आर्यासाहस्री
स्तोत्र · Sanskrit · ⏱ 88 min
अन्य नाम · Also known as आर्यासाहस्री
Sanskrit text from Sanskrit Wikisource.
अतिसुखिनि सुन्दराङ्गि श्रितजनमन्दारवल्लरि श्यामे ।
भारति कमलजजाये विद्यां बुद्धिं समुज्ज्वलां दिश मे ॥1॥
असदशसम्पद्भरिते शुभगुरुराजत्वकीर्तिबोधमयि ।
श्रीमातरखिलमातः स्तोतारं मां पुनीहि हे ललिते ॥2॥
अखिलजनमोदहेतोर्देवीश्वरि हे शिवे महाराज्ञि ।
मायाप्रकटितरूपे रूपत्रयभाविते नमो ललिते ॥3॥
अतिगुरुमहिमापूर्णे राज्ञां साम्राज्यदायिनी त्वमसि ।
गतिमतिदात्रि नमस्ते नादश्रीर्नादकोविदे पाहि ॥4॥
अमतांशुमौलिजाये ! हेमासनसुस्थिता महाकल्पा ।
सुखिनि सुखास्पदधाम्नि प्रणमन्तं त्वां सदैव मां पाहि ॥5॥
अमलकरचित्कलाञ्चज्योतिर्मुख्याङ्कुरात् समुद्भूते ।
भूरिमहिम्ना भरिते देवि सुरानन्ददात्रि मां पाहि ॥6॥
असुरगणमखिलमनिशं हन्तुं जातासि देवकार्यार्थम् ।
अहमिति धीरूपाग्नेः कण्डाद्ब्रह्माण्डजननि मां पाहि ॥7॥
अयुताधिकरविदीप्ते पूर्वाम्बुधिशैलतुङ्गशिखराग्रे ।
उद्यद्भानुसहस्रप्रभया विभ्राजिते नमो ललिते ॥8॥
अखिलामरजनयित्री सुगुणैः स्वैरेव शोभितं ललितम् ।
पाशं दधासि या त्वं सा त्वं मामम्ब पालयेरनिशम् ॥9॥
अयि परुषपाशहस्ते पुण्ड्राङ्कुशराजमानकरकमले ।
पुरुषार्थदायिपाणे भारति वाग्देवते नमो ललिते ॥10॥
अतिसुखदरूपमनिशं दधती हस्तेङ्कुशं सदा महसा ।
विभ्राजमानमूर्ते ललिते मामम्ब सन्ततं पाहि ॥11॥
अमलज्ञानाकारे मानसरूपेक्षुदण्डकोदण्डे ।
ग्रन्थिषु धृतषट्चक्रे ललिते मामम्ब सादरं पाहि ॥12॥
अभिनवचम्पकसुमसमनासादण्डेभिराममुखकमले ।
शुभकरि करुणामूर्ते मातर्ललिते नमोस्तु ते सततम् ॥13॥
अरुणरुचिपूरमज्जद्ब्रह्माण्डाखण्डमण्डलोल्लसिते ।
करुणामसृणापाङ्गे मातर्मां पाहि सन्ततं ललिते ॥14॥
अयि नीलकेशपाशे चाम्पेयाशोकललितपुन्नागैः ।
सौगन्धिकेन रचितं माल्यं दधतीं नमामि देवि त्वाम् ॥15॥
अतिरुचिरपद्मरागप्रत्युप्तस्वर्णरचितकेयूरे ।
दरहासभूषितास्ये मातर्मां देवि सन्ततं पाहि ॥16॥
अतिसुरभिमगमदाञ्चत्फाले कोटीरमञ्जुलाभरणे ।
दुष्टसुरारिवधाय व्यापतनानाविधायुधे शिवे पाहि ॥17॥
अमलतरसुन्दराननमन्दिरमाङ्गल्यतोरणभृकुटि ।
सुभ्रूगणपरिवारे धीरे मां पाहि सन्ततं ललिते ॥18॥
अतिदुर्भरतरजघने दरलीलासक्तमीनरुचिराक्षि ।
अयि सुन्दराङ्गि मातर्मातस्त्वां चिन्तये सदा हदये ॥19॥
अमलतरतारकालिज्योतिर्न्यक्कारिनासिकाभरणे ।
कुमुदवनबन्धुवदने गुणवति मां पाहि ते नमो ललिते ॥20॥
असुरकम्बकदम्बप्रसवसुकर्णावतंसवत्कर्णे ।
कमलापतिसहजाते जाते प्रीता भवाम्ब मयि ललिते ॥21॥
अमलतररुचिमहोज्वलताङ्कीभूतरविशशङ्कयुते ।
अमरकुलसेविताङ्घ्रे नित्यं मां पाहि वत्सले ललिते ॥22॥
अमलसुधाकरलाञ्छनसन्निभमगनाभिपङ्कवत्फाले ।
कमलजवदननिवासे तावकमङ्घ्रिद्वयं मुदा वन्दे ॥23॥
अमलतरपद्मरागादर्शतिरस्कारकारिसुकपोले ।
अतुलास्यहास्यलास्ये कमलाक्षि त्राहि जनमिमं सरले ॥24॥
अभिनवविद्रुमशोभापरिभविदन्तच्छदेन सङ्कलिते ।
शुभगुणगणसंवलिते श्रीपतिवन्द्येम्ब पाहि मां ललिते ॥25।
अतिविमलसाधुविद्याप्राङ्कुररूपद्विजद्विपङ्कियुते ।
मतिमति विधिहरिमान्ये त्वं कुरु कारुण्यमयि मयीह भृशम् ॥26॥
अमलतरनागवल्लीकर्पूरक्रमुकसौरभादेव ।
आह्लादयन्त्यशेषाशांस्त्वं जयसि शोभया देवि ॥27॥
अमतस्यन्दिवचोभिस्त्रपयन्ती कच्छपीं निजां वीणाम् ।
मधुरालापैरपि पिकमम्बुजनयने त्वमेव मां पाहि ॥28॥
अनलाक्षमात्मरमणं मन्दस्मितपूरलीनहदयं तम् ।
विदधास्यजस्रमाराद् धीरा त्वं पाहि शैलजे सततम् ॥29॥
असदृशनिजचिबुकश्रीशोभितकम्बुद्युतिस्फुरत्कण्ठि ।
कुसुमायुधमदहारिणि मातर्मां पाहि विजितकलकण्ठि ॥30॥
अमलेन्दुधरनिबद्धश्रीमन्माङ्गल्यसूत्रवत्कण्ठि ।
कमलाक्षाब्जजवन्द्ये पार्वति माङ्गल्यदात्रि मां पाहि ॥31।
अनघकनकाङ्गदाढ्ये श्रीमद्भुजदण्डमण्डिते महिते ।
कनकगिरिचापधर्तुर्भर्तर्वाचि स्थितेम्ब मां पाहि ॥32॥
अनघमणिघटितहेमग्रीवाचिन्ताकमौक्तिकाभरणे ।
विनयनतमस्तकं मां पालय दीनं च शमय मदमोहौ ॥33॥
अभिमतनिजपतिहर्षस्फुरितानर्घाश्मनिस्तुयोरोजे ।
अभिजनपूजितचरणे नतिरियमयि तेस्तु चरणयोर्देवि ॥34॥
अवनम्रनाभिरूपावालजरोमालिफलककुचयुगले ।
अवहितभुवनत्राणे शम्भोः प्राणाधिकेम्ब मां पाहि ॥35॥
अवहितरोमावल्या सूचितवल्लद्वलग्नशुभदेशे ।
अविनयमम्ब मदीयं जहि सुरसन्तोषभाग्यमयकोशे ॥36॥
अतिघनवक्षोरुहयोर्वहनायाबद्धवलिमहादशने ।
गतिरसि मतिरसि सततं मम माता त्वमेव मां पाहि ॥37॥
अरुणारुणकौसुम्भश्रीमद्वासःश्रियाढ्यकटिभागे ।
कुरु मां तव करुणायाः पात्रं गोत्रं मनश्च पावय मे ॥38॥
अगणितमणिकिङ्किणिकारशनादाम्ना विराजतेद्रिसुते ।
नगवरकुलमणिदीपे दिश मम काव्याङ्गनाकपामम्ब ॥39॥
अनलाक्षपाणिपद्मद्वयवेद्या परुषसुरभिललिताङ्गी ।
जनयित्री लोकानां मयि कुरु करुणां स्वभावसुरभितनो ॥40॥
अनघद्युतिमाणिक्यस्फुरितकिरीटाभजानुयुग्मयुते ।
अनुनय मयि कुरु वाणि त्वयि तु मयि त्वं दयस्व हे ललिते ॥41॥
अहिरिपुमणिकतमन्मथतूणीराकारजानुयुगलाढ्ये ।
महितगुणराजमाने मम मनसि त्वं वसाम्ब हरवेद्ये ॥42॥
अतिपीनगूढगुल्फे मतिमति मत्याश्रये सतां सततम् ।
कतिनां समितिषु कुरु मां सुमतिं सम्भावितं च हे ललिते ॥43॥
अयि कमठपष्ठविजयिप्रपदद्वयराजमानपदकमले ।
नियतिनियामकजाये सपदि कपां धेहि मयि निजे ललिते ॥44॥
अरुणनखदीप्तिमज्जज्जनहदयध्वान्तनाशसुप्रीते ।
करुणामसणापाङ्गे जननि त्वामाश्रयाम्यहं सततम् ॥45॥
अयि पदयुगलज्योतिर्न्यक्कृतपाथोजवनरुचे महसा ।
नियमितदीप्तिमदे त्वं जयसि हि दीप्त्यास्व मयि तथा महसा ॥46॥
अविरतमपि शिञ्जाने मणिमयपादाङ्गदे दधानेम्ब ।
भवभयहारिणि तारिणि संसाराम्भोनिधेः सदा पाहि ॥47॥
अनुपमहंसवधूटीं जित्वा गत्या विराजमानेम्ब ।
अनुचरचरचरमेनं तव शिवजाये पुनीहि मामम्ब ॥48॥
अभिनवहेमसवर्णे देवि महारूपशेवधे सविधे ।
जयति च सवर्णसिंही त्वं मां पायाश्च सिंहसंहनना ॥49॥
आभरणराजिकान्त्या निजतनुदीप्त्यावतारुणच्छाया ।
सौभगपरिपूर्णा त्वं सुभगं कुरु मां दयासुधावष्ट्या ॥50॥
आपादमौलिदेशादनवद्याङ्गाङ्गबन्धुरे सुकरे ।
श्रीपादशोभमाने जननि त्वामेव याम्यहं शरणम् ॥51॥
आपादमौलिविलसन्नानाभूषावलीप्रभाच्छन्ने ।
आपादमौलिसुषमापिहिते मां पाहि सन्ततं ललिते ॥52॥
आशाम्बरवामाङ्के वाल्लभ्यादेव सानुरागमपि ।
आरोपितनिजमूर्ते दुर्गे देवि त्वमेव मां पाहि ॥53।
आददति ये पवित्रे हदये तेषां सदा शिवा भासि ।
मोदयसि सन्ततं त्वं तानेवानेकभाग्यदा जयसि ॥54॥
आधिव्याधिविहीने स्वाधीनात्मप्रिये प्रभावेण ।
अधिगतभुवनध्याने साधीयो मे हितं त्वया ललिते ॥55॥
आधिनिवारिणि नमतां साधुनुते मेरुशृङ्गमध्यस्थे ।
साधूपकारशीले साधय मत्कार्यमुत्तमं ललिते ॥56॥
आकाशान्तःकलया निहितश्रीनगरनायिके गौरि ।
साकारभाग्यरूपे रूपगुणोद्योगभेदवति जयसि ॥57॥
आपादितसकलाशे श्रीसखि चिन्तामणिप्रिये महादेवि ।
वासोरुचिसंवलिते दासे मयि ते दयस्व हे ललिते ॥58॥
आर्ये विधिहरिरुद्रेश्वररूपब्रह्मपीठमारूढे ।
नार्यवतारिणि भद्रे मारवधूटीप्रिये नमो ललिते ॥59॥
आपाटलसरसीरुहकान्तारान्तःस्थिते गुणोल्लसिते ।
श्रीपादजितसरोजे शरणं भव मे भवे भवे ललिते ॥60॥
कार्याकार्याभिज्ञे शौर्यश्रीमत्कदम्बवनवासे ।
आर्यानन्दिनि मायाकार्यानन्दान्वितेम्ब मां पाहि ॥61॥
आश्रितपालनचतुरे पीयूषाम्भोधिमध्यगेहस्थे ।
आश्रितसुरपरिवारे दशशतपत्राब्जपीठगे पाहि ॥62॥
आनतभक्ताभीष्टं मानयितुं दातुमसि च कामाक्षी ।
दीनानाथशरण्ये मानय मामम्ब सादरं ललिते ॥63॥
आराधयन्ति ये त्वां तेषामानन्ददायिनी नित्यम् ।
नारीकिरीटशोभाराधितचरणेम्ब पाहि मां ललिते ॥64॥
आनतसुरमुनिबन्दैरनवरतस्तूयमानपदकमले ।
दानवनाशिनि तुभ्यं नतिरियमास्तां जयाम्ब हे ललिते ॥65॥
आर्ये भण्डवधोद्यतशक्तिचमूभिस्समावते देवि ।
कार्येषु मे सहाया कार्यप्रज्ञाप्रदास्व मयि ललिते ॥66॥
आश्रितसम्पत्करणीशक्त्यारूढेभसेविते समरे ।
आश्रितसुरपरिवारे धीरे मामम्ब पाहि हे ललिते ॥67॥
आरूढवाजिसेनावारितकोट्यश्वसेनया सहिते ।
आपीतासवमत्ते चित्ते ते मे नुतिस्सदा भवतु ॥68॥
आरुह्य चक्रराजस्यन्दनमखिलायुधानि परिगह्य ।
वीरावेशकराले वैरिषु समरेषु कोपने जय हे ॥69॥
आरुह्य गेयचक्रस्यन्दनमेकं च सेव्यमानेम्ब ।
श्यामलया मन्त्रिण्या समरससमरे नमोस्तु ते ललिते ॥70॥
आरुह्य च किरिचक्रस्यन्दनमनघं धुरि प्रतिष्ठितया ।
दण्डाधिपवाराह्या शक्त्या सहिते जयाम्बिके ललिते ॥71॥
आक्रम्य दिव्यशक्त्या वह्निप्राकारमध्यमभ्येत्य ।
ज्वालामालिन्या त्वं जयसि रुचा समरभूतले ललिते ॥72॥
आराकाचन्द्रकलिकावद्धिप्रदशक्तिवद्धिसन्तुष्टे ।
उत्साहवद्धिहेतोः शक्तीनां त्वं जयाम्बिके ललिते ॥73॥
आक्रम्य भण्डपुत्रानखिलान् हत्वा जयेन सन्तुष्टे ।
बालाविक्रममुदिते समरे दुर्गांब ते नमो ललिते ॥74॥
आसुरविषङ्गदैत्यं मन्त्रिण्यम्बावधीद्रणे येन ।
श्यामज्याङ्कितहस्ते तुष्टे युद्धेन ते नमो ललिते ॥75॥
आर्ये भण्डभ्रातश्यामलयासीद्धतोंब ते समरे ।
मुदिता त्वमभूर्मातः सुररिपुहनत्यम्ब ते नमो ललिते ॥76॥
आस्यालोकनमात्रात् पत्युर्विघ्नेशमसज एव त्वम् ।
मायामसुरानपि तानवधीर्विघ्नेश एव कुशलतया ॥77॥
आसुरमायाविघ्नान् विघ्नेशोनाशयत्तदा ते हि ।
आनन्दयदपि भवतीं यस्ते पुत्रो हि तेन ते ललिते ॥78॥
आर्ये भण्डविमुक्तान् बाणानखिलान्निजाशुगेनैव ।
सत्वरमखण्डयस्त्वं तस्मात्तुभ्यं नमो नमो ललिते ॥79॥
आयोधने नियोद्धुं सिद्धे भण्डे कराङ्गुलीभ्यस्त्वम् ।
नारायणावतारानसजत् सहसैव ते नमो ललिते ॥80॥
आर्या पाशुपताग्निज्वालाभस्मीकतासुरे समरे ।
मूलाधारज्वाला सेयं ननु ते नमो नमो ललिते ॥81॥
आनीलकोमलाङ्गि श्रीललिते श्रीनिकेतने सवने ।
सौजन्यादिगुणानां त्वं मे सद्बुद्धिमनुगहाणाम्ब ॥82॥
आसुरबलमवधीस्त्वं कामेशास्त्रेण भण्डदैत्यं तम् ।
फालानलेन गिरिशो मदनमिवाजेयमम्बिके ललिते ॥83॥
आसुरभण्डवधात् त्वामजहरिशक्रादिदेवता अचलाः ।
भक्त्या शशंसुरम्बां वन्दे त्वामस्तु ते नमो ललिते ॥84॥
अद्भुतकलावतारे हरनयनप्लुष्टमदनजीवातो ।
आश्रितजनततिसुगमे श्रीदेवि त्वं दयस्व मयि दीने ॥85॥
इभवदनजननि ललिते शुभकरि परिपूर्णचन्द्रनिभवदने ।
अभयङ्करि जगतां मां देवि त्रायस्व सादरं तमिमम् ॥86॥
इनशशिपावकनयने कण्ठान्नीचैर्नितम्बपर्यंतम् ।
आकटितटमपि कण्ठान्मध्यमकूटावते नमो ललिते ॥87॥
इभराजमन्दगमने दढशक्त्याधारशोभिते महिते ।
अभयप्रदकरपद्मे पद्मास्ये पाहि मां मुदा ललिते ॥88॥
इभराजवाहना त्वं शुभकरमन्त्रात्मिका त्वमेवासि ।
अभयं दिश मे मातः शुभमपि सततं नमोस्तु ते ललिते ॥89॥
इदमम्ब मन्त्रराज्यं विविधं भागत्रयेण ते भाति ।
आकट्याकन्धरमामस्तकमित्याश्रयाम्यहं तु त्वाम् ॥90॥
इदमजकतजगदासीत् कुलरूपेणास्थिता श्रिया जयसि ।
हदयनिवासिनि नमतां जलजाक्षि त्वामहं भजे सततम् ॥91॥
इहकुलपालिनि जगतां सष्टिव्यापारपालिनी त्वमसि ।
महिताम्नायनुतां त्वां शिरसा वन्दे नमोस्तु ते ललिते ॥92॥
इहकुलहदयनिलीना विहिताशेषक्रियाकलापासि ।
महतामाश्रयदात्री त्वं मे शरणं भवानिशं ललिते ॥93॥
इदमखिलमेव विश्वं हदये वहसीक्षसे सदा दयया ।
मायातत्त्वमिदं ते गहनाद्गहनं नमो नमो ललिते ॥94॥
इदमम्ब विश्वतस्ते त्वयि च त्वं चात्र परमकुलरूपा ।
इह कुण्डलिनीपीठा कौलिन्याख्ये नमोस्तु ते ललिते ॥95॥
इदमम्ब विश्वमखिलं संयोज्यैवात्मनाहिता भवसि ।
हदि करुणामयि मयि ते करुणापातोस्तु ते नमो ललिते ॥96॥
इह जगति वर्तमाना लीलालीनेव वर्तसे सततम् ।
महितागमनुतचरणे दीनमपायान्निवारयेर्ललिते ॥97॥
इह ननु समतायुक्ता जीवब्रह्मद्वयेन चाद्वैता ।
विहिताचारविधारे भावय मामात्मनन्दनं ललिते ॥98॥
इह तु समन्वयितात्मा योगक्षेमाय मुक्तियत्नाय ।
महतामाश्रयरूपे भोगिमहावेणि ते नमो ललिते ॥99॥
इह भवसि देवि मूलाधारे हि श्रीस्त्वमेव ते प्रभया ।
विहिता चक्रावलिरपि विलसति योगिप्रियाय जय माये ॥100॥
इह मूलचक्रमध्ये ब्रह्मग्रन्थिच्छिदेव या त्वमसि ।
महिता सा मयि दयतां ब्रह्मवधूटीप्रिया सदा ललिता ॥101॥
इह मणिपूरोदयिनी सा त्वं चानाहताश्रया भवती ।
सहिता प्रणवमहिम्ना सात्त्विकरूपे नमोस्तु ते ललिते ॥102॥
इदमप्यनाहताब्जं श्रयसि त्वं चोन्नतं च हरिचक्रम् ।
भित्वानाहतचक्रे चक्रेश्वरि ते नमो नमो ललिते ॥103॥
इह षट्चक्रजगत्यामाज्ञाचक्राब्जवासिनी भवसि ।
विदितसमस्तविचारे धीरे मातर्नमोस्तु ते ललिते ॥104॥
इह तावदम्ब चक्रे त्वं भास्याज्ञाभिदे कतावासा ।
अयि जयसि लोकमातर्जंभारिप्रार्थिते नमो ललिते ॥105॥
इह दशशतदलकमले ग्रन्थीन् भित्वा स्थितोपरिष्टात् त्वम् ।
अहितासुरमदनाशिनि जय जय मातर्नमो नमो ललिते ॥106॥
इभपतिगतिमतिसमरे देवि सुधासारवर्षिणीन्दुमुखि ।
अभियातदैत्यन्त्रि श्रीमति मातर्नमोस्तु ते ललिते ॥107॥
इदमिह सहस्रपत्रं तव पीठं कल्पितं हि सरसिरुहम् ।
इदमारुह्य मनोज्ञं त्वं पीयूषं सतोभिवर्षसि हि ॥108॥
इच्छानुरूपकार्ये जीवब्रह्मैकताविधानकरि ।
अच्छस्मितमुखि सदये हदये भव मे नमोस्तु ते ललिते ॥109॥
इह चक्रषट्कमूलं मूलाधारं च तत्र कुण्डलिनी ।
आस्ते कण्डलितङ्गी सा त्वं भवसीति ते नमो ललिते ॥110॥
इनकरविकसितसरसिजललितमणालीयसूत्रसूक्ष्मकटि ।
दिनकरकोटिसमाने जलजमुखि श्रीर्नमोस्तु ते ललिते ॥111॥
इह भवसि शिववधूस्त्वं मदनवधूटी त्वमेव जातासि ।
नाम्ना प्रपञ्चमाता मातस्त्वामेव चिन्तये सततम् ॥112॥
इह भवसि भावना त्वं हदये हदयेपि भावनागम्या ।
भावनयानुगतेन ध्यानेन त्वं सतां भवेस्सुलभा ॥113॥
इह भवसि भववने त्वं परशुर्दावानलोथवा त्वं हि ।
महितकलावति गिरिजे भूयो भूयो नमांसि ते ललिते ॥ 114॥
इह सकलमङ्गलानां विहिता कर्त्रीति कारणं च तथा ।
महिताम्नायस्तवने विहिता माङ्गल्यमन्दिरे त्वमसि ॥115॥
इह भवसि भद्रमूर्तिः शिवजायासि त्वमेव जगति शिवा ।
अहिभूषणतनुहारिणि भव भयहारिण्यसि त्वमेव शिवे ॥116॥
इह भक्तभाग्यधात्री भक्तप्रीता त्वमेव भवसि ननु ।
वहसि शिवभारमखिलं भक्तनिधे ते नमो नमो ललिते ॥117॥
इह भक्तिरेव शुद्धा भवति कता प्रिया हि सुजनेन ।
विहगेशवाहनेड्ये मातस्तुभ्यं नतिर्मया विहिता ॥118॥
इष्टादिकर्मगम्या तुष्टै ते सैव यदि कता विमला ।
इष्टार्थदात्रि भजतां तुष्टा मय्यस्व सन्ततं ललिते ॥119॥
इष्टेतराणि सकलान्यष्टभुजैस्त्वं निवारयेर्ननु ते ।
अहितबलानि सदा त्वं नैजबलेनैव हन्तुमुदितासि ॥120॥
इष्टां सर्वेषां नः सृष्टिस्थितिनाशभयतमोहरणम् ।
इष्टां प्रदातुमीशे मुक्तिं मे देहि तां त्वमेवाम्ब ॥ 121॥
इष्टं वितरस्यर्थं नवरात्रान्ते त्वमेव देवानाम् ।
नादज्ञानदवाण्या सेवितचरणे नमोस्तु ते ललिते ॥ 122॥
इह दृश्यमानरूपो भूमूर्तिः शङ्करस्तदर्धाङ्गी ।
त्वमसि हि महिमापूर्णा हैमवति त्राहि मां त्वमेवाम्ब ॥123॥
इह चामुत्र च सुखदे महितगुणाढ्ये मुरारिसहजाते ।
सहजारुणमुखकमले जहि मम पापानिसञ्चितान्यम्ब ॥124॥
इष्टार्थदानशीले तुष्टा नमतां सपर्यया सतम् ।
इष्टप्रियासि सा त्वं पुष्टिं तुष्टिं च वितर मे ललिते ॥125॥
इच्छारागद्वेषान् अभिहत्यात्मन्यशेषसुजनेच्छाम् ।
यच्छसि तुष्ट्या त्वं मेभीष्टानर्थान् प्रदेहि हे ललिते ॥ 126 ॥
इभवदनजननि साध्वि श्रीमत्सम्पूजिते जितामित्रे ।
प्रभवसि त्वं तापार्तं त्रातुं जनमम्ब निजकृपापाङ्गैः ॥127॥
इभवदनवन्द्यमाने शारदपूर्णेन्दुराजमानास्ये ।
त्रिभुवनजननि दयालो कारुण्यं ते सदास्तु मयि दासे ॥128॥
इष्टप्रदात्रि धात्रि त्रिनयनहदयप्रिये सदा ललिते ।
तुष्टस्वान्तसरोजे गुणमयि मां पाहि किन्नरोद्गीते ॥129॥
इष्टा हि तेम्ब शान्तिः स्वान्ते शान्तिप्रदासि ननु नमताम् ।
शातोदरि दरहासस्फुरदास्येन्दो नमोस्तु ते ललिते ॥ 130 ॥
इह च परत्राधारं कमपि विनाधारमात्मनोभ्येत्य ।
त्रिपुटीरहितासि त्वं ब्रह्मैवासीति भावयामि त्वाम् ॥ 131 ॥
इह च परत्र विशुद्धे चित्ते वाचि क्रियाकलापेषु ।
भुवननिरञ्जनचित्ते चित्तागारे वसाम्ब मे ललिते ॥132॥
इह शतपत्रसुपत्रे पतितं वारीव वर्तमाना त्वम् ।
विहरसि सत्तासत्ताभवविषये त्वं तथैव मां पाहि ॥133॥
इह परिशुद्धात्मा त्वं सत्यज्ञानाग्निदग्धतिमिरासि ।
अज्ञानमन्धकारं जाने तेनासि विरहिता ललिते ॥134॥
इह च परत्र च नाशो न हि ते निहिता पदे स्थिरे सततम् ।
विहितविधायकधात्रा मित्रामित्रादिभेदरहितासि ॥135॥
इष्टाकारविहीना ब्रह्मसरूपासि भावनातीता ।
इष्टजनतुष्टिदात्री ब्रह्माणी त्वं रमापि भवसीह ॥136।
इच्चारूपोद्वहने शक्तापि त्वं भवेनुरक्तापि ।
व्याकुलतारहितासि श्रेयस्करि ते नमो नमो ललिते ॥137॥
इष्टगुणत्रयरहिते तुष्ट्या लक्ष्म्या च तेजसा कलिते ।
अष्टविधायुधहस्ते दुष्टघ्नी त्वं सदांब मां पाहि ॥138॥
इह जगति शान्तरूपा कातरतारहितमानसा सततम् ।
वहसि विचित्राकारा नाकारेणापि विरहिता भवसि ॥139॥
इह चामुत्र च नित्या भङ्गुरता ते कदापि नैवास्ति ।
विद्या कालातीता भङ्गासितचारुकुन्तले पाहि ॥140॥
इह च विकारविहीना निश्चलचित्तासि कामरहितासि ।
विहससि कामविकारानहितानां त्वं ममापि मातासि ॥141॥
इहपरभेदविरहिता त्वं सुधया सिञ्चस्यशेषलोकमपि ।
देहानपि तनुभाजां मधुरालापे त्वमेव मां पाहि ॥142॥
इच्छोपाधिविहीने मुक्त्या सत्यात्मनापि सङ्गते महिते ।
स्वच्छायाञ्चद्वसने भक्त्याश्लिष्टं कुरुष्व मां ललिते ॥143॥
इच्छाविकारहीने स्वच्छायाच्छाद्यमानभुवनतले ।
स्वच्छाययाभिरामे स्वच्छात्मानं विधेहि मामम्ब ॥144॥
इह च परत्र च चिन्तारहिते द्वैताभिमानहीनेंब ।
अहितविनाशिनिकान्ताक्रान्तस्वान्ते नमोस्तु ते ललिते ॥145॥
इष्टाधारविहीने तुष्टात्माधारसङ्गते महिते ।
पुष्टिः कतनतकष्टिश्रेष्ठे नित्यं नमोस्तु ते ललिते ॥146॥
इच्छार्जितपदकमले नित्यविशुद्धे सदाहवे सिद्धे ।
शिष्याभीष्टदहस्ते नित्यं वस मे हदम्बुजे शुद्धे ॥147॥
इच्छारूपिणि मातर्नित्यविबुद्धे स्वभावपरिशुद्धे ।
इच्छामि विश्वमातस्तव करुणापाङ्गपातमिह देवि ॥148॥
इष्टिपरितुष्टचित्ते दुष्टाविद्यातमोविनिर्मुक्ते ।
तुष्टा मयि भव चित्तेभीष्टं मे देहि करुणया युक्ते ॥149॥
इच्छानुकूलवेषे सततं चोङ्काररूपिणी त्वमसि ।
अच्छाम्बरपरिधाने चिन्तितफलदात्रि ते नमो ललिते ॥150॥
इदमिति निश्चितरूपं तुभ्यं प्रादान्न कोपि ननु रूपम् ।
तत्त्वमपावतरूपा प्रणतिस्तुभ्यं निरन्तरं भवतु ॥151॥
इह तु न भवति कलङ्कस्त्वयि तव वदनेन्दुमण्डले नापि ।
अहिता नासि सतां त्वं त्वं तव रूपेण निर्जितेवासि ॥152॥
इह भवति नान्तरायो नोपाधिर्नापि नैजवेषो वा ।
विहितागमपरतन्त्रा जगती विहिता त्वया नमो ललिते ॥153॥
इह भवति तव नियन्ता नैकोपीशानमेकमपहाय ।
श्रेयस्यथवा श्रेयानम्ब श्रेयो न हि त्वदत्रापि ॥154॥
ईशान्नाशासेहं दैवीं सम्पत्तिमन्वहं दधतीम् ।
ऐहिकमथवामुष्मिकसौख्यं प्राप्तुं मनस्सतर्कं मे ॥155॥
ईशानासि सुराणां विषयाशानाशकारिणी त्वमसि ।
ईशार्धाङ्गहरा त्वं श्रीशाद्यमरालिसेविता जयसि ॥156॥
ईशापि सर्वजगतां मदरहिता मानिनी त्वमेवासि ।
ईशानाज्ञाधीना हदयसरोजाधिरूढकरुणासि ॥157॥
ईश्वरि जगतामाशाधीशाभीष्टप्रदायिनी त्वमसि ।
ईश्वरकार्यकरी त्वं पाशान्मामाशु मोचयेरेव ॥158॥
ईश्वरनियमितसरणौ चिन्तारहिताभिवर्धयस्व शमे ।
आयुश्चेष्टापूर्तप्रणयिनि कुरु मङ्गलानि च मे ॥159॥
ईश्वरसममहिमाढ्ये न्यूनाधिकसाम्यभेदवद्भिन्ना ।
धीश्वरि वागीश्वरि मे मानसरङ्गे रमस्व धीनुन्ना ॥160॥
ईश्वरि दारसुतादिप्रापञ्चिकविषयमोहरहितासि ।
शाश्वतसुखदात्री त्वं शाश्वति जहि मे शुचं नमो ललिते ॥161॥
ईशप्रियकरि ललिते पुत्रकलत्रादिमोहपाशकरी ।
शाश्वतसुखदात्री त्वं शाश्वतसुखमेव देहि मे गिरिजे ॥162॥
ईक्षेथा न ममत्वं त्वं ममतारहितमानसा भवसि ।
अभिमानहीनहृदये सदया हृदयेन गिरिसुते जयसि ॥163॥
ईहाभिमानममताबोधनविच्छेदकारिणी त्वमसि ।
देहाभिमानमुक्ता मुक्ताताटङ्कमण्डिता जयसि ॥164॥
ईक्षणरसनाश्रोत्रत्वङ्निसाग्राह्यपापनिर्मुक्ता ।
राक्षसबलमिव पापं नाशयसीहाम्ब ते नमो ललिते ॥165॥
ईशाननयनदहनज्वालादग्धस्मरा सकरुणासि ।
पापविनाशकरी त्वं पुण्यमयी चासि ते नमो ललिते ॥166॥
ईश्वरि कोपविहीने शाश्वतशान्तिप्रसादसङ्कलिते ।
शश्वन्नमतामिष्टं शाश्वतमसकृत् प्रदातुमर्हा त्वम् ॥167॥
ईश्वरि कोपदवाग्निप्रशमकरी त्वं समस्तजन्तूनाम् ।
शाश्वतशान्तिसुखे मे वितर दयापाङ्गभङ्गि हे ललिते ॥168॥
ईशार्धाङ्गसुयोगादन्याशापाशविरहिताभिहिता ।
क्लेशापायविहीना भवसि भवाम्भोधितारिणी त्वमसि ॥169॥
ईहारहिता भवती लोभवतां लोभनाशिनी भवसि ।
देहिषु दयसे सततं त्वमिहामुत्रापि भाग्यदा भवसि ॥170॥
ईतिभयनाशिनी त्वं संशयरहितासि साधुनिवहेषु ।
भूतेशहदयदयिते संशयभूतं जहि त्वमखिलेषु ॥171॥
ईशो न देवनामा कोपि न सत्यं न धर्म इति नैव ।
दोषैकदर्शिनां त्वं प्रतिवदतां चाशयं निवारयसि ॥172॥
ईशो ब्रह्म तथा त्वं कथिता जन्मादिबन्धरहितासि ।
केसरिकिशोरि समरे हिमगिरिकान्तारचारिणी त्वमसि ॥173॥
ईश्वरगहिणी भूत्वा जननं मरणं च देहिनां कुरुषे ।
शाश्वतसुखेच्छुकानां शरणं सा त्वं महात्मनां भवसि ॥174॥
ईश्वरि जगतां हृदये भ्रान्तिविकल्पादिभावनारहिता ।
ऐश्वर्यदानशीले नमतां प्रालेयशैलजे भवसि ॥175॥
ईशानवल्लभा त्वं दोषविहीना च बाधया रहिता ।
क्लेशानुपशमय त्वं भवभीतानां भवाश्रयं देहि ॥176॥
ईशार्धदेहघटिता क्लेशकरद्वैतभावनारहिता ।
द्वेषासूयारहिता क्लेशापायघ्नि पालय त्वं माम् ॥177॥
ईश्वरतत्त्वाभिज्ञा ज्ञातव्यार्थप्रकाशिका सदया ।
ईश्वरि विध्यण्डानां भेदमतिघ्नि प्रियं सतां देहि ॥178॥
ईश इव नाशरहिते शाश्वतसुखदात्रि देहिनां भजतां ।
ईशानतोषहेतो शश्वच्छश्वन्नमोस्तु ते ललिते ॥179॥
ईशानवल्लभात्वान्मृत्युं सर्वासुहारिणं जेतुं ।
ईशा त्वमेव नूनं मृत्युं जयसि त्वमेव मे शरणम् ॥180॥
ईहामोहविहीने क्रियया रहिता च कर्मणा जगते ।
देहानिव वहसि त्वं शक्तित्रयमप्यवश्यमेव ननु ॥181॥
ईरयसि दातुमखिलं सुजनं नादातुमीहसे दानम् ।
कस्मादपि भुवि तस्मात् परिजनरहितेव भाससे ललिते ॥182॥
ईश्वरि निरुपमरूपे निरुपमशौर्यॆऽम्ब निस्तुलाभिख्यो ।
ईश्वरकतचिरतपसामनुपमफलरूपिणी त्वमसि ॥183॥
ईक्षणचिकुरसुनीले नीलाकाशोपमे रमे देवि ।
राक्षसमर्दनधीरे बाले बालेन्दुराजिते पाहि ॥184॥
ईश्वरि निरपाया त्वं दारयसीहार्थिसम्भवापायम् ।
ईश्वरभक्तिमतां ते चरणं शरणं सदा स्थिरं देवि ॥185॥
ईश्वरि रूपगुणेषु व्यत्ययरहिते हिते सतां सततम् ।
कोपि कदाचिदपायो न भवति कस्माच्च तेम्बिके ललिते ॥186॥
ईश्वररविगणनाथश्रीनाथैस्त्वं हि सेविता सुजनैः ।
धीराराधनसुलभा भवसि खलानां तु दुर्लभा त्वमसि ॥187॥
ईतिमयजटिलसंसतिविहितव्यवहारपाशमुच्छिद्य ।
पश्यति यस्स तु भवतीं तदितरजनतातिदुर्लभा त्वमसि ॥188॥
ईश्वरदुरितनिहन्त्री त्वमसि च दुर्गा च दुर्गमा भवसि ।
दुर्गैकसेवकानां सात्त्विकरूपा नमोस्तु ते ललिते ॥189॥
ईतय इव हृदि नानाशोकावेगा भवन्ति कतिनां च ।
इह जगति देहभाजां लोकानां तान्निवारयेस्त्वं हि ॥190॥
ईप्सितवैदिकमपि तत्सुखमिह यत्पारमार्थिकं सत्यं ।
ईप्सितसेवाकर्त्रे सा त्वं दत्से हि पाहि मां ललिते ॥191॥
ईश्वरि दुष्टारीणां भीषणरूपा त्वमेव सम्भवसि ।
दुर्लभरूपे दुर्गे दुर्गमदुर्गाद्विमोचयेरम्ब ॥192॥
ईशानासि हि जगतां लोकायतिकाद्यधर्ममार्गस्थान् ।
नाशयितुमम्ब दुर्गे सकलदुराचारनाशमपि कुरुषे ॥193॥
ईश्वरि दोषविहीने शाश्वतसौभाग्यदात्रि सावित्रि ।
शाश्वतिकसम्पदं त्वं करुणारक्षां च देहि मे ललिते ॥194॥
ईश्वरि करुणापूर्णे सर्वज्ञा त्वं च चक्रराजस्था ।
सृष्टिस्थितिलयमर्मज्ञात्री धात्री च नस्सदा भवसि ॥195॥
ईड्ये सतां गुणाढ्ये मातः कारुण्यवारिधे भजताम् ।
करुणापाङ्गपयोदैः प्लावय दीनान्तरङ्गवसुधां च ॥196॥
ईश्वरि सदशाधिकतारहिता सहिता च करुणया सततम् ।
जगति भवत्या सदशी व्यक्तिर्नहि कापि दृश्यते ललिते ॥197॥
ईश्वर्याद्या शक्तिर्जगतां त्वं तावदखिलभीतिहरा ।
