🙏

क्षमाप्रार्थना

Kshamaprarthana

स्तोत्र · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as क्षमाप्रार्थना

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमति मां मत्वा क्षमस्व परमेश्वरी ॥१॥

आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥२॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरी ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥३॥

अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥४॥

सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकमप्योऽहं यथेच्छसि तथा कुरु ॥५॥

अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥६॥

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥७॥

गृह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि ॥८॥

॥ श्रीदुर्गार्पणमस्तु ॥

स्रोत · Source

Sanskrit Wikisource, page "क्षमाप्रार्थना", revision 92517.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालय