🙏

हरिपाठ: - ज्ञानेश्वरकृत:

Haripatha Jnaneshvarakrta

स्तोत्र · 🪷 भगवान विष्णु · Sanskrit · ⏱ 9 min

अन्य नाम · Also known as हरिपाठ: - ज्ञानेश्वरकृत:

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

महाराष्ट्रप्रान्ते विख्यात: साधु: श्रीज्ञानेश्वर:।सामान्यसाधकानां कृते तेन हरिपाठ: रचित:।अस्मिन् पद्यप्रबनधे २८ पद्यानि सन्ति।तेषाम् अयं संस्कृतानुवाद:-
॥ ज्ञानेश्वरकृतो हरिपाठ: ॥

एकं वापि क्षणं तिष्ठेत् देवद्वारे नरो यदि ।
सम्पादयेत्तावतैव स तु मुक्तिं चतुर्विधाम्॥१

मुखेन श्रीहरिर्गेयो हरिर्गेयो मुखेन च।
यद् हरिस्मरणाज्जातं तत्पुण्यं गणयेन्नु क:॥२

संसारस्थोऽपि जन्तुश्चेत् त्वरते नाम जिह्वया।
तरतीति माहाघोष: श्रुतिशास्त्रेषु सर्वदा॥३

ज्ञानेश्वरो वदत्येवं व्यास-सङ्केत-पालनात्।
पाण्डवानां गृहं साक्षाद् द्वारकेश: समागत:॥४

ज्ञानाभिधश्चतुर्वेदे षट्शास्त्रे कारणाभिध:।
अष्टादशपुराणेषु गीयते हरिरेव च॥१

जगतो मन्थनाद् ग्राह्यो श्रीहरिर्नवनीतवत्।
त्यज व्यर्थां कथां व्यर्थं विमार्गगमनं त्यज॥२

हरिरात्मा चैक एव व्याप्तो जीवे शिवे सम:।
दुर्गमेषु विमार्गेषु त्वं वृथा मा मन: कृथा:॥३

हरिर्वैकुण्ठरूपोऽयं ज्ञानदेवेन पठ्यते।
ओतप्रोतश्च सर्वत्र श्रीहरि: सम्प्रदृश्यते॥४

त्रिगुणं सारहीनं स्यात् सारभूतं तु निर्गुणम्।
सारासारविचारोऽयं हरिपाठे विमृश्यते॥१

सगुणं वा निर्गुणं वा गुणसम्बन्धत: स्मृतम्।
विना हरिं तत्र चित्तं प्रसक्तं चेन्निरर्थकम्॥२

अव्यक्त: श्रीहरिर्ह्येष निराकारस्तथैव च।
चराचरं यतो जातं तमेव श्रीहरिं भज॥३

रामकृष्णस्मृतिर्ध्याने ज्ञानदेवस्य मानसे।
अनन्तजन्मभिश्चैवं पुण्यं सम्पाद्यते नरै:॥४

भावेन रहिता भक्तिर्मुक्तिर्भक्तिं विना तथा।
बलं विना कार्यशक्तिरिति व्यर्थं प्रजल्पनम्॥१

अचिरादेव देवानां प्रसाद: स्यात् कथं मयि।
इति यन्मुहु: प्रयतसे, व्यर्थं तत् , तिष्ठ निश्चल:॥२

दिवानिशं प्रपञ्चेऽस्मिन् यतसे यतसे मुहु:।
किमालम्बनमास्थाय भजसे श्रीहरिं न च।।३

भाषते ज्ञानदेवो यत् कर्तव्य: श्रीहरेर्जप:।
तेनैव स्यान्निश्चयेन प्रपञ्चस्य प्रबाधनम्॥४

न योगविधिना सिद्धिर्न यागविधिनापि वा।
धर्मा एते दम्भरूपा वृथोपाधय एव च॥१

न भावेन विना देवो न च सन्देहनाशनम्।
अपरोक्षानुभूतिर्न विद्यते सद्गुरुं विना॥२

नातपस्कस्य देव: स्याददातुर्नैव सम्पद:।
एकान्ते प्रेमसंवादं विना ब्रूयाद् हितं नु क:॥३

