय नमोऽस्तु ते ।
नमस्ते अनसूयानन्दनाय दिगम्बराय नमोऽस्तु ते ॥ ११ ॥

नमस्ते सत्वसाध्याय सत्वसाक्षिणे नमोऽस्तु ते ।
नमस्ते गुह्यतमाय चिद् विलासाय नमोऽस्तु ते ॥ १२ ॥

नमस्ते क्षेत्राधाराय क्षेत्रशून्याय नमोऽस्तु ते ।
नमस्ते रुपकारणाय गगनाकृतये नमोऽस्तु ते ॥ १३ ॥

श्री दत्तात्रेय पाहि मां प्रसीद दिगम्बर ।
क्षमस्व अवधूत रक्ष रक्ष श्रीगुरो ॥ १४ ॥

स्रोत · Source

Sanskrit Wikisource, page "श्रीदत्तात्रेयस्तुतिः", revision 54888.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालय