🙏

पुरुषसूक्तम्

Purushasuktam

स्तोत्र · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as पुरुषसूक्तम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

॥ श्री गणेशाय नम: ॥

ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय ।
गातुं यज्ञपतये ।
दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् ।
शं नो अस्तु द्विपदे । शं चतुष्पदे ॥

ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वाSत्यतिष्ठ्द्दड्गुलम् ॥ १ ॥

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यद्न्नेनातिरोहति ॥ २ ॥

एतावानस्य महिमाSतो ज्यायांश्च पूरुषः ।
पादोSस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥

त्रिपादूर्ध्व उदैत्पुरुषः पादोSस्येहाभवत्पुनः ।
ततो विष्वड्व्यक्रामत्साशनानशने अभि ॥ ४ ॥

तस्माद्विराळजायत विराजो अधिपूरुषः ।
स जातो अत्यरिच्यत पश्चाभ्दूमिमथो पुरः ॥ ५ ॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धवि: ॥ ६ ॥

तं यज्ञं बहिर्षि प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ७ ॥

तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।
पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥ ८ ॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ९ ॥

तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ १० ॥

यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू का ऊरु पादा उच्येते ॥ ११ ॥

ब्राह्मणोSस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरुतदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥

चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ १३ ॥

नाभ्या आसीदन्तरिक्षं शीर्षणो द्यौ: समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँअकल्पयन् ॥ १४ ॥

सप्तास्यासन्परिधयस्त्रि: सप्त समिधः कृता: ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥ १५ ॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ॥ १६ ॥

स्रोत · Source

Sanskrit Wikisource, page "पुरुषसूक्तम्", revision 417938.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालय