श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्
स्तोत्र · 🪔 शनि देव · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्
Sanskrit text from Sanskrit Wikisource.
मङ्गल बीज मन्त्र - ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥
महीसुतो महाभागो मंगळो मंगळप्रदः ।
महावीरो महाशूरो महाबलपराक्रमः ॥ १॥
महारौद्रो महाभद्रो माननीयो दयाकरः ।
मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २॥
सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः ।
वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३॥
वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः ।
नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४॥
क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः ।
अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ॥ ५॥
वीतरागो वीतभयो विज्वरो विश्वकारणः ।
नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ ६॥
कमनीयो दयासारः कनत्कनकभूषणः ।
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ ७॥
शत्रुहन्ता शमोपेतः शरणागतपोषकः ।
साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ ८॥
दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः ।
दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ ९॥
दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः ।
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ १०॥
रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः ।
चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ ११॥
शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः ।
तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ १२॥
तप्तकाञ्चनसंकाशो रक्तकिञ्जल्कसन्निभः ।
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ १३॥
असृजंगारकोऽवन्तीदेशाधीशो जनार्दनः ।
सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः ॥ १४॥
त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः ।
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ १५॥
मेषवृश्चिकराशीशो मेधावी मितभाषणः ।
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ १६॥
॥ इति मङ्गल एवं अङ्गारकाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥
Sanskrit Wikisource, page "श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्", revision 91584.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
The bija mantra of Shani Dev, recited on Saturdays.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.