द्वादशलिङ्गस्तोत्रम्
स्तोत्र · 🔱 भगवान शिव · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as द्वादशलिङ्गस्तोत्रम्
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
सौराष्ट्रदेशे वसुधावकाशे
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृतावतारं
तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥
श्रीशैलशृङ्गे विविधप्रसङ्गे
शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेनं
नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहं सुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्त-
मोंकारमीशं शिवमेकमीडे॥ ४ ॥
पूर्वोत्तरे पारलिकाभिधाने
सदाशिवं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं सततं नमामि ॥ ५ ॥
आमर्दसंज्ञे नगरे च रम्ये
विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भुक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥
सानन्दमानन्दवने वसन्त-
मानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ॥ ७ ॥
यो डाकिनीशाकिनिकासमाजे
निषेव्यमाणः पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं
तं शंकरं भक्तहितं नमामि ॥ ८ ॥
श्रीताम्रपर्णीजलराशियोगे
निबद्ध्य सेतुं निशि बिल्वपत्रैः ।
श्रीरामचन्द्रेण समर्चितं तं
रामेश्वराख्यं सततं नमामि ॥ ९ ॥
सिंहाद्रिपार्श्वेऽपि तटे रमन्तं
गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात्पातकजातनाशः
प्रजायते त्र्यम्बकमीशमीडे ॥ १० ॥
हिमाद्रिपार्श्वेऽपि तटे रमन्तं
संपूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्षमहोरगाद्यैः
केदारसंज्ञं शिवमीशमीडे ॥ ११ ॥
एलापुरीरम्यशिवालयेऽस्मि -
न्समुल्लसन्तं त्रिजगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं
सदाशिवं तं धिषणेश्वराख्यम् ॥ १२ ॥
एतानि लिङ्गानि सदैव मर्त्याः
प्रातः पठन्तोऽमलमानसाश्च ।
ते पुत्रपौत्रैश्च धनैरुदारैः
सत्कीर्तिभाजः सुखिनो भवन्ति ॥ १३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
द्वादशलिङ्गस्तोत्रं संपूर्णम् ।
The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.