🙏

जीवन्मुक्तानन्दलहरी

Jivanmuktananda Lahari

स्तोत्र · 🪷 भगवान विष्णु · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as जीवन्मुक्तानन्दलहरी · Jivanmuktananda Lahari

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910.

अक्षर का आकार

पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमया-
न्सुवेषान्स्वर्णालंकरणकलितांश्चित्रसदृशान् ।
स्वयं साक्षाद्दृष्टेत्यपि च कलयंस्तैः सह रम-
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १ ।

वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखा-
न्घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान् ।
भजन्घस्रोरात्रादवनितलकल्पैकशयनो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २ ॥

कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वस-
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ३ ॥

क्वचिद्बालैः सार्धं करतलगतालैः सहसितैः
क्वचित्तारुण्यालंकृतनरवधूभिः सह रमन् ।
क्वचिद्वृद्धैश्चिन्ताकुलितहृदयैश्चापि विलप-
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ४ ॥

कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैः
कदाचित्काव्यालंकृतिरसरसालैः कविवरैः
कदाचित्सत्तर्कैरनुमितिपरैस्तार्किकवरै-
र्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ५ ॥

कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः
सुगन्धैः सत्पुष्पैः क्वचिदपि दलैरेव विमलः ।
प्रकुर्वन्देवस्य प्रमुदितमनाः संनतिपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ६ ॥

शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा
गणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा ।
पठन्वै नामालिं नयनरचितानन्दसरितो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ७ ॥

कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैः
क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।
भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ८ ॥

कदाचिज्जागर्त्यां विषयकरणैः सव्यवहर-
न्कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् ।
कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ९ ॥

कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः
क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।
मनस्वी निःसङ्गः सुजनहृदयानन्दजनको
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥

कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत-
स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।
कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ११ ॥

कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः
कदाचित्सानन्दं हसितरभसस्त्यक्तवचनः ।
कदाचिल्लोकानां व्यवहृतिसमालोकनपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥

कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं
क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।
तदद्वैतं रूपं निजपरविहीनं प्रकटय-
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १३ ॥

क्वचिच्छेवैः सार्थं क्वचिदपि च शाक्तैः सह वस-
न्कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।
कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १४ ॥

निराकारं क्वापि क्वचिदपि च साकारममलं
निजं शैवं रूपं विविधगुणभेदेन बहुधा ।
कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदा
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १५ ॥

कदाद्वैतं पश्यन्नखिलमपि सत्यं शिवमयं
महावाक्यार्थानामवगतिसमभ्यासवशतः ।
गतद्वैताभासः शिव शिव शिवेत्येव विलप
न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १६ ॥

इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा-
सुधापाङ्गव्याप्यां सहजसुखवाप्यामनुदिनम् ।
मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरः
सदा त्यागी योगी कविरिति वदन्तीह कवयः ॥ १७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव-
त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
जीवन्मुक्तानन्दलहरी संपूर्णा ॥

स्रोत · Source

The Works of Sri Sankaracharya, Volume 16 (Miscellaneous Prakaranas, Vol. 2), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#prakaranagranthah

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयभगवान विष्णु पूजा बुक करें