हेरम्बोपस्थानम्
स्तोत्र · Sanskrit · ⏱ 4 min
अन्य नाम · Also known as हेरम्बोपस्थानम्
Sanskrit text from Sanskrit Wikisource.
प्रथमः खण्डः (शशिवदनावृत्तम्)
श्रियमसमानां मम शुभनामा ।
दिशतु गणानां पतिरतिधामा ॥ १॥
विजितजराधिं विनिहतरोगम् ।
द्विरदमुखो मे वितरतु योगम् ॥ २॥
वितरतु मह्यं निजपदभक्त्तिम् ।
गणपतिरग्रयामपि भुजशक्त्तिम् ॥ ३॥
हरतनयो मे विभुरतिहृद्यम् ।
वितरतु भूतप्रविमलविद्याम् ॥ ४॥
मम करिवक्त्रः प्रभुरनवद्याम् ।
दिशतु भविष्यद्विदमुडुविद्याम् ॥ ५॥
निजविषयाजिष्वघहिमभानो ।
इममविजेयं कुरु हरसूनो ॥ ६॥
सुमधुरमाध्वीधरपदजातम् ।
करिमुख दासं कुरु कविमेतत् ॥ ७॥
गणपतिरूपं मनसि करोमि ।
गणपतिकिर्तीं वचसि तनोमि ॥ ८॥
मम गणनाथः शमयतु पापम् ।
सपदि विमुष्णात्वपि परशापम् ॥ ९॥
शशिवदनानां नवकृतिरेषा ।
भजतु गणेशं पतिमिव योषा ॥ १०॥
द्वितीयः खण्डः (मदलेखावृत्तम्)
आह प्राज्ञजनस्त्वां मूलाधारनिशान्तम् ।
मन्दे सुप्तमिभास्य ज्ञे युक्त्ते विलसन्तम् ॥ ११॥
अस्ति व्योम्नि गुरुर्यस्तस्यैव त्वमिहासि ।
विध्नेशानविवर्तः सद्भक्तेषु विभासि ॥ १२॥
कोऽपि प्राभवशाली मूलाधारविहारी ।
प्रज्ञासिद्धिवधूभ्यं श्लिष्टो भात्यघहारी ॥ १३॥
आशा मे तव शक्त्तिं देहे द्रष्टुमपाराम् ।
पातुं चेश्वरसूनो मूर्धन्यामृतधाराम् ॥ १४॥
या चित् सा तव माता यः श्रेष्ठः स पिता ते ।
सिद्धिर्बाह्यमतिर्ये ते नाथ प्रमदे ते ॥ १५॥
या लिप्सा हृदये मे तां पूर्णां कुरु मा वा ।
एषाङ्गीक्रियतां मे मत्तेभानन सेवा ॥ १६॥
ना खे याति सुरो वा त्वं चेत् किञ्चिदुदास्यम् ।
आधारे विदधासि स्कन्दस्याग्रज लास्यम् ॥ १७॥
न स्वार्थे मम यत्नो निःस्वार्थे मम सोऽयम् ।
उद्योगः शिवसूनो सद्यो देहि सहायम् ॥ १८॥
माहात्म्यं ननु वक्त्तुं कः शक्त्तः पुरुषस्ते ।
हस्तीन्द्रानन भाग्यं सर्वेषां तव हस्ते ॥ १९॥
एतः सम्मदकत्रीर्हैरम्बीर्मदलेखाः ।
सेवन्तां कविभृङ्गाश्चान्द्रीर्भा इव लेखाः ॥ २०॥
तृतीय खण्डः (इन्द्रवज्रावृत्तम्)
एकादशानां प्रवरं सुतानां रुद्रस्य मन्त्रधिपतिं नमामि ।
शास्त्राणि सर्वाण्यपि यस्य कीलाः सूर्यानपोह्यं तिमिरं हरन्ति ॥ २१॥
प्राज्ञेन बुद्धया यदकारि पद्यं सधारणस्तत्र तवोपकारः ।
हेरम्ब यन्मन्त्रमृषिश्चकार व्यक्तोविशिष्टस्तव तत्र यत्र ॥ २२॥
जिह्वास्थलं नाथ विगाहमानं त्वामाहुरुच्छिष्टमयि छलोक्त्या ।
उच्छिष्टता चेत्तव रुद्रसूनो स्वाध्यायनिष्ठीवनतोर्भिदा का ॥ २३॥
सर्वाणि धान्यानि च भक्षयन्तं दन्तैः शितैर्देव सहायवन्तम् ।
एतं बिलस्थं रसनाह्वयं ते वाहं विदो मूषिकमामनन्ति ॥ २४॥
आधारचक्रे वसतो गणेश ज्योतिर्मयाणोर्ज्वलतः सदाते ।
एकः पचत्यन्नमशेषमूष्मा सम्प्र्रेरयन्त्य इमास्तु वाचः ॥ २५॥
वैश्वानरोऽग्निः सकलस्य जीवो वागिन्द्रियाग्निः शिवनन्दन त्वम् ।
यो वेद नैव युवयोर्विभेदं पिण्डेषु ना मुह्यति स प्रसङ्गे ॥ २६॥
त्वां ब्रह्मणस्पत्यभिधानमाहुः केचिद्विभोरीशपदस्य पुत्रम् ।
अन्यैर्बृहस्पत्यभिधान उक्तो धीरैर्विभोरिन्द्रपदस्य मन्त्री ॥ २७॥
जिह्वैव वेदिस्तव तोयपूता लोकप्रसङ्गस्तव तत्र धूमः ।
ज्वाला जगन्नाथकथा पवित्रा चेतो घृतं जुह्यति यत्र सन्तः ॥ २८॥
विद्युन्मयीमूर्तिरगादि जिष्णोर्या मौनिभिः सैव तव स्वरूपम् ।
इन्द्रस्य भेदस्तव चोदितो यः स प्राणविद्युत्तनुभेदमूलः ॥ २९॥
दिव्याग्रिगात्रं धिषणा कलत्रं भर्गस्य पुत्रं प्रणतस्य मित्रम् ।
दिव्याग्रिरुचो भजन्तामेताः करीन्द्राननमिन्द्रवज्राः ॥ ३०॥
चतुर्थः खण्दः (वसन्ततिलकवृत्तम्)
किं बृंहितानि कुरुषे कलुषेण भग्ने
मग्ने महाविपदि देव निजे विवर्ते ।
निद्रामि चेद्वरद बोधय हस्तघाता -
द्गच्छामि चेदपथमाशु निवर्तयस्व ॥ ३१॥
वेषस्त्वायमपरो यदि देव नाट्य-
मारभ्यतां तदुचित्तं किमुपैषि मौनम् ।
एतां प्रभो यवनिकामपसारयन्तु
सक्षाद्गणास्तव कुतः क्रियते विलम्बः ॥ ३२॥
एतत्तमो नयनशक्त्तिहरं गुहायं
मर्गं रुणद्धि न विलोकितुमस्मि शक्त्तः ।
स्रेहोऽस्ति काचन दशास्ति विभो कटाक्ष-
ज्योतिर्लव सदय देहि पुरो व्रजेयम् ॥ ३३॥
घोरं करोमि न तपो यदि तेऽपराधः
किं प्रेरणं न कृतवानसि रुद्रसूनो ।
सम्प्रेरितश्च भवता यदि नाचरेयं
सम्प्रेरणस्य तव का गजवक्त्र शक्त्तिः ॥ ३४॥
कार्यं न मे किमपि तत् खलु निर्जराणां
रूपं न मे किमपि तत्तव कोऽपि वेषः ।
इष्टं नु कष्टमथ कस्य करीन्द्रवक्त्र
शिष्टं तु मे किमपि नाम नराङ्गसङ्गि ॥ ३५॥
नामापि तत्तव भवत्यथवा गजास्य
चर्चा विनश्वरतमे तनुकञ्चुके का ।
विष्णोरिवेन्दुधवलं भविता यशश्चेत्
तद्दन्तकान्तिषु तवैव लयं प्रयातु ॥ ३६॥
स्थूलां तनूमसुमशेषमनोरथानां
स्थानं मनश्च धिषणां प्रमदं च मूलम् ।
आक्रम्य कोशमखिलं च विभो खलारे
विध्नाधिराज मयि दर्शय ते विभूतिम् ॥ ३७॥
देवी मतिर्जलपत्रविशालनेत्रा
देवी च सिद्धिरकलङ्कसुधाकरास्या ।
छयोष्णता च दिननाथमिव ज्वलन्तं
नित्यं भवन्तमिभवक्त्र विभो भजे ते ॥ ३८॥
सिद्धेन्द्रवेषभृति भूमिहिताय रुद्रे
कैलासशैलमधितिष्ठति वज्रपाणिः ।
धृत्वा गजेन्द्रमुखवेषममुष्य पुत्रो
भूत्वा विभुर्नयति पारिषदानशेषान् ॥ ३९॥
सम्मोदयन्तु हृदयं द्विरदाननस्य
देवस्य सिद्धिधिषणा हृदयेश्वरस्य ।
एता वसन्ततिलकाः कविकुञ्जरेण
गीताः कयाऽप्यमलभावनया युतेन ॥ ४०॥
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतिर्हेरम्बोपस्थानं समाप्तम् ॥
Sanskrit Wikisource, page "हेरम्बोपस्थानम्", revision 107797.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.