युक्त्या शक्तिसमष्ट्या जयसि त्वं देवि तेजसा रुचिरा ॥198॥
ईश्वरि मङ्गलमूर्ते कात्यायनि सर्वमङ्गले ललिते ।
पात्रं कुरु करुणायास्तव मां मातर्नमामि ते चरणम् ॥199॥
उडुराजसुन्दरास्ये सन्मतिदात्री प्रणामनिरतानम् ।
मडरमणि हसितलास्यस्फुरदाननचन्द्रिके नमो ललिते ॥200॥
उडुराजचूडदयिते ब्रह्माण्डग्रामशासने रसिके ।
मडनाट्यमार्दवेड्ये ब्रह्मानन्दप्रदे नमो ललिते ॥201॥
उरगाधिपधतवसुधाद्यखिलधरालोकशासने दक्षे ।
सरसीरुहदलनयने मातस्तुभ्यं नमो नमो ललिते ॥202॥
उरगेशकेशपाशे सकलालङ्कारशोभिते ललिते ।
द्विरदारिवाहने ते चरणं सर्वात्मना भजे सततम् ॥203॥
उपरि तथोच्चैर्जगतां शासकवर्गे त्वया समं महिता ।
शासितुमपरा नास्ति त्वय्ययत्तानि सकलभुवनानि ॥204॥
उपनतसकलसुतन्त्रे विस्तारिणि विश्वमण्डलस्यापि ।
तपनीयभूषणाढ्ये सा त्वं सर्वत्र पाहि मां सततम् ॥205॥
उन्मग्नमग्नचित्ते संसाराम्भोनिधौ मनस्सु सताम् ।
मुक्तिस्थितिमति सततं माहेश्वरि ते नमो नमो ललिते ॥206॥
उपमानविरहिता त्वं सकलब्रह्माण्डनायिका भवसि ।
माहेश्वरि मयि करुणां कुरु हे मातङ्गवंशजे ललिते ॥207॥
मडविजयकारिणि त्वं निजविजयादेव ते नमो ललिते ॥208॥
उज्ज्वलतेजोराशे न भवत्युपमा जगत्त्रयेपि तव ।
प्रज्वलति कीर्तिलक्ष्मीस्तव सौन्दर्यं तथा महालक्ष्मि ॥209॥
उपवीणयितुमलभ्ये मायावत्तं च दुर्गमं भुवने ।
अपहतसुमनोहदये भूयो भूयो नमोस्तु ते जननि ॥210॥
उज्वलरूपवती त्वं ब्रह्माण्डव्यापिनी महारूपा ।
प्रज्वालयसि च धाम्ना ब्रह्माण्डं ते नमो नमो ललिते ॥211॥
उमया रमया वाण्या सहितैः सम्पूजिते सुराधीशैः ।
हरिहरपरमेष्ठिभिरपि नित्याराध्यासि ते नमो ललिते ॥212॥
उपनतपातकनिवहं भजमानानां निवारयेरम्ब ।
उपमातीतमपीदं क्रूरं पापं ममापि जहि जननि ॥213॥
उपवर्णयन्ति मायां ज्ञानं कवयोपि सत्प्रशंसन्ति ।
जगतीकारणमायामाये चानन्ददे नमो ललिते ॥214॥
उर्वीधरवरजाता त्रिभुवनसारा पयोधिगम्भीरा ।
गर्वितसुररिपुनाशिनि सुभगा सा त्वं नमोस्तु ते ललिते ॥215॥
उत्तमशक्तिगरिष्ठे मेरोः पृष्ठे सदा कृतावासे ।
उत्तमगुणवति गिरिशप्रेयसि मां पाहि हे महाशक्ते ॥216॥
उत्तमचरिताराध्ये त्रिभुवनसंमोहनाकते महिते ।
चित्तजरमणीकोटिप्रतिमे मां त्वं तु दारकं पाहि ॥217॥
उत्तमकमलभवाण्डव्यापिनि सौभाग्यसङ्गते सततम् ।
निजवरभुवनागारे रममाणे ते नमो नमो ललिते ॥218॥
उज्वलपिङ्गमहोभी राजितमूर्ते श्रिया युते सततम् ।
प्रज्वालय मयि देवि ज्ञानमहादीपमम्ब हे ललिते ॥219॥
उत्तमदेहविभागज्योतिः स्तोमेन दीपयस्यखिलम् ।
जगदिदमम्बुजनयने नयनेनेक्षस्व मामिमं चपलम् ॥220॥
उन्माद्यदिन्द्रियाणां जगतां बलमेकमर्दयेस्त्वं हि ।
त्रातुं जगतीं प्रबला धर्मेणेहासि कोविदा ललिते ॥221॥
उद्धतदैत्यनिषूदिनि निजबलपरिवद्धिकारिणी त्वमसि ।
सिद्धसुरस्तुतपादे पादे प्रणतं पुनीहि मां ललिते ॥222॥
उत्तमबुद्धिमती त्वं सर्वज्ञासि त्वमेव सिद्धिरपि ।
उत्तमफलदात्री त्वं नित्यं नमतां नमोस्तु ते ललिते ॥223॥
उत्तमबुद्ध्या सिद्ध्या साधितसंसाररक्षणा त्वमसि ।
कमलमुखि कामदात्रि त्रिभुवनजननि त्वमेव मां पाहि ॥224॥
उत्तमयोगिजनेश्वरि सकलामरबन्दशक्तिसंसिद्धे ।
हरिहरविरिञ्चिरूपे शक्तिनियन्त्रि त्वमेव मां पाहि ॥225॥
उज्वलरूपिणि नानामुद्राभिज्ञे समस्तबलमूले ।
कर्मक्रियाश्रयत्वं वहसि त्वं देवि ते नमो ललिते ॥226॥
उपधीनखिलानसुरैर्विहितानुन्मूल्य विजयिनी त्वमसि ।
बीजाक्षरवरमन्त्रज्ञानाधारे नमो नमो ललिते ॥227॥
उद्धतसमस्तविश्वं यन्त्रगणं शक्तिदानपरिपुष्टम् ।
उद्धरसि यन्त्रदूरे यन्त्राधारेम्ब ते नमो ललिते ॥228॥
उपगतषोडशवर्णैः स्वररूपैरेव च ते कलाः सकलाः ।
ब्रह्माण्डपालनाय ख्याता जाता हि ते नमो ललिते ॥229॥
उत्तमतत्त्वज्ञानप्रदमनुविद्यास्वरूपिणी त्वमसि ।
विद्याकारे हद्ये जगतामाद्ये नमोस्तु ते ललिते ॥230॥
उडुपतिमण्डलममतापूरमयं तेन सिञ्चसि क्षोणिम् ।
भवसि हि चन्द्राभिख्या विद्या त्वं ते नमो नमो ललिते ॥231॥
उर्व्यादिपञ्चभूतख्यातमहारत्नपीठमध्यगते ।
ब्रह्माण्डमेव पीठं प्रणवसहस्रारपङ्कजं ननु ते ॥232॥
उत्तम ओङ्कारस्थे प्रेताख्याताध्वरक्रमाराध्या ।
उत्तमफलदासि त्वं वैश्वानरवर्गसेविता शुद्धा ॥233॥
उज्ज्वलमूर्तिं साक्षादम्ब त्वामेव पूजयेत् देवीम् ।
भैरव एव शिवोपि प्रथमोऽभूत्तेन ते नमो ललिते ॥234॥
ऊरीकृतनिजकार्यारम्भे नाट्यप्रिये महादेवे ।
नटति सति साक्षिणी त्वं करुणामूर्ते नमोस्तु ते ललिते ॥235॥
ऊहातीताकारे कामेशार्धाङ्गयोगविख्याते ।
त्रिभुवनपालिनि जननि प्रीता त्वं देहि मेम्ब कल्याणम् ॥236॥
ऊर्ध्वं नीचैर्मध्ये लोकास्सन्ति त्रयोपि ते वपुषि ।
भवनानि वा पुराणि त्वं पुरसुन्दर्यसीह मे जननी ॥237॥
ऊहेयस्वरवर्णैः षोडशपूजाश्चतुर्भिरिह गुणिता ।
उपचाराश्च सपर्यास्ता आधत्सेम्ब ! मातकारूपे ॥238॥
ऊहापोहो नायं षोडशवर्णाः स्वराः स्वतन्त्राश्च ।
निजभेदसङ्गतास्ते षष्टिकलास्ते चतुष्कलासहिताः ॥239॥
ऊरीकताक्षराणां योगादासन् हि शक्तयः सकलाः ।
योगिन्योमूर्नित्यं त्वामेवार्चंति ते नमो ललिते ॥240॥
ऊनेतरदथवा सम्पूर्णं चन्द्रस्य मण्डलं यत्त्वम् ।
तन्मध्यवासिनीति ज्योत्स्ना ख्यातासि ते नमो ललिते ॥241॥
ऊरीकतसुरसुन्दररूपालङ्कारशोभिते ललिते ।
दूरीकुरु मे दुरितं सकलं सकलात्मिका त्वमेवासि ॥242॥
ऊरीकृतनिजकार्ये ! साधितकार्या च सा त्वमेवासि ।
दूरीकृतभवबाधा त्रिभुवनसाम्राज्ञिकासि सा त्वमेवाम्ब ॥243॥
ऊरीकृतामतास्ये ! चारुस्मितचारुचन्द्रिकोल्लास्ये ।
दारक इति मां पाहि त्वं ननु विश्वप्रसूतिका जयसि ॥244॥
ऊर्ध्वमधस्ताद्देहे सन्ति हि चक्राणि यत्सहस्रारम् ।
चक्रं शिरसि तदेतद्भवनं श्रीदेवि त्वं भवेर्हि तत्रैव ॥245॥
ऊहातीतचरित्रे पर्वतराजस्य पुत्रि गायत्रि ।
प्रतिदेहवासिनी त्वं चैतन्यं चासि विश्वरूपा च ॥246॥
ऊर्ध्वमयूखैर्भास्वान् हिमवति कमलानि यानि बोधयति ।
तैरर्चंति हि मुनयस्त्वामनिशं देवि ते नमो ललिते ॥247॥
ऊरुद्वयेन रम्भां जित्वा त्वं विश्वराज्यसर्गेपि ।
सा रम्भा ननु नारी त्वं तावत्पुरुषकारसम्पन्ना ॥248॥
ऊर्जस्विपञ्चपीठान्यनवद्यान्यम्ब ते विराजन्ते ।
प्रेयांसि तानि तं च त्वत्पादाम्भोजपावितान्यम्ब ॥249॥
ऊर्जस्वि पञ्चकं ते विधिहरिरुद्रप्रभेदसञ्जातम् ।
त्रयमिदमपि तव पीठं ब्रह्मत्वं तावदेकमेवं हि ॥250॥
ऋतमम्ब ते स्वरूपं चिद्वा चैतन्यमेकमेवं हि ।
चिन्मय्यसि च तथा त्वं तव भासा त्वं विराजसे नितराम् ॥251॥
ऋतमेव ते प्रियं तत् पदमानन्दाय ते त्वमेव तथा ।
ब्रह्मानन्दाकारे सारसगमने त्वमेव मां पाहि ॥252॥
ऋषिमतमेव ज्ञानं विज्ञानं चानुभूतिसञ्जातम् ।
तदसि हि तद्द्वयरूपा त्वामेवं तावदाश्रये ललिते ॥253॥
ऋतमसि नित्यं चिन्त्या ध्यानं ध्याता च निश्चितं ध्येयम् ।
त्रिपुटीति चासि या त्वं सा त्वं मां पाहि ते नमो ललिते ॥254॥
ऋतरूपासि ऋतं तत् जीवयसि त्वं तदेव रक्षसि च ।
धर्माधर्मविदूरे मदगजगमनेम्ब पाहि मां ललिते ॥255॥
ऋतमिह विश्वं जाग्रत् जातं तद्रूपमेव ननु देवि ।
प्रणवस्यादिरकारस्त्वं भवसि त्वं भवानि मां पाहि ॥256॥
ऋतमम्ब जाग्रदिति यः कालो जीवस्य कार्यकालो हि ।
कालस्सोपि तवाम्ब स्फुरति हि रूपं नमोस्तु ते ललिते ॥257॥
ऋतवाणि देवि ललिते तैजसरूपे मुदैकमरकन्दे ।
ऋतधारिवेदमाता मातास्माकं त्वमेव ननु ललिते ॥258॥
ऋक्षाधिपसमवदने रूक्षासुरनाशकारिणी त्वमसि ।
सुप्तावस्थारूपे जागृहि चागरय चेतनान् सकलान् ॥259॥
ऋतवादिसेव्यमाने प्रणवे तावन्मकार एवासि ।
तन्मुख्यजीवरूपे श्रीदेवि त्वामहं सदा वन्दे ॥260॥
ऋषिहृदयमात्रवेद्ये मुक्तावस्थात्रये त्रयीवेद्ये ।
मगराजवाहने त्वां जीवन्मुक्तिस्वरूपिणीं वन्दे ॥261॥
ऋतुराजार्चितपादे वदनाम्बुजचारुताकतामोदे ।
सर्वावस्थारहिते ललिते मां पाहि सामभिर्गीते ॥262॥
ऋतमवलम्ब्य सदा त्वं जगतां सृष्टिं करोषि रजसैव ।