प्रभाषते ज्ञानदेवो दृष्टान्तो नात्र साधक:।
तरणोपाय लभ्येत साधूनामेव सङ्गतौ॥४

तिष्ठेत् स निरहङ्कार: साधुना य: प्रबोधित:।
स्वाधिष्ठाने समरसो जायतेऽनुभवेन स:॥१

एधते च यथा ज्योति: कर्पूरस्य स्वके स्थले।
दीप्तं पुन: समाप्तं तत् तस्मिन्नेव स्थले भवेत् ॥२

हरिभक्तस्य चरणं स्वयं मोक्ष: समागत:।
भाग्येन भूषितो भक्त: साधूनां किङ्करस्तथा॥३

ज्ञानदेवस्य मनसि रुचि: साधुसमागमे।
जने वने चात्मतत्वे तेनैव हरिदर्शनम्॥४

अभक्ता: शैलतुल्यानि पापानि कुर्वते तथा।
भवन्ति तानि पापानि वज्रलेपदृढानि च॥१

नास्ति येषां हरौ भक्तिरभक्ता: पतिताश्च ते।
न भजन्ते हरिं तस्मादेते दुर्भागिन: स्मृता:॥२

वाचालास्ते वृथा जालं वचनानां वितन्वते।
नैतेरवाप्यते लोकै: श्रीहरि: सदयोऽपि सन्॥३

ज्ञानदेवमतेनात्मा प्रमाणं च धनं तथा।
सर्वेषां हृदये पूर्णश्चैक: संनिवसत्ययम्॥४

सम्प्राप्यते चित्तलय: साधूनां सङ्गतौ तत:।
श्रीपति: सम्प्रापणीय एतेनैव पथा ध्रुवम्॥१

रामकृष्णेतिवचनं जीवभाव इति स्मृत:।
शिवस्यात्मेति विख्यातो रामनामजपो ह्ययम्॥२

एकतत्त्वात्मकहरौ नाम साधनमुच्यते।
साधयन्ति च ये तत् तान् द्वैतबन्धो न बाधते॥३

नामामृतरसास्वादे वैष्णवानां परा रुचि:।
दीर्घजीवनविद्या या साधिता सा तु योगिभि:॥४

नामोच्चारस्य दृढता प्रह्लादे बाल्य एव च।
उद्धवस्योपदेशं तु श्रीकृष्णोऽकुरुत स्वयम्॥५

ज्ञानदेवो वक्ति नाम साधनं सुलभं स्मृतम्।
जानाति कश्चिदेवं यत् कठिनं साधनान्तरम् ॥६

न रामे न च वा कृष्णे संरक्तं यस्य मानसम्।
अपविष्णु जपस्तस्य व्यर्थो, ज्ञानं वृथा च तत्॥ १

जातोऽप्यद्वैतमार्गं यो न जानीते स दुर्भग:।
कथं रामेऽथवा कृष्णे प्रवेशस्तस्य सम्भवेत्॥२

न यैर्गुरोधिगतं ज्ञानं द्वैतविमर्दनम्।
सङ्कीर्तनं हरेर्नाम्नां कथं तेषां नु सम्भवेत्॥३

ज्ञानेश्वरो वदति यद्, तद् ध्यानं सगुणं स्मृतम्।
यस्य नाम्नां पाठतोऽयं प्रपञ्च: शान्तिमृच्छति।।४

१०

त्रिवेणीसङ्गमे नानातीर्थेष्वटनमेव वा।
चित्तं न चेन्नामजपे, सर्वं तद्भ्रमणं वृथा॥१

नामतो यस्तु विमुखो, मूर्तिमत्पापमेव स:।
उद्धर्तुं तादृशं पापं नालं कोऽपि विना हरिम्॥२

पुराणेषु प्रसिद्ध: स वाल्मीकिरिदमुक्तवान्।
हरिनामस्मरणतो भुवनत्रयमुद्धरेत्॥३

वदतीदं ज्ञानदेव: श्रीहरेर्नाम यो जपेत्।
विशुद्धा जायते तस्य सर्वा कुलपरम्परा॥४

११

उच्चारेण हरेर्नाम्नामनन्ता: पापराशय:।
क्षणमात्रेणैव सर्वे विलयं यान्त्यशेषत:॥१

अग्निना सह संयोगात् तृणमग्निसमं यथा।
विनश्यति तथा पापं जपतो नाम श्रीहरे:॥२

हरिरित्ययमुच्चारो मन्त्र: सामर्थ्यवानयम्।
एतस्मान्मन्त्रतो भीता भूतबाधा द्रवन्त्यपि॥३

ज्ञानदेवो भाषते यत् समर्थ: श्रीहरिर्मम।
अगम्यश्च तथैवैष: सर्वोपनिषदामपि॥४

१२

तीर्थैर्व्रतैर्वा नियमैर्न सिद्धिर्भाववर्जितै:।
भावशून्यं वृथोपाधिरूपमेतदहो जना:॥१

विज्ञायते च विस्पष्टं हस्तस्थामलकं यथा।
तथा भावबलेनायं हरिर्ज्ञायेत नान्यथा॥२

भूमिस्थ: पारदकणो यथा यत्नशतैरपि।
न गृह्यते, साधनानां शतैरपि तथा हरि:॥३

ज्ञानेश्वरो वदति यत्, निवृत्तिर्निर्गुणो गुरु:।
स स्वरूपस्थितिं पूर्णामददाद् हस्तयोर्मम॥४

१३

हरौ समाधिर्न विना ब्रह्मात्मसमतासुखम्।
न समाधिर्द्वैतबुद्ध्या सिद्ध्यतीत्यवधार्यताम्॥१

न समाधिं विना बुद्धेर्वैभवं विद्यतेऽपरम्।
एकेन केशवेनैव लभ्यन्ते सर्वसिद्धय:॥२

ऋद्धि: सिद्धिर्निधिर्वापि तावद् व्यर्था उपाधय:।
यावत्तस्मिन्परानन्दे श्रीहरौ नास्ति मानसम्॥३

ज्ञानदेवो भाषते यत् सर्वदा हरिचिन्तनात्।
रमणीयं समाधानं यत्तदासादितं मया॥४

१४

मनसा हरिपाठं यो नित्यं नियतसङ्ख्यया।
कुर्यात्तस्य न बाध: स्यात् कलित: कालतोऽपि वा॥१

रामकृष्णजपोऽनन्ततपोराशिसमो मत:।
भस्मसात्तेन वृन्दानि वृजिनानां भवन्ति च॥२

हरे हरे हरे चेमं मन्त्रं जपति शङ्कर:।
मोक्षं तेऽपि प्राप्नुवन्ति मन्त्रमेतं जपन्ति ये॥३

ज्ञानेश्वरो वदत्येवं यत् श्रीनारायणप्रभो:।
नामपाठान्निजं स्थानमुत्तमं प्राप्तवानहम्॥४

१५

हरिणैक्यं तस्य नाम्नो , द्वैतं नामान्तरस्य च।
अद्वैतं हरि-तन्नाम्नोर्जानाति विरलो जन:॥१

समबुद्धिर्जपात् ,साम्यं हरेर्विज्ञायते तया।
श्रीहरिस्मरणात्सिद्धिर्शमस्य च दमस्य च॥२

सहस्ररश्मिरादित्यो यथा सर्वप्रकाशक:।
अचरेषु चरेष्वेवं राम एक:प्रकाशते॥३

वक्ति ज्ञानेश्वरश्चित्ते नित्यं मे हरिसंस्मृति:।
तेनाग्रिमेभ्यो जन्मभ्यो जातं मम विमोचनम्॥४

१६

रामकृष्णेति जपनं वाण्याति सुकरं नृणाम्।
तथापि दुर्लभो लोके हरिनाम जपन्नर:॥१

यै: साधितश्चित्तलयो रामकृष्णेति नामसु।
संसाधिता नरैरेतै: सिद्धय: सकला अपि॥२

सिद्धिर्बुद्धिस्तथा धर्मो हरेरेतेऽनुगामिन:।
प्रपञ्चस्थोऽपि सत्सङ्गान्मनोलयमवाप्नुयात्॥३

ज्ञानेशो वक्ति मे मुद्रा रामकृष्णेति वाग्हृदो:।
आत्मस्वरूपा तेनैव जाता दश दिशो मम॥४

१७

मुखेन हरिपाठस्य कीर्तिं गायति चेन्नर:।
शरीरं तस्य तन्नूनं पवित्रं संप्रजायते॥१

तपसो यन्महत्पुण्यं तद्गात्रेषु समाहितम्।
चिरञ्जीव: स कल्पानां कोटीस्तेनाभिनन्दति॥२

माता पिता तथा भ्राता सगोत्रा बहुशस्तथा।
सन्तिष्ठन्ते सर्व एते विष्णुरूपाश्चतुर्भुजा:॥३

गूढगम्यं च यज्ज्ञानं तन्निवृत्ति: करे मम।
दत्तवान्, तन्मया लब्धमिति ज्ञानेशभाषितम्॥४

१८

हरिवंश: पुराणानि हरिनाम च कीर्तनम्।
हरिं विना च विषयो यस्मै कोऽपि न रोचते॥१

नरस्य तस्य लाभोऽयं य़द् वैकुण्ठं समाप्नुयात् । तीर्थाटनस्य सर्वस्य फलं चापि लभेत स:॥२

मनोमार्गेण यो यातो नाप्नोति स इदं सुखम्।
हरिपाठे स्थिरो यस्तु स धन्यो जायते नर:॥३

वक्ति ज्ञानेश्वरो नामसङ्गे मे विद्यते रस:।
रामकृष्णविषयिणी वर्तते मे रुचि: सदा॥ ४

१९

साधनानां सार एको नारायणजप: सदा।
प्रमाणमत्र वेदानां तथोपनिषदां वच:॥१

जपस्तप: क्रिया कर्म नियमो धर्म एव वा।
सर्वमेतद्विना नाम व्यर्थमित्यवगम्यताम्॥२

कलिकामाश्रिता भृङ्गास्तत्रैवासक्तमानसा:।
हरिपाठाश्रितास्तद्वद् हरावासक्तमानसा:॥३

ज्ञानेशस्य वचो नाममन्त्रशास्त्रं बलप्रदम्।
यन्नामधारिणो गोत्रं कुलं च यमवर्जितम्॥४

२०

नामसङ्कीर्तनं विष्णोर्भक्तानां साधनं स्मृतम्।
अनन्तानन्तपापानामन्तस्तेषामजायत॥१

अनन्तजन्मतपसा नामैकं श्रीहरे: समम् । हरिपाठोऽस्ति सुगमो मार्गेषु सकलेषु च॥२

योगो याग: क्रिया धर्मस्तथैवाधर्म एव च।
मायिकं सर्वमेवैतद् , हरिपाठे विलीयते॥३

वक्ति ज्ञानेश्वरो यज्ञो योगो धर्मस्तथा क्रिया।
हरिरूपं सर्वमेतद् नास्ति मे नियमोऽपर:॥४

२१

नामोच्चारे न नियम: समयस्यास्ति कश्चन।
अत्र वक्तुस्तथा श्रोतुरुद्धार उभयोरपि॥१

रामकृष्णेति नामेदं सर्वदोषापहं स्मृतम्।
जीवानां च जडानां च हरिरेकस्तु तारक:॥२

हरिनामोच्चारणेन सार्थेयं रसना भवेत्।
नामधारकसद्भाग्यं को वा वर्णयितुं क्षम:॥३

ज्ञानेश्वरो वक्ति साङ्गो हरिपाठ: स्वभावत:।
वैकुण्ठं यान्त्यनायासं नामधारकपूर्वजा:॥४

२२

नित्यं नियमतो नाम स्मरन्तो दुर्लभा जना:।
स लक्ष्मीवल्लभस्तेषां समीपे विद्यते सदा॥१

नारायण हरे नाम ये जपन्ति नरा: सदा ।
तेषां गृहे सदा भुक्तिर्मुक्तिश्चैव चतुर्विधा॥२

हरिनाम विना जन्म जानीत नरको यथा।
भविता तादृश: प्राणी यमलोकातिथिर्ध्रुवम्॥३

ज्ञानेशो नाममाहात्म्यविषये पृष्टवान् यदा।
निवृत्तिरवदत् ‘ नाम व्यापकं गगनादपि ’॥४

२३

सप्त पञ्च तथा त्रीणि दश चैकत्र मेलितम्।
मेलोऽयं भासते सर्व एकतत्वात्मके हरौ॥१

नैवं नाम, वरिष्ठं तन्मार्गेषु सकलेषु च।
न नामस्मरणे कष्टं मनागप्यनुभूयते॥२

सोऽहं हंस इति प्राणे सोऽजपाजपसंज्ञित:।
तस्मिन्नपि जपे नामस्मरणं विद्यते ध्रुवम्॥३

वक्ति ज्ञानेश्वरो व्यर्थं जीवितं नामवर्जितम्।
रामकृष्णाख्यमार्गोऽयमत आक्रम्यते मया॥४

२४

जपस्तप: क्रिया कर्म नियमो धर्म एव वा।
राम: सर्वत्रेति शुद्धभावोत्पादनहेतुकम्॥१

न सन्त्याज्यस्त्वया भाव: सन्देहस्त्याज्य एव रे।
रामकृष्णनामघोष: सर्वदा क्रियतामरे॥२

जातिर्वित्तं कुलं शीलं गोत्रं ते स्यात्कथञ्चन।
तथापि भावयुक्त: सन् त्वरया श्रीहरिं भज॥३

ज्ञानेशो वक्ति मे ध्याने रामकृष्णेति मानसे।
तेन वैकुण्ठभुवने निवासोऽस्ति सदा मम॥

२५

न भानं न च वाभानं श्रीहरौ विद्यते क्वचित्।
हरिनामजपात्तस्मान्मोक्षलाभ: सदा भवेत्॥१

नारायण हरे नामोच्चारो यत्र तु विद्यते।
कलिर्वापि च कालो वा प्रवेशं तत्र नार्हत:॥३

नामशक्ते: प्रमाणं तु वेदा अपि विदन्ति न।
कथं तच्च विजानीयु: सामान्या जीवजन्तव:॥४

फलरूपो हरे: पाठ इति ज्ञानेश्वरोदितम्।
तेन वैकुण्ठरूपाश्च देशा: सर्वेऽभवन्मम॥५

२६

नामैकमेव तत्वं तद् दृढं धारय रे मन:।
कारुण्यभावो जायेत तेन त्वद्विषये हरौ॥१

सुवाचं नाम तद् राम कृष्ण गोविन्द वापि च।
वाण्या सगद्गदं नाम तदेव प्रथमं जप॥२

नाम्न: परतरं तत्वं विद्यते नैव चापरम्।
अतश्चान्येन मार्गेण गमनं ते निरर्थकम्॥३

ज्ञानेशो वक्ति मूक: सन्धृत्वा श्रीहरिमन्तरे।
कृत्वा च मनसो मालां हृदि नित्यं जपाम्यहम्॥४

२७

नाम्नि सर्वसुखास्वाद इति षट्शास्त्रनिर्णय:।
अतोऽर्धघटिकां वापि मा नामविमुखो भव॥१

संसारव्यवहारोऽसौ मिथ्यास्ति सकलोऽपि च।
गतागतं वृथा तत्र हरिनाम विना भवेत्॥२

नाममन्त्रजपेनैव कोटिपापविनाशनम्।
रामकृष्णजपे तस्मात्सङ्कल्पस्ते दृढो भवेत्॥३

समावृणु निजां वृत्तिं मायां त्रोटय चाखिलाम्।
इन्द्रियानुनयान्मा स्वं गोपयास्माच्छमाद्दमात्॥४

कार्या तीर्थे व्रते श्रद्धा, शान्त्या करुणया तथा।
दयया चैव सत्कार्यो हरि: प्राहुणिकस्त्वया॥५

ज्ञानेशस्य प्रमाणं तज्ज्ञानमुक्तं निवृत्तिना।
संजीवनसमाधि: स हरिपाठेन सिद्ध्यति॥६

२८

भवन्ति हरिपाठेऽस्मिन् पद्यानामेकविंशति:।
विश्वस्य नामसामर्थ्ये ज्ञानेशरचितानि च॥१

इन्द्रायणीनदीतीरे नित्यं पठति यो नर:।
ततस्तस्याधिकारश्च सर्वथा जायते ध्रुवम्॥२

एकाग्रमनसा चैव स्वस्थचित्तेन साधक:।
सोल्लासं च तथा कुर्यान्नामस्मरणमन्तरे॥३

जीवनस्यान्तिमे काले सङ्कटेषु तथैव च।
बहिश्चैवान्तरे चैव निभालयति तान्हरि:॥४

अनुभूतमिदं नैकै: साधुभि: सज्जनैस्तथा।
यश्चालसो मन्दबुद्धि: स कथं नु तरेन्नर:॥५

निवृत्तिसद्गुरोरेतत् श्रुत्वा प्रेमयुतं वच:।
अनुक्षणं ज्ञानदेव: सन्तोषं परमाप्तवान्॥६
मराठीभाषितस्य संस्कृतेन

स्रोत · Source

Sanskrit Wikisource, page "हरिपाठ: - ज्ञानेश्वरकृत:", revision 41018.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयभगवान विष्णु पूजा बुक करें