शरीरं सुरूपं - गुरुस्तोत्र
स्तोत्र · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as शरीरं सुरूपं - गुरुस्तोत्र · Shariram Surupam Gurustotr
शंकराचार्य
शरीरं सुरूपं सदा रोगमुक्तं
यशश्चारु चित्रं धनं मेरुतुल्यम् ।
गुरोरङ्ध्रिपद्मे मनश्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥१॥
षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
गुरोरङ्ध्रिपद्मे मनश्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥२॥
कलत्रं धनं पुत्रपौत्रादि सौख्यं
गृहं बान्धवाः सर्वमेतद्धिजातम् ।
गुरोरङ्ध्रिपद्मे मनश्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥३॥
विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्याः ।
गुरोरङ्ध्रिपद्मे मनश्चेन्न लग्नं
ततः किं ततः किं ततः किं ततः किम् ॥४॥
गुजराती विकिस्रोत — "शरीरं सुरूपं - गुरुस्तोत्र" (શરીરં સુરૂપં - ગુરુસ્તોત્ર), Dohavali and Anya pado.pdf, संस्करण 208127. मूल गुजराती लिपि से देवनागरी में लिप्यंतरित। CC BY-SA 4.0.
Gujarati Wikisource — devotional collections · Creative Commons BY-SA
Text from Gujarati Wikisource (gu.wikisource.org), used under CC BY-SA 4.0. The exact page, scan and revision are recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.