त्वमपि चतुर्मुखरूपा रक्षसि भुवनं नमोस्तु ते ललिते ॥263॥
ऋषिभिरशेषैरमरैराराधितपादपङ्कजे ललिते ।
निर्मितजगतीमेकां गोपायसि देवि ते नमस्सततम् ॥264॥
ऋतुपतिरिव स च नैजं जगदिदमखिलं च रक्षसि त्वं हि ।
तेन च सात्त्विकरूपा गोविन्दासीर्नमो नमो ललिते ॥265॥
ऋतपरिपन्थितमो यत् तेन युता त्वं जगद्विनाशाय ।
प्रभवसि हि रुद्ररूपा दीनजने त्वं तु वत्सला भवसि ॥266॥
ऋतमपहाय समस्तं भूतग्रामं ततस्तमोरूपे ।
स्थापयसि रुद्ररूपा परुषेव त्वं तिरोहितं कुरुषे ॥267॥
ऋतगर्भलीनमेतत् भुवनं तावत् तिरोहितं कुरुषे ।
अणुकणकणमध्ये त्वं भूतानीमानिपुनरपि स्रष्टुम् ॥268॥
ऋतमयविधिहरिरुद्रा यावन्न भवन्ति तावदेव त्वम् ।
भवसि जगदीश्वरी वा नित्या सकला शिवात्मिका भवसि ॥269॥
ऋतमसि हरिहररूपा श्रीदेवि त्वं कलात्मिका भवसि ।
सा त्वं सदाशिवा वा भवसि भवानी नमोस्तु ते ललिते ॥270॥
ऋतमवलम्ब्य जयेस्त्वं जगदिदमखिलं तथानुगृह्णासि ।
नतजनमपि निजकरुणापात्रं कुरुषे नमोस्तु ते ललिते ॥271॥
ऋतबलवति गिरितनये सृष्टिव्यापारयोश्च विश्वलये ।
उपसंहारे निरता त्वमसि तथानुग्रहेपि निष्णाता ॥272॥
ऋतमतमेव हि सततं भवति च विश्वं तदेव पालयसि ।
उपजीवसीव मन्ये त्वमसि सदा भानुमालिनो मध्ये ॥273॥
ऋततपसि वर्तमाना भैरवदयितासि भैरवी त्वं हि ।
ऋतमिह पालय सा त्वं शाश्वति नित्यं नमोस्तु ते ललिते ॥274॥
ऋतशक्तिकामसम्पत्सहिता गर्भे जगत्त्रयाकलिता ।
ऋक्षशतमालिनी त्वं विविधाकारा भवेर्नमो ललिते ॥275॥
ऋतजगदुदयनिदानेदानेनूनेवनेषु निष्णाते ।
सृष्टिलयभूतगमना विद्याविद्याविदम्ब मां पाहि ॥276॥
ऋतहेमगर्भगर्भे चिच्छक्तेस्त्वं भवेर्महापूर्वा ।
वाणीति तासु मूर्तित्रयजायास्तथैव सञ्जाताः ॥277॥
ऋतशिवसुन्दररूपे शमितसुरस्तोमहदयसन्तापे ।
कमलोदरसहजाते त्रिभुवनगीतेम्ब ते नमो ललिते ॥278॥
ऋतचिच्छक्तिरभून्ननु ता एव श्रीरुमेति वाणीति ।
लक्ष्मीर्विधिरिति रुद्रो वाणी गौरी हरितो जाताः ॥279॥
ऋतकार्याणि विधातुं वाणीं ब्रह्मा रमां हरिः प्राप ।
त्वां ललितामिह शर्वः सा मां पाहि त्वमेव हे ललिते ॥280॥
ऋतमपि भुवनं भ्राता रक्षति भगिनी त्वमस्य किं कुरुषे ।
दुर्गासि दुर्गतिं त्वं संहरसि त्वमेव हरयोषा ॥281॥
ऋतमपि जगदुदयति ते नयनाम्भोजे विकस्वरे जाते ।
मुकुलितवदने तस्मिन्मीलति चक्षुष्क्रिया त्वदालम्बा ॥282॥
ऋतमयदशशतवदना दशशतनयना च सा त्वमेवासि ।
ऋतमिह किं न तु जाने जानामि त्वां हि केवलं मायाम् ॥283॥
ऋतमथवानतमास्तामगणितनयना त्वमेव ननु भवसि ।
मतमभिमतमितरेषां किं वा स्यादत्र सा प्रमाणं त्वम् ॥284॥
ऋतमंब सप्तमादपि लोकान्नीचैः पदं तवोल्लसति ।
त्वमसि च वरशतचरणा करुणाभरणे त्वमंब मां पाहि ॥285॥
ऋतविधिकीटावधिकब्रह्माण्डैकप्रसूस्त्वमेवासि ।
अतुलितकरुणाभरणे ब्रह्ममयि त्वां भजे सदा मनसा ॥286॥
ऋतवर्णाश्रमभेदानकरोस्त्वं देवि लोककुशलाय ।
हितमवधत्तां लोकः सोयं नैजं तथा कुरुष्वांब ॥287॥
ऋतवेदवर्गवाणी ता अप्याज्ञास्तवैव ननु देवि ।
का तव वागितरा स्यान्मान्या न स्यादुपेक्षणीया वा ॥288॥
ऋतपुण्यपापफलदा दाक्षायणि सा त्वमेव भवसि नृणाम् ।
इति यदि कारय पुण्यं मा कारय पापलेशमप्यम्ब ॥289॥
ऋतमम्ब श्रुतिरेषा वनिता ख्यातेति तच्छिरोदेशे ।
पतति तव पादपद्मं सास्त्याज्ञाकारिणी तवादेशे ॥290॥
ऋतवच्छ्रुतिरमणीनां सीमन्तेषूल्लसन्ति लीलास्ते ।
धूलिकणास्सिन्दूरं धृतमिव तव पादपद्मरजसां च ॥291॥
ऋतसकलागमसंहतिशुक्तिसुसम्पुटकराजमाना सा ।
मुक्तारूपवती त्वं रमयसि तास्त्वां च ताश्च रमयन्ति ॥292॥
ऋतजीवजीवनार्थो मोक्षस्सायुज्यमम्ब के ते वा ।
वितरसि तत् तद्वा त्वं प्रियशतजीवेषु भवसि यदि देवि ॥293॥
ऋतदेशसमयसुस्थितिभेदवशासि देवि परिपूर्णा ।
सततमपि जगति सकला सर्वत्रापि त्वमम्ब मां पाहि ॥294॥
ऋतमस्ति मह्यमेतद्विश्वं विश्वंभरासि सुखभोक्त्री ।
इति ननु भावयसि त्वं भुंक्षे सौख्यं जगच्च भोजयसि ॥295॥
ऋतमवति भुवनमखिलं भुवनार्तानामधीश्वरी त्वमसि ।
पतितोद्धारिणि हरिणीचञ्चलनेत्रे सदाशिवे पाहि ॥296॥
ऋतलोकलोकजननी सकलब्रह्माण्डशासिका त्वमसि ।
गतिमतिरूपिणि जगतां त्वां तां वन्दे त्वमेव मे शरणम् ॥297॥
ऋतमिव चाधिविहीना यासि त्वं सैव जन्मरहिता त्वम् ।
इति सति का च्युतिरथवा भवति तवाप्यम्ब पाहि मां च त्वम् ॥298॥
ऋतमिदमम्ब विधाता तज्जनकस्त्वां सदा निषेवेते ।
सकलश्रुतिततिवचनं स्यादिति मन्येम्ब पाहि मां ललिते ॥299॥
ऋतविषयबोधदात्री धात्री जगतोपि वल्लरीगात्री ।
मतिशक्तिवर्धिनी त्वं पात्रीकुरु मां तवार्चनापात्रे ॥300॥
ऋतमूलरूपमेव प्रणवं शंसन्ति पण्डिताश्चान्ये ।
अपि नादवेदरूपा त्वामेवाहं नमामि तां ललिताम् ॥301॥
ऋतमस्ति भाति चेष्टं रूपं नामेति पञ्चके नाम्नाम् ।
रूपेण विरहिता त्वं ब्रह्मण एवासि रूपमयि धाम्ना ॥302॥
ऋतहितकर एवैको ह्रीङ्कारस्तेऽम्ब भवति बीजेषु ।
भवसि च सा त्वं वर्णस्स च बीजं वा त्वमेव बीजेषु ॥303॥
ऋभवः स्तुवन्ति हि त्वां सति सत्प्रीत्यात्मिकां वरां देवीं ।
ह्रीङ्कारबीजरूपां रूपेणानन्दकारिणा सहिताम् ॥304॥
ऋभुनुतदिव्यचरित्रे मात्रे तुभ्यं नमो नमो जगतां ।
ह्रीम्बीजपूज्यमाने मानेनाम्बास्तु ते नतिस्सततम् ॥305॥
ऋभुमनुजदनुजमूर्तिषु मस्तकदेशेषु राजते यद्वा ।
शुभकरसहस्रपत्रं तत्र त्वं हर्षवर्षिणी जयसि ॥306॥
ऋभुगणकतनुतिमुदिते हेयोपादेयवर्जितेऽप्यजिते ।
विभुरिति न हि ते नियतो नरसुरदैत्येषु कोऽपि हे ललिते ॥307॥
ऋभुपतिनरपतिदानवपतिगणसम्पूज्यमानपदयुगले ।
अभिवादनपटुहृदयप्रतिफलिताकारशोभिते नम ओम् ॥308॥
ऋभुगणनरगणदानवगणराज्यानां त्वमेव साम्राज्ञी ।
अभिहितचरितासीति त्रिभुवनसंसारधूर्वहे धीरा ॥309॥
ऋभुपतिदयिताराध्ये ऋभुवनितानां च देवि ते मध्ये ।
ताभिरपि विदितहृदयश्श्रीकाभिस्त्वां भजे मनोमध्ये ॥310॥
ऋभुनरदानवजङ्गमहदयानां चान्यजीविहदयानाम् ।
अभिमतरञ्जनकारिणि शुभमयहदये सदाम्ब मां पाहि ॥311॥
ऋभुवनिताहितकारिणि शुभमयनरयोषिदर्चनप्रीते।
अभयादीप्सितदात्री श्रीमति भजतां कपालिनि त्राहि ॥ 312॥
ऋभुपतिनिजपतिकमलानाथाम्भोजासनादिहृदयानि ।
मानवहृदयान्यारात् रञ्जयसि त्वं तथा च रमणी त्वम् ॥313॥
ऋक्षपतिपक्षभाजां हृदयानन्दं यथा कला कुरुते ।
इक्षुक्षीरसुरास्ते ताः स्वारस्यं वितन्वते मनसि ॥314॥
ऋणभयनाशिनि नृणां रणरणिकानां च मानसे विरसे ।
अणिमादिसिद्धिहेतो रणदुज्वलचारुमेखले पाहि ॥315॥
ऋभुवनिताभिर्वलयिता श्रीरूपेण या नन्दयति सर्वान् ।
अपि मम गृहमानन्दय प्रह्वीकतनमनमत्र हे ललिते ॥316॥
ऋणभारकतमतितापं मनसः शमयसि त्वं देवि ।
यो ध्यायति त्वां नित्यं तं सुखयसि पूर्णेन्दुवक्त्रभासुरया ॥317॥
ऋषिकुलमोदा भवती मनसा मन्त्रैकदर्शिनी त्वमसि ।
रतिरूपासि सवित्री लोकानां त्वं पुनीहि मां ललिते ॥318॥
ऋषयोपि पाशबद्धा दयितासहिता रतिप्रिया भुवने ।
विषयाकृष्टमनस्काः तेषां बोद्ध्री त्वमेव ननु भवसि ॥319॥
ऋषिमानससरसीरुहवनहंसी त्वं ततस्सतां मार्गे ।
रक्षाकरीह भूत्वा गमयसि मातर्नमोस्तु ते ललिते ॥320॥
ऋषिजनमारकराक्षसनाशकरी त्वं बभूविथा ज्ञानम् ।
शमयितुमायुधहस्ता दुर्गे देवी तथा दयादुर्गा ॥321॥
ऋषिजनमानसमनिशं यस्यां रमते तथैव दयसे त्वम् ।
तन्मानसानि रमयसि परमब्रह्मरूपिणी त्वमसि ॥322॥
ऋतुधर्मशालिनीनां वनितानां त्वं करोषि सुखबोधम् ।
धर्मं पातिव्रत्यं त्वमसि सदा रमणलम्पटा देवि ॥323॥
ऋषिहृदयकामिता त्वं काम्या देवैश्च सकलजन्तूनाम् ।
विषयपराङ्मुखमनसां सुलभासुलभा सविषयिणां त्वमसि ॥324॥
ऋषभादिस्वरगेया कामकलाबोधिनी महादेवि ।
वृषवाहहृदयवेद्ये मातर्ललिते नमोऽस्तु ते देवि ॥325॥
ऋभुपत्युपवनसम्भवनीपद्रुमकुसुमसौरभप्रीते ।
अभिमतमधुमैरेये धूतापाये नमोऽस्तु ते ललिते ॥326॥
ऋतमयि मायातीते मायाप्रच्छन्नकान्तिमत्काये ।
प्रतिहतदुरितनिकाये कल्याणी त्वं नमोऽस्तु ते ललिते ॥327॥
ऋभवः प्रभवः केचित् जगतीकन्दं न जानते तेऽपि ।
शुभमयि भवतीं तस्मात्त्वं मां प्रणतं पुनीहि जगदम्ब ॥328॥
ऋतमूलविश्ववल्लीकन्दस्त्वं भवसि मूलरूपा वा ।
कन्दस्सोऽपि शरीरे वस्तिविभागे विराजसे नृणाम् ॥329॥
ऋतमवसि कुण्डलिन्यां कन्दो देहेऽस्ति यस्त्वमेवासि ।
फणिनीहासि च सा त्वं का मे गतिरत्र वा विना भवतीम् ॥330॥
ऋतमेव तावदेतत् करुणारससागरा त्वमेवेति ।
अत एव देवि भुवनं स्नेहं सौख्यं च भावयेस्त्वं हि ॥331॥
ऋक्षाधीश इहास्ते षोडश धृत्वा कलाविकारी च ।
षोडशकलाश्चतुर्भिर्गुणिता धृत्वा निरामया त्वमसि ॥332॥
ऋतनुन्नसाधुविद्यानन्दानन्दप्रदा कलालापा ॥
श्रुतिपेयगीतिरसिका त्वं तावद्देवि ते नमो ललिते ॥333॥
ऋक्षपतिकोटिकान्ता कान्तारारामचारिणी ललिता ।
रक्षितसुरनरभुवना त्वं तावन्मातराश्रितान् पाहि ॥334॥
ऋक्षपतिकोटिनिर्मितिकारणकान्त्या स्फुरन्महारूपे ।
वक्षोजभारनम्रे कम्रे कम्रत्वबन्धुरे पाहि॥ 335॥
ऋतपथ्यकारिणी या सुरवनकादम्बसम्भवा मदिरा ।
सा तव मानससुखदा प्रीता त्वं पाहि मामिमं ललिते ॥336॥
ऋतमनतमुभयमेतद्दिनकररजनीशशासनीयतया ।
वारुण्ये त्वं द्विविधा प्रेम्णा प्रथमां निषेवतां भवती ॥337॥
ऋभवोपि सिन्धुलब्धां कपया ते देवि तां निषेवन्ते ।
दिव्यामेव सुधां तत्प्रियममतं पातुमिच्छसि त्वं हि ॥338॥
ऋभुषु च वरुणः प्रेयानमराणां मनुजदानवानां च ।
वरुणप्रियममतं तद्विद्यारूपं तव स्वरूपमपि ॥339॥
ऋभुवरुणसेव्यमाना नाडी नाडीश्वरी भवेत्तस्याम् ।
जीवन्मुक्तानन्दा भवसि त्वं देवि ते नमो ललिते ॥340॥
ऋभुषु नरेषु च द्विषद्वैरिषु या या विराजमानास्ताः ।
विद्या अतीत्य विद्या त्वं जगदधिकासि ते नमो ललिते ॥341॥
ऋतबोधिवेदमार्गौद्वावेवाद्यो भवाय भवमुक्त्यै ।
मार्गो द्वितीय एव त्वं तद्वेद्यासि ते नमो ललिते ॥342॥
ऋभुरिपुशुंभनिशुंभौ हत्वा त्रातुं त्वमेव विंध्यगिरौ ।
निवससि नवनववेषा ख्याता सर्वत्र ते नमो ललिते ॥343॥
ऋभुनरसुररिपुलोकान् अभयप्रदपाणिपल्लवैरेव ।
त्वमसि ननु पालयित्री मातेवाम्ब स्तुते नमो ललिते ॥344॥
ऋतवेदसोदरीणां इच्छाज्ञानक्रियाख्यशक्तीनाम् ।
त्वमसि हि माता ख्याता कमलोदरभगिनी ते नमो ललिते ॥345॥
ऋतपालिनि हरिमाये वैष्णवशक्ते समस्तभरणपटुशक्ते ।
मूलप्रकते मातः त्वं मे जगतां च ते नमो ललिते ॥346॥
ऋतमात्रवेदशक्ते स्वेच्छामात्रेण सकलकार्यरते ।
अतिदैवतनिजशक्ते कृतिनिपुणे ते नमो नमो ललिते ॥347॥
ऋतनिगमवेद्यरूपे क्षितिजलपवनाग्निगगनमयरूपे ।
धूताखिलविधपापे मातस्तुभ्यं नमो नमो ललिते ॥348॥
ऋषिमनुनुतगुणरत्ने क्षितिजलदहनादिदेहिचररूपे ।
मतिमन्मानसहंसी पाहि त्वं मां नमो नमो ललिते ॥349॥
ऋतजातभूतजातज्ञातनाकानामीश्वराधीनम् ।
मातेव जातपोतान् पालयसि त्वं नमोऽस्तु ते ललिते ॥350॥
ऋतमथवानतमास्तां वद्धिं तनुषेनतं क्षयं तनुषे ।
इति जगति त्वं द्वयमपि कुरुषे मातर्नमोस्तु ते ललिते ॥351॥
ऋतवैरिकालदैत्यं क्षततनुमुक्तासुपञ्चकं कर्तुम् ।
काली त्वमभूर्बालं क्षेत्रपमवितुं नमो नमो ललिते ॥352॥
ऋतमेव विजयि विजयं क्षतिरहितं विदधती त्वं हि ।
ऋतवेद्यपादपद्मे विजये मातर्नमो नमो ललिते ॥353॥
ऋतधर्मपालिनी त्वं मितलोकासि त्वमेव सरसासि ।
ऋतवत्यसि हदि शुचितां विमले मातर्नमो नमो ललिते ॥354॥
ऋतमेव वन्द्यमखिलै रजसो दूरं च यत्तमोदूरम् ।
अत एव दुर्गमा त्वं वन्द्ये सेव्ये नमो नमो ललिते ॥355॥
ऋतजन्मभाग्यधात्री श्रुतिविद्वद्वृंदवत्सले सकले ।
नुतिपरजनताहृदयोल्लासिनि मातर्नमो नमो ललिते ॥356॥
ऋतमयपदयुगयुगलां वाचं वाचंयमत्वमपि वेत्सि ।
बोधय बोधाद् विमलां ऋतवाचं मां नमो नमो ललिते ॥357॥
ऋतवादिनि ऋतशीले नरनाथे वामकेशि हे सुभ्रु ।
मेनाहिमगिरिबाले हरिवाहिनि ते नमो नमो ललिते ॥358॥
ऋतसिंधुगर्भजाते ऋतपालिन्यम्ब हे महामाये ।
श्रुतिगेयचारुपादे ऋतगेये ते नमो नमो ललिते ॥359॥
ऋतपूर्णदहनगर्भे सततं त्वं वससि विश्वमहिगर्भे ।
ऋतमणिशोभितकण्ठी सुतनो नित्यं नमो नमो ललिते ॥360॥
ऋतमयि सकलापेक्षाव्रततेस्संपूर्णफलरूपे ।
ऋतभक्तकल्पलतिके ऋतगर्भे ते नमो नमो ललिते ॥361॥
ऋतमपि नयसि हि चित्तं व्रतरतिरथवा न वर्तते यस्य ।
अतिकृपणत्वमवश्यं तनुषे त्वं पासि ते नमो ललिते ॥362॥
ऋतविमलमानसानां अज्ञानध्वान्तविहितदृष्टीनाम् ।
पाशविमुक्तिं मुक्तिं कुरुषे त्वं देवि ते नमो ललिते ॥363॥
ऋतवेदविमुखमार्गानतिकलुषीभूतमानसानधर्मान् ।
प्रतिपन्थिनस्समस्तान् अवधीस्त्वं ते नमो नमो ललिते ॥364॥
ऋतविदितमात्मतत्त्वं स्मृतिनिहितं धर्ममोक्षयोर्मार्गम् ।
भजतां स्वरूपिणी त्वं द्विजमुनिवन्द्ये नमोऽस्तु ते ललिते ॥365॥
ऋतमतबाधात्रयमपि नितरामभ्येत्य दग्धहृदयानाम् ।
आनन्दकारिणी त्वं प्रतिजहि पापानि ते नमो ललिते ॥366॥
ऋभुभवबाधाः काश्चिन्नरकतिजाताश्च तास्समासाद्य ।
तप्तानानन्दयसि त्वं तन्मां पाहि ते नमो ललिते ॥367॥
ऋतमजरममतमाह श्रुतिरिति वद्धत्वविरहिता तरुणी ।
मतिमलहारिणि मातस्त्वं मे मां पाहि ते नमो ललिते ॥368 ॥
ऋतवचनदानपूजानिरताराध्ये तपस्विगुरुजाये ।
नतिरतमनुजप्रीते मातर्मां पाहि ते नमो ललिते ॥369॥
ऋतमयसुषुम्निकाये मध्यं चाध्यास्य शोभिताकारे ।
तनुमध्येऽम्ब सुदायो नुतिरेषा ते नमो नमो ललिते ॥370॥
ऋतलोकपूज्यमाने निजतनुमहसा तमोगुणघ्ने त्वम् ।
लसदाभा व्यतिकरिणी ज्ञानान्दप्रदे नमो ललिते ॥371॥
ऋतशुद्धबोधरूपे स्वयमेवात्मप्रभासमुल्लसिते ।
नियमितनियतिकलापे धृतिमति वरदे नमो नमो ललिते ॥372॥
ऋतमिति तच्चेत्यनुभववेद्यब्रह्मस्वरूपिणी त्वमसि ।
अतिचतुरमतिसुगम्ये गम्ये यमिनां नमो नमो ललिते ॥373॥
ऋतसहजदीप्तिरूपे शुद्धज्ञानस्वरूपिणी त्वमसि ।
मतिमपि दिश मे ज्ञानं ज्ञानानन्दे नमो नमो ललिते ॥374॥
ऋतविमुखानां तेषां सुरनरगन्धर्वमुख्यभेदानां ।
आनन्दाधिकमेकं वहसि हि हर्षं नमो नमो ललिते ॥375॥
ऋतमहितापानन्दादाकाशेऽन्तर्गता विशुद्धसत्त्वमयी ।
सैव परापरकलिता शिवसोपानं त्वमेव ननु ललिते ॥376॥
ऋतमत्यगम्यरूपा प्रकृतेश्चिद्रूपशोभिता माता ।
इति भवसि देवि जगतां पाहि त्वं मां नमो नमो ललिते ॥377॥
ऋतमयि पश्यन्ती त्वं नाम्ना शब्दार्थभावनारूपा ।
योगविशारदवेद्या ध्येया तेषां नमो नमो ललिते ॥ 378॥
ऋतगुणमयदृग्दृश्या सुकृतफलितेऽथ साधकाराध्या ।
भवसि परदेवता त्वं भूयो भूयो नमोऽस्तु ते ललिते ॥379॥
ऋतमेव वैखरीति त्वां नादज्ञानिनो वदन्त्यम्ब ।
नादब्रह्म ब्रह्मज्ञानानन्दे नमो नमो ललिते ॥380॥
ऋतवेदगोचरा त्वं तन्मात्राद्गेयमध्यमारावा ।
साकारासि तथा त्वं मध्यमरूपे नमोऽस्तु ते ललिते ॥381॥
ऋत इव जगति च भक्तस्वान्तसरोवारिमध्यचरहंसि ।
ऋतपथचरहृद्गम्ये देवि त्वं पाहि ते नमो ललिते ॥382॥
ऋतशिवहरिविधिपञ्चप्राणाख्यनाडिका त्वमेवासि ।
तेन हि ते बलिनस्ते कार्ये सिद्धा नमो नमो ललिते ॥383॥
ऋतमर्मवेदिनी त्वं कतमिहे कार्यं नभिस्तु जानासि ।
नुतिमपि नमतां विहितां तामेकान्ते नमो नमो ललिते ॥384॥
ऋतमिह भजतां मार्गे प्रेयसि चरतां मनोज्ञकृतपूजाम् ।
पूर्णामादाय त्वं वितरसि फलमम्ब ते नमो ललिते ॥385॥
ऋतपथगामिनि सततं शृङ्गाराम्भोधिसारसम्पूर्णे ।
चंचत्कलास्वरूपे शृङ्गाराख्ये नमोऽस्तु ते ललिते ॥386॥
ऋतमिव विजयिनि सततं नतजनहृदयारविन्दमध्यस्थे ।
प्रथितप्रहरणहस्ते मातस्तुभ्यं नमो नमो ललिते ॥387॥
ऋतजालन्धरमुद्रावर्तिनि सङ्घातपीठमारूढे ।
मतिमन्मानसहंसी त्वं जय मातर्नमो नमो ललिते ॥388॥
ऋतमूलप्रणवङ्कितमोड्याणाख्यं विराजते पीठम् ।
तव तावदास्थिता तत्पीठं महितं नमोऽस्तु ते ललिते ॥389॥
ऋतमयि पराख्यशक्त्या मूलाधारस्थकुण्डलिन्या च ।
देवि त्वमेव तेजोबिन्दुश्रीपीठवर्तिनी जयसि ॥390॥
ऋतमेव गार्हपत्यं दक्षिणनामा क्रमात्त्रिचक्रेषु ।
आहवनीयो गूढो यागस्त्रियुतेन सेविता त्वमसि ॥391॥
ऋतमिह चान्तर्यागस्त्रिषु चक्रेषु त्रिधा स्थितेष्वेव ।
आदाय गार्हपत्ये पश्चात्तेनाम्ब भवति ते ध्यानम् ॥392॥
ऋतमूलगार्हपत्ये दक्षिणनाम्नीह पावकेष्वेव ।
आहवनीये निहितव्यापारा देवि तर्पणं ननु ते ॥393॥
ऋभुगणकामितफलदे ध्यानाभ्यासप्रियप्रसादकरि ।
बन्धत्रयविद एव न बन्धनभीतिस्तव प्रसादेन ॥394॥
ऋभ्वादिजीवगर्भं ब्रह्माण्डं तस्य साक्षिणी त्वमसि ।
त्वयि साक्षिण्यां सत्यं का क्षतिरस्यास्ति देवि ते ललिते ॥395॥
ऋभ्य्वादिसाक्षिणी त्वं देवि परं नास्ति कोपि तव साक्षी ।
व्यापारमम्ब गूढं पश्श्येन्नैवात्र कोपि भुवनेषु ॥396॥
ऋतधर्मकीर्तितेजोवैराग्यज्ञानषड्गुणैः पूर्णे ।
वेदाङ्गदेवताभिः सहिते तुभ्यं नमो नमो ललिते ॥397॥
ऋतषाड्गुण्यवती त्वं पुण्यवतीनां जगत्सु पुण्यवती ।
तव सम्पदोऽप्यगण्याः कस्त्वां स्तोतुं क्षमेत हे ललिते ॥398॥
ऋतमयि करुणाभरिते सततमपाङ्गाब्धिगलितसुधया त्वम् ।
जीवयसि जीवलोकं जीवातुं त्वामहं भजे ललिते ॥399॥
ऋतमपि भवती सा सा भवती नास्त्येव नो समा तेऽस्ति ।
अत एव नायिका त्वं जगतां जगतां च नायकस्यापि ॥400॥
ऋतमेतदेव मे स्यात् वपुरनपायीति भावमपनीय ।
वितरतु विदेहमुक्तिं मुक्तापायं विधाय मे भवती ॥401॥
ऋतमिव नाशविरहितस्वरषोडशिकाकते तथा तेषाम् ।
संख्यानुरूपपुञ्जा तुष्टाभीष्टार्थदायिनी त्वमसि ॥402॥
ऋक्षपतिमण्डलस्थाः पञ्चदशत्वं च षोडशाहत्य ।
अविनाशिन्यो जाता जातानेताननारतं त्रातुम् ॥403॥
ऋतमिव च जगदशेषं त्रातुं हालाहलं श्रियं कण्ठे ।
दधतस्तपसार्धां हत्वा धत्सेऽम्ब ते नमो ललिते ॥404॥
ऋक्षमणिहारभूते श्रयदणिमाद्यङ्गसिद्धिसङ्कलिते ।
यक्षपतिमित्रदयिते मातस्तुभ्यं नमो नमो ललिते ॥405॥
ऋक्षेशदहनदिनकरतेजोराशिं विधातुमिव धत्से ।
द्युतिमयरूपमरूपा सत्यपि तुभ्यं नमो नमो ललिते ॥406॥
ऋतमिव चाहं हदि हदि सिद्धा तिष्ठामि भावना चेति ।
श्रीदेवी त्वं विदिता जीविभिरखिलैर्नमोऽस्तु ते ललिते ॥407॥
ऋक्षेशमुखि सखी त्वं लक्ष्मीवाणीपुलोमजादीनाम् ।
यक्षेशयोषिदीड्ये मातस्तुभ्यं नमो नमो ललिते ॥408॥
ऋतसत्यादिगुणानां सृष्टेः कार्यं यदा न किञ्चिदपि ।
शक्तिस्तदाविरासीः त्वं प्रकृतिर्नमोऽस्तु ते ललिते ॥409॥
ऋतवत्यगोचरा त्वं मूलप्रकृतिरिति भवसि यत्सा त्वम् ।
ऋतमव जगति समस्ते मातस्तुभ्यं नमो नमो ललिते ॥410॥
ऋतमखिलदर्शि नित्यं त्वमपि तथा तद्विवर्धयस्येव ।
कृतवसतिरसि हि मातः पायास्त्वं नस्सदा नमो ललिते ॥411॥
एणाक्षि विविधरूपे रूपे रूपे स्थितावहित्था त्वम् ।
भूरुहवह्निरिवासि हि जाग्रत्यव मां नमोऽस्तु ते ललिते ॥412॥
एकं ज्ञानमतं तद्भिन्नं त्वज्ञानमेव चैवं त्वम् ।
द्वेधा परापरेति प्रकटितभावासि ते नमो ललिते ॥413॥
एणाङ्कमिहिरपावकनयनो यश्शङ्करस्सदा तस्य ।
नयनानन्दकरेन्दुज्योत्स्नारूपासि ते नमो ललिते ॥414॥
एकात्मतात्मभक्तस्वान्तलसद्ध्वान्तभास्कराकारे ।
तेजस्विनि ते करुणा पायादस्मान् नमोऽस्तु ते धीरे ॥415॥
एकाकिनी यदा त्वं हिमवत्यासीर्निशुम्भशुम्भकते ।
शिवमेव दूतमकरोस्त्वं शिवदूती नमोऽस्तु ते ललिते ॥416॥
एधित एव हि महिमा तावक ईशान इन्दुलोचनस्ते स्वामी ।
ब्रह्मात्मनात्मनि त्वं स्थित्वाराध्यासि तस्य जगतां च ॥417॥
एकं ब्रह्म तथैकः परमात्मायं हितेन सा त्वमसि ।
शिवमूर्तिरेव रमणी सौभाग्यं देहि मे नमो ललिते ॥418॥
एधेत ते कपा चेदङ्कोऽप्यायुक्तसम्पदेवेह ।
कीर्त्यारोग्यबलश्रीजीवितकालैश्च ते नमो ललिते ॥419॥
एकैश्वर्यवती त्वं लोकेशश्रीशशङ्कराभ्यधिका ।
शाङ्कर्यसि भवभीरोर्भयनाशिन्यम्ब ते नमो ललिते ॥420॥
एकीभूतशरीरा वपुषा नाथस्य शङ्करस्यासि ।
प्रीणयसि तं त्वमेवं प्रीणयति त्वां स ते नमो ललिते ॥421॥
एकमतेत्र रसानामाचारज्ञानसम्पदां महताम् ।
नित्यं प्रियासि सा त्वं पालय मामम्ब ते नमो ललिते ॥422॥
एकासनयमनियमज्ञानालम्बैश्च पूजिते विधिना ।
सात्त्विककर्मठहदये नियतावासे नमोऽस्तु ते ललिते ॥423॥
एकान्तवासशीले स्वान्ते स्वान्ते स्थिताप्रमेया त्वम् ।
लोकानतिशेषेऽम्ब त्वामहमीडे नमोऽस्तु ते ललिते ॥424॥
एकत्वदीप्तिकोशान् एकेभ्यो दीप्तिदायिनी त्वमसि ।
लोकान्तरङ्गनिलये मातस्तुभ्यं नमो नमो ललिते ॥425॥
एधस्सु दहन इव ते काये चैतन्यदीप्तदीप्तिरसि ।
नित्यं समेधमाना दीपयतीदं जगत्त्रयं ललिते ॥426॥
एणाङ्कचारुवदने सदने माङ्गल्यदेवतानां च ।
भूयान्नतिरिह तुभ्यं वाचां मनसामगोचरे ललिते ॥427॥
एकं ब्रह्म च नित्यं जगदिति सा त्वं च चेतनारूपा ।
लोकं रमयसि लोको रमयतु चरितेन सन्ततं भवतीम् ॥428॥
एकं तमो गुहाढ्यं चैतन्यविरहितं सततम् ।
शक्तिस्वरूपिणी त्वं तमसो महतोऽपि ते नमो ललिते ॥429॥
एकाकृतिरसि न त्वं जडचेतनयोस्तदुभयरूपस्य ।
रूपत्रयं दधासि हि जडरूपायै नमोऽस्तु ते ललिते ॥430॥
एकैकवर्णयोगाद्विंशतिसहितानि सन्ति चत्वारि ।
बीजाक्षराणि मन्त्रे गायत्रीति प्रतीतरूपासि ॥431॥
एकैकवर्णयोगाद् व्याहतयस्सप्त लोकसामैव ।
शक्त्यवतारास्तव ताः पञ्चाशद्रूपिणी त्वमेवासि ॥ 432॥
एका हि राजशक्तिः फणिनीशक्तिः त्रिकालजा शुद्धा ।
शक्तिरिति सान्ध्यशक्तिः तासु त्वं भाससे नमो ललिते ॥433॥
एति यमिहोपनयनं द्विजपदमभ्येत्यथात्मसंस्कृत्या ।
तैरेव पूजनीया विप्रैस्संस्कारवद्भिरस्यम्ब ॥ 434 ॥
एकीभूतैरखिलैस्तत्त्वैस्तत्त्वं महद्भवेदेकम् ।
पीठमथ तव स्याद्बोधकमिष्टस्य तेजसो देवि ॥435॥
एकं तदेव सत्त्वं ब्रह्म च गायत्र्यपीति ललितेति ।
श्रीकण्ठकण्ठहाराधारितकण्ठी त्वमम्ब मां पाहि ॥ 436॥
एकासनासि पत्या श्रीकण्ठेनापि निजविहारेषु ।
लोकावनेषु समरे नानापीठायुधाकृतिर्भवसि ॥437॥
एकब्रह्मव्याहृतिविषयीभूता त्वमेव भवसीति ।
लोकत्रयं नमेत् त्वामार्यामार्याभिमानिनीं देवीम् ॥438॥
एकैकस्यां तन्वां कोशाः पञ्चापि देवि राजन्ते ।
ब्रह्मावासगृहाणि हि भवदावासाश्च ते नमो ललिते ॥439॥
एकेनैव न शक्यं वर्णयितुं त्वामहीश्वरेणापि ।
लोकातीतमहिम्ना जयसि हि सततं त्वमिष्टकादम्बा ॥440॥
एकावस्था सुलभा भवति नरस्यापि यौवनावस्था ।
नित्या हि तव तु सा त्वं जयसि तया देवि निश्चितावस्था ॥441॥
एकैश्वैर्यवतस्त्वं लोकाधीशस्य मानिनी भूत्वा ।
मदमानशालिनी स्याः कामं तुभ्यं नमो नमो ललिते ॥442॥
एणीविलोलनयने मदघूर्णितपाटलाक्षि दैत्यवधम् ।
कृत्वाऽसवमपि पीत्वा प्रोन्मत्ते ते नमो नमो ललिते ॥443॥
एधितमधुपानमदा पाटलगण्डस्थली त्वमेवाम्ब ।
साधयसि सकलकार्यं साधय मम कार्यमीप्सितं ललिते ॥444॥
एति हि चन्दनगन्धद्रवमुख्यानेकचर्चितां देवी ।
भौतिकमूर्तिस्तव तद्भवति हि भूताङ्गसुरभिचार्चिक्यम् ॥445॥
एति प्रियता हृदयं तव नवचाम्पेयकुसुमवहनाच्च ।
वाणीप्रियं हि सा गीर्भवति त्वद्धामवासिनी ललिते ॥446॥
एतावान्महिमा ते नियतो नैवेति भासि कुशलानि ।
सष्टिस्थितिलयकतिषु त्वं यत्कार्येषु दक्षिणा भवसि ॥447॥
एनांसि हन्तुमर्हा सा त्वं श्रीदेवि कोमलाकारा ।
नानाविधजनहदये मद्वङ्गी त्वं विराजसे नितराम् ॥448॥
एकातिमहदहङ्कतिसुदृढप्राकारचेष्टिते जगतीम् ।
एकात्मनात्मजठरे वहसि त्वं देवि ते नमो ललिते ॥449॥
एको हि ते प्रपञ्चस्तस्य त्वं नायिकासि मातापि ।
मातुरिव मास्त्वनास्था गर्भस्थेस्मिन्नितीरयेत्को वा ॥450॥
एकात्मनात्मभूमिं धत्से त्वं देवि भोगिनी भूत्वा ।
देहानपि शतरूपान् भुवनाधारे नमोऽस्तु ते ललिते ॥451॥
ऐहिकसुखमिच्छन्तः सेवन्ते त्वां तथैव कैवल्यम् ।
इच्छन्तोऽपि च मार्गो भिन्नस्तेषां फलं तथा दिशसि ॥452॥
ऐहिकबाधाहर्तुर्गणनाथस्यापि कार्तिकेयस्य ।
मातासि देवतास्त्वां सेवन्ते चेति ते नमो ललिते ॥453॥
ऐश्वरभाग्यमवाप्य श्रेयो दातुं जगत्त्रयस्यापि ।
सिद्धासि साधकानां मर्त्या रोचन्त एव ते तेषु ॥454॥
ऐहिकमर्थं महतां साधयितुं पारमार्थिकं च तथा ।
यतमानानां सततं फलमिह धत्से समानमेवाम्ब ॥455॥
ऐन्द्रियपुष्टिमती त्वं जन्तूनां पुष्टिदायिनी भवसि ।
ईश्वरहरिविधिकार्याण्यादाय त्वं तु जागरूकासि ॥ 456॥
ऐन्द्रियमदसंहारिणि मतिरूपे सन्मतिप्रदात्री त्वम् ।
अधिगतशुद्धविवेका त्वमसि हि दद्या विवेकमेकं मे ॥457॥
ऐश्वर्यमिव ददासि त्वं शान्तिं शान्तिकान्तरूपासि ।
शान्तिं स्वान्ते मह्यं दद्य्यास्त्वं मे नमो नमो ललिते ॥458॥
ऐश्वर्यमतुलमास्तां तव कृपया त्वं जनेषु सकलेषु ।
स्वस्तिमति देहि मह्यं स्वस्ति स्वस्तिप्रदा त्वमेवासि ॥459॥
ऐश्वरतेजोधारिणि तेजोरूपे जगत्त्रयाधारे ।
दारय भवभयमखिलं तारय जलधिं नमोऽस्तु ते ललिते ॥460॥
ऐहिककष्टनिवारिणि पारत्रिकसौख्यदात्रि सावित्री ।
दैहिकहार्दिकसौख्यं जनय च सख्यं जने जने जननि ॥ 461॥
ऐश्वरमौलिविभूषा नन्दागारोद्भवा च सा दुर्गा ।
आनन्दरूपिणी त्वं कल्याणी कामधेनुरपि भवसि ॥ 462॥
ऐहिकपारत्रिकयोः सुखयोर्विघ्नान्निवारयस्येव ।
देहात्मात्मत्वधियां देवि त्वं देहि देहि सुविवेकम् ॥ 463॥
ऐश्वर्यवत्यसि त्वं रविशशिपवमानमित्रनेत्रासि ।
नाडीत्रयत्रिमार्गा देवि त्वं पाहि ते नमो ललिते ॥464॥
ऐन्द्रियनिवहे नयनं प्रथमं नारी स्मराभदेहानाम् ।
तद्द्वयजयिनी सा त्वं लोलाक्षी कामरूपिणी जयसि ॥465॥
ऐशमहिम्ना तुष्टे शिष्टाभीष्टार्थदानसन्तुष्टे ।
अक्षरमालाशक्ते मालिनिमातर्नमोस्तु ते ललिते ॥466॥
ऐतिह्याधिकसत्त्वं पञ्चाशद्वर्णमालिकारत्नम् ।
वर्णहंसी सोऽहं सा त्वं द्वयीह नमोऽस्तु ते ललिते ॥467॥
ओंकारमूलपीठे व्याहृतिसमसप्तमातृकारूपे ।
स्वरवर्णमातृका त्वं मातस्तुभ्यं नमो नमो ललिते ॥468॥
ओघसमाकुलसंसतिसागरगर्भे निमज्जतां देहान् ।
धारयसि जीवयसि सा त्वं मलयाद्रिस्थासि ते नमो ललिते ॥469॥
ओघावर्ते सा त्वं भ्रामयसि स्वार्थमप्यनालोच्य ।
कुण्डलिनी त्वं तु तथा बद्धासीहाम्ब ते नमो ललिते ॥470॥
ओषधिनिधिमत्तनये सुमुखी गाम्भीर्यशालिनी त्वमसि ।
धीशालिनी चकम्पे समरे सुरवैरिबलमवेक्ष्य त्वाम् ॥471॥
ओजस्विनी च फणिनी मूलाधारस्थिता सहस्रारे ।
कुरुते कपाटबन्धं त्वमपि तथैवाम्ब भवसि गणनीया ॥472॥
ओढुमशेषं भुवनं सुभ्रु त्वं भवसि जगति कुण्डलिनी ।
मूढानोढ्री सा त्वं प्राज्ञानेतान् कुरुष्व हे जननि ॥473॥
औदार्यधैर्यसुभगे मातुर्विश्वम्भरे स्थिरे रुचिरे ।
त्वं शोभनासि नित्यं मातस्तुभ्यं नमो नमो ललिते ॥474॥
औपयिककार्यकरिणी करिणीगम्भीरगामिनी त्वमसि ।
सुरनायिकासि सा त्वं दीनानस्मान् सदा मुदा पाहि ॥475॥
औदार्यपूर्णचित्ते चित्ते चित्ते सदा नॄणां वससि ।
कलकण्ठमधुरकण्ठी कण्ठीरववाहना त्वमेवासि ॥476॥
औदार्यमात्मनीव त्वयि कान्तिः काममस्ति दुर्वारा ।
वारयसि तेन च तया बाह्यान्तर्ध्वान्तसन्ततिं हि नॄणाम् ॥477॥
औदार्यं कियदिति ते को वा शंसेत् प्रविश्य तव हृदयम् ।
यत्त्वं सृष्टिविधाने प्रेरयसीशं तमेव निजरमणम् ॥478॥
औदार्यवत्यपि त्वं दश्या नैवास्यणोरणुत्वेन ।
मूलाधारगफणिनी यशसि त्वं देवि ते नमो ललिते ॥479॥
औषधसञ्जीवनमिव वज्रमणिं दीप्तिशक्तिसंयुक्तम् ।
भासयसि सकलवस्तु द्योतयसि त्वं तदेव ननु ललिते ॥480॥
औषधिपनाडिकायां त्वं देहे भवसि वामभागस्था ।
दिनकरनाड्यां दयितस्तव भवतीतीश्वरी त्वमेवासि ॥481॥
औषधमिव तव करुणा सुरभिरिवाकाशचारिणी भवति ।
तमसि वयोविहितां तां त्रिविधावस्थां विना स्थिता भवसि ॥482॥
औदार्यहार्दकरुणापालितभुवने समस्तगुणसहिते ।
सिद्धेश्वरि परिशुद्धे चित्ते काये वचस्सु मां पाहि ॥483॥
औपाधिकोपधीनां नाथा नाथाश्रिता हि कुण्डलिनी ।
जीवन्मुक्तावस्थां दातुं यमिनां सदा स्थिता भवसि ॥484॥
औदार्यशीलदेया अणिमाद्या सिद्धयो महादेवि ।
विद्यासिद्धिसुरूपे त्वामुपजीवन्ति सन्ततं ललिते ॥485॥
औदार्यशालिनी त्वं सा कुण्डलिनी द्वयीति युवयोस्तु ।
देवीह मुक्तिमार्गे जीवन्मुक्ताद्ध्वदीपिके स्याताम् ॥486॥
औषधिपतिधरदयिते मातर्ललिते यशस्सुधाविचले ।
ओजो धेहि मयि त्वं मतिमति शुद्धां च ते नमो ललिते ॥487॥
औदार्यदात्रि नमतां नृणां चक्रे विशुद्धनाम्नि त्वं ।
निवससि कतनिजनिलया चक्राराध्ये निधेहि मयि सत्त्वम् ॥488॥
औरसपुत्रा ननु ते सर्वे सर्वेश्वरी त्वमेवासि ।
आरक्तवर्णयुक्ता काले काले स्थिते नमो ललिते ॥489॥
औडुपदिनकरतारारूपाक्षित्रयसमन्विता गगने ।
तेजोमयि मयि करुणां कुर्वीथास्त्वं नमोऽस्तु ते ललिते ॥490॥
औपाधिकभयनाशिनिखड्वाङ्गाद्यायुधोज्वलाकारे ।
निहतसुरवैरिवर्गे त्राहि त्राहि त्वमेव मां ललिते ॥491॥
औडुकपथ इह गगने जगतीदं स्यात्कृतं धरावरणं ।
तस्मात्तदेकमास्ते वदनाम्भोजं नमोऽस्तु ते ललिते ॥492॥
औषधमिव मधुरसवन्मधुरं परमान्नमम्ब ते प्रीत्यै ।
भवति हि विहितं सततं प्रीता तेनार्जितेन मनसा स्याः ॥ 493॥
अंहस्तमसां हन्त्री त्वं तावद्देवि देहिनां भवसि ।
भवसिंधुतारयित्री गात्रे गात्रे त्वमिन्द्रियाधीशा ॥494॥
अंहोमयपशुपालननिरता तद्भीतिहारिणी त्वमसि ।
रंहस्तवाम्ब गत्याः समरे समरे सहेत को वाम्ब ॥495॥
अम्बुजमेकं दशशतपत्रं वर्णाः स्वरा इह स्वैराः ।
सन्ति हि सन्ततमस्मिन् कृतवसतिस्त्वं विराजसे ललिते ॥496॥
अम्बुजमनाहताख्यं पीठं तव चक्रनामकं विहितम् ।
स्वरमध्रुवं दधाना तत्त्वं त्वं वैष्णवी च जय ललिते ॥497॥
अम्बरमिव घनसहितं श्यामा त्वं चासि वैष्णवीनाम्नी ।
अम्बुजनाभसखी त्वं भवसि हि सततं नमोऽस्तु ते ललिते ॥498॥
अम्भोगतिरपि कुटिला गमनं ते तेन डाकिनी त्वमसि ।
सिंहासनमधिरूढा जीवनदात्रीह देहिनां ललिते ॥499 ॥
अम्बुजमधिवससि त्वं तन्नाम्नानाहतं नभस्तत्त्वम् ।
वदनद्वयसम्पन्ना तेन त्वं राजसे नमो ललिते ॥500॥
अंशुच्छुरितद्विरदभ्राजितवदनाभ्रवृन्दनीलाङ्गी ।
शिंशुपसुमललितोष्ठे नित्यं दंष्ट्रोज्वले ललिते ॥501॥
अंहःस्तोमक्षयकरजपमणिमालाभिरामशुभकण्ठी ।
सोऽहं नाहङ्कारी त्वच्चरणाम्भोजभम्भरो ललिते ॥502॥
अङ्गेषु रुधिरपूरे स्वामिनिरुधिरासवेन सोन्मत्ते ।
अंशव इव ते दिनकच्छशिताराकारिणो हि ते ललिते ॥503॥
अङ्कुशमुख्यप्रहरणभीकररूपाभिरावतासि त्वम् ।
शक्तिभिरुल्लसितासि द्वादशभिस्ते नमो नमो ललिते ॥504॥
अंशुमति मातरगजे किंशुकरक्ताम्बरे शुभाकारे ।
त्वं शुभमिह कुरु मयि हे शङ्करि तुभ्यं नमो नमो ललिते ॥505॥
अंहांसि मे क्षमस्व त्वं तावल्लोकलोचना भवसि ।
स्निग्धान्नमोदमाना मातर्मां पाहि ते नमो ललिते ॥506॥
अंशावतारभाजां वीराणां शौर्यसाह सन्तुभ्यम् ।
रोचेत रोचमाने धाम्ना नित्यं नमोऽस्तु ते ललिते ॥507॥
अंशुमदनाहताब्जे काकिनीख्यासि सा त्वमेवैका ।
पालनमोक्षसुखस्य त्वं दात्री ते नमो नमो ललिते ॥508॥
अङ्गेऽस्ति नाभिदेशे मणिपूरकचक्रमम्बुजाकारम् ।
भवति तदेव हि निलयं तव तत्तुभ्यं नमो नमो ललिते ॥509॥
अम्बुजमिव मणिपूरं व्योमानलवायुतत्त्ववल्ललितम् ।
तद्गुणवत्त्रिविधास्यं भवति च तत्र स्थितासि हे ललिते ॥510॥
अङ्कुशवज्राद्यायुधधारिणि संसारजलनिधेस्तरणे ।
रणमेदिनीषु धीरे धीराकारे नमोऽस्तु ते ललिते ॥511॥
अम्बुज इव मणिपूरे दशदलदशवर्णशोभिते ललिते ।
दशभिर्डामर्यादिभिरुल्लसिते ते नमो नमो ललिते ॥512॥
अंशुकभूषणभीषणनानायुधयोगचित्रिताकारे ।
आपाटलाङ्गवल्लि त्रिभुवनजननि त्वमेव मे शरणम् ॥513॥
अङ्गामिषाभिमाने मङ्गळमूर्ते जितारिकुलकीर्ते ।
माङ्गल्यदानशीले भगवति मातर्नमोऽस्तु ते ललिते ॥514॥
कल्याणि कल्पवल्लि प्रणतानां कर्मसाक्षिणी त्वमसि ।
गुडमधुरान्नप्रीते नमदिष्टार्थप्रदे नमो ललिते ॥515॥
कमले मणिपूरे च स्थितिमति चाशेषभक्तसुखदात्री ।
जाठर इव दहनोऽङ्गे त्वमसि हि नित्यं नमोऽस्तु ते ललिते ॥516॥
कनकाचलतटवासे सकलसुखानां च दात्रि मृदुगात्रि ।
लाकिन्यम्बारूपे सर्वाविद्याविनाशिनि त्राहि ॥ 517॥
कटितटवर्तिनि देहे स्वाधिष्ठानेऽम्बुभूमितत्त्वमये ।
निवससि सकलसुखाय श्रीललिते ते नमोऽस्तु तत्त्वमयि ॥518॥
कल्याणि चक्रमध्ये स्वाधिष्ठाने नभोऽम्बुवायुदहनाश्च ।
तत्त्वात्मना स्युरस्मिन् सा त्वं वससीति ते नमो ललिते ॥519॥
करवालशूलचक्राद्यायुधविभ्राजमानकरजाले ।
शरभिन्नदैत्यनिवहे मातस्तुभ्यं नमो नमो ललिते ॥520॥
कमलदलकेसराभे हेमाभे सूक्ष्ममध्यमे रामे ।
विमलतरहसितवदने मातस्तुभ्यं नमो नमो ललिते ॥ 521॥
कलुषविरहितं चक्रं स्वाधिष्ठानं समस्तनाडीनाम् ।
स्थानं फणिनीशक्त्या दर्पाय स्यान्नमो नमो ललिते ॥522॥
कायगरमेदसि त्