दक्षिणामूर्तिवर्णमालास्तोत्रम्
स्तोत्र · 🔱 भगवान शिव · Sanskrit · ⏱ 3 min
अन्य नाम · Also known as दक्षिणामूर्तिवर्णमालास्तोत्रम्
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
ॐ मित्येतद्यस्य बुधैर्नाम गृहीतं
यद्भासेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥
नम्राङ्गाणां भक्तिमतां यः पुरुषार्था-
न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।
पादाम्भोजाधस्तनितापस्मृतिमीशं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥
मोहध्वस्त्यै वैणिकवैयासिकमुख्याः
संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥
भद्रारूढं भद्रदमाराधयितॄणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥
गर्भान्तःस्थाः प्राणिन एते भवपाश-
च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।
आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥
चक्रं धन्याः संसृतिवार्धेरतिमात्रा-
द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवन्तेऽध्यासीनमनन्तं वटमूलं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥
तेजः स्तोमैरङ्गदसंघट्टितभास्व-
न्माणिक्योत्यैर्भासितविश्वो रुचिरैर्यः ।
तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥
दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।
यज्जिज्ञासां रूपफलार्थी क्षितिदेव-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८ ॥
क्षिप्रं लोके यं भजमानः पृथुपुण्यः
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः
प्रत्यग्भूतं ब्रह्म परं सन्रमते य-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९ ॥
णानेत्येवं यन्मनुमध्यस्थितवर्णा-
न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ।
मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १० ॥
मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-
प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।
यस्याभ्राभा हासविधौ दक्षशिरोधि-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥
तप्तस्वर्णच्छायजटाजूटकटाह-
प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥
येन ज्ञातेनैव समस्तं विदितं स्या-
द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥
मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
स्फूर्जत्कालप्रोषितभस्मीकृतदेहः ।
तद्भस्मासीद्यस्य सुजातः पटवास-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥
ह्यम्भोराशौ संसृतिरूपे लुठतां त-
त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।
सर्वाराध्यं सर्वगमानन्दपयोधिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥
मेधावी स्यादिन्दुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥
धाम्नां धाम प्रौढरुचीनां परमं य-
त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।
एतावान्यो यस्य न सर्वेश्वरमीड्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥
प्रत्याहारप्राणनिरोधादिसमर्थै-
र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।
स्वात्मत्वेन ज्ञायत एव त्वरया य-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तःस्थः प्रेरयति स्वे सकलेsपि ।
कृत्ये देवः प्राक्तनकर्मानुसरः सं-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥
प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥
यस्याज्ञानादेव नृणां संसृतिबोधो
यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥
छन्नेऽविद्यारूपपटेनैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम् ।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥
स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
प्राणश्चेतः सर्वगतो यः सकलात्मा ।
कूटस्थो यः केवलसच्चित्सुखरूप-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥
हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥
यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
रादौ कॢप्ता यन्मनुवर्णैर्मुनिभङ्गी ।
तामेवैतां दक्षिणवक्त्रः कृपयासा-
वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं
संपूर्णम् ॥
The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.