🙏

गजेन्द्रमोक्षः

Gajendramokshah

स्तोत्र · 🪷 भगवान विष्णु · Sanskrit · ⏱ 4 min

अन्य नाम · Also known as गजेन्द्रमोक्षः

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

श्री शुक उवाच
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितं ॥ १ ॥

गजेंद्र उवाच
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकं ।
पुरुषायादि बीजाय परेशायाभिधीमहि ॥ २ ॥

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं ।
योस्मापरस्माच्च परस्तं प्रपद्ये स्वयंभुवं ॥ ३ ॥

यः स्वात्मनीदं निजमाययार्पितं
क्वचिद्विभातं क्वच तत्तिरोहितं ।
अविद्धदृक्साक्ष्यु भयं तदीक्षते
स आत्ममूलोवतु मां परात्परः ॥ ४ ॥

कालेन पंचत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदासीद्गहनं गभीरं
यस्तस्य पारेभिविराजिते विभु ॥ ५ ॥

न यस्य देवा ऋषयः
पदंर्विजंतुः कोर्हति गंतुमीरितुं ।
यथा नटस्याभिकृतिर्विचेष्टतो
स आत्ममूलोवतु मां परात्परः ॥ ६ ॥

दिदृक्षवो यस्यपदं सुमंगळं
विमुक्तसंगा मुनयः सुसाधवः ।
चरंत्य लोक व्रतमव्रणं वने
भूतात्मभूताः सहृदः स मे गतिः ॥ ७ ॥

न विद्यते यस्य च जन्मकर्मवा
न नामरूपे गुणदोष एव वा ।
तथापि लोकाप्यय संभवाय यः
स्वमायया तान्यनुकालमृच्छति ॥ ८ ॥

तस्मै नमः परेशाय ब्रह्मणेनंतशक्तये ।
अरूपायोरुरूपाय नम आश्चर्य कर्मणे ॥ ९ ॥

नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनश्चेतसामपि ॥ १० ॥

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥

नमः शांताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२ ॥

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्य्क्षाय साक्षिणे ।
पुरुषायात्म मूलाय मूलप्रकृतये नमः ॥ १३ ॥

सर्वेंद्रिय गुणदृष्ट्रे सर्वप्रत्यय हेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४ ॥

नमो नमस्तेखिलकारणाय
निष्कारणायाद्भुत कारणाय ।
सर्वागमाम्नाय महार्णवाय
नमोपवर्गाय परायणाय ॥ १५ ॥

गुणारणिच्छन्न चिदूष्मपाय
तत्क्षोभविस्फूर्जित मानसाय ।
नैष्कर्म्य भावेन विवर्जितगम
स्वयंप्रकाशाय नमस्करोमि ॥ १६ ॥

मादृक्प्रपन्न पशुपाश विमोक्षणाय
मुक्ताय भूरिकारणाय नमोलयाय ।
स्वांशेन सर्वतनुभृन्मनसि प्रतीत
प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ १७ ॥

आत्मात्मजाप्त गृहवित्तजनेषु सक्तै
र्दुष्प्रापणाय गुणसंग विवर्जिताय ।
मुक्तात्मभिः स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय ॥ १८ ॥

यं धर्मार्थ विमुक्तकामा
भजंत इष्टां गतिमाप्नुवंति ।
किं त्वाशिषोरात्यपि देहमव्ययं
करोतुमेदभ्रदयो विमोक्षणं ॥ १९ ॥

एकांतिनो यस्य न कंचनार्थं
वांछंति ये वै भगवत्प्रपन्नाः ।
अत्यद्भुतं तच्चरितं सुमंगळं
गायंत आनंदसमुद्रमग्नाः ॥ २० ॥

तमक्षरं ब्रह्म परं परेशमव्यक्त
माध्यात्मिक योगगम्यं ।
अतींद्रियं सूक्ष्ममिवातिदूर
मनंतमाद्यं परिपूर्णमीडे ॥ २१ ॥

यस्य ब्रह्मादयोदेवा वेदा लोकाश्चराचराः ।
नामरूप विभेदेन फ़ल्ग्व्या च कलया कृताः ॥ २२ ॥

यथार्चिषोग्नेः सवितुर्गर्भस्तयो
निर्यांति संयात्यसुकृत्स्वरोचिषः ।
तथा यतोयं गुणसम्प्रवाहो
बुद्धिर्मनः खानि शरीरसर्गाः ॥ २३ ॥

स वै न देवासुरमर्त्यतिर्य
ङ्न स्त्री न षंडो न पुमान्नजंतुः ।
नायं गुणः कर्म न सन्नचास
न्निशेधशेषो जयतादशेषः ॥ २४ ॥

जिजीविषे नाहमिहमुया
किमंतर्बहिश्चा वृत्तये भयोन्या ।
इच्छामि कालेन न यस्य विप्लवः
तस्यात्मलोकावरणस्य मोक्षं ॥ २५ ॥

सोहं विश्वसृजं विश्वमविश्वं विश्ववेदसं ।
विश्वात्मानजं ब्रह्म प्रणतोस्मि परंपदं ॥ २६ ॥

योगरंधितकर्मणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यंति योगेशं तं नतोस्म्यहं ॥ २७ ॥

नमो नमस्तुभ्यसह्यवेगाय
शक्तित्रया याखिलाधि गुणाय ।
प्रपन्न पालाय दुरंतशक्तये
कदिंद्रियाणा मनवाप्यवर्त्मने ॥ २८ ॥

नायं वेद स्वमात्मानं यच्छक्त्या हंधिया हतं ।
तं दुरत्यय माहात्म्यं भगवंतमितोस्म्यहं ॥ २९ ॥

श्री शुक उवाच
एवं गजेंद्रमुपवर्णित निर्विशेषं
ब्रह्मादयो विविध लिंग भिदाभिमानाः ।
नैते यदोपसृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत् ॥ ३० ॥

तं तद्वतार्त्तमुप्लभ्य जगन्निवासः
स्तोत्रंनिशम्य दिविजैःसह संस्तुवद्भिः ।
छंदोमयेन् गरुडेन समुह्यमानो
श्चक्रायुधोभ्यगमदाशु यतो गजेंद्रः ॥ ३१ ॥

सोंतस्सरस्युरुबलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रं ।
उत्क्षिप्य सांबुजकरं गिरिमाह कच्छ्रा
न्नारयणाखिलगुरो भतवन्नमस्ते ॥ ३२ ॥

तं वीक्ष्यपीडितमजः सहसावतीर्य
सग्राहमाशु सरसः कृपयोज्जाहारः ।
गृहाद्विपाटित मुखादरिणा गजेंद्रं
संपश्यतां हरिरमूमुचदुस्रियाणां ॥ ३३ ॥

॥ इति श्रीमद्भागवते अष्टम स्कंधे गजेंद्रमोक्षस्तोत्रन्नाम तृतीयोध्याय संपूर्णः ॥
॥ श्रीकृष्णार्पणमस्तु ॥

स्रोत · Source

Sanskrit Wikisource, page "गजेन्द्रमोक्षः", revision 54840.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयभगवान विष्णु पूजा बुक करें