🛡️

शनिवज्रपंजरकवचम्

Shanivajrapamjara Kavacam

कवचम् · 🪔 शनि देव · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as शनिवज्रपंजरकवचम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

श्रीगणेशाय नमः
नीलांबरो नीलवपुः किरीटी गृधस्थितस्त्रासकरो धनुष्मान्।
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः॥१॥
ब्रह्मा उवाच॥ श्रुणुध्वमृषयः सर्वे शनिपीडाहरं महत्।
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥२॥
कवचं देवतावास वज्रपंजरसंज्ञकम् ।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥३॥
ॐ शिरो शनैश्चरः पातु भालं मे सूर्यनंदनः ।
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥४॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
स्निग्धकंठश्च मे कंठं भुजौ पातु महाभुजः ॥५॥
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः ।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥६॥
नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा ।
ऊरू ममांतकः पातु यमो जानुयुगं तथा॥७॥
पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः।
अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनंदनः ॥८॥
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य़ यः।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः॥९॥
व्ययजन्मव्दितियस्थो मृत्युस्थानगतोऽपि वा ।
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥१०॥
अष्टमस्थे सूर्यसुते व्यये जन्मव्दितीयगे ।
कवचं पठते नित्यं न पीडा जायते क्वचित ॥११॥
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
व्दादशाष्टमजन्मस्थदोषान्नाशयते सदा ।
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥१२॥
॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपंजरकवचं संपूर्णम् ॥

स्रोत · Source

Sanskrit Wikisource, page "शनिवज्रपंजरकवचम्", revision 209318.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और कवचम्पुस्तकालयशनि देव पूजा बुक करें