🙏

हनुमत्पञ्चरत्नम्

Hanumata Pancaratnam

स्तोत्र · 🚩 श्री हनुमान · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as हनुमत्पञ्चरत्नम्

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.

अक्षर का आकार

वीताखिलविषयेच्छं
जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताद्यं
वातात्मजमद्य भावये हृद्यम् ॥ १ ॥

तरुणारुणमुखकमलं
करुणारसपूरपूरितापाङ्गम् ।
संजीवनमाशासे
मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥

शम्बरवैरिशरातिग-
मम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं
बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३ ॥

दूरीकृतसीतार्तिः
प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः
पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

वानरनिकराध्यक्षं
दानवकुलकुमुदरविकरसदृक्षम् ।
दीनजनावनदीक्षं
पवनतपःपाकपुञ्जमद्राक्षम् ॥ ५ ॥

एतत्पवनसुतस्य
स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान्भोगा-
न्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ ६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
हनुमत्पञ्चरत्नं संपूर्णम् ॥

स्रोत · Source

The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#stotrani

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयश्री हनुमान पूजा बुक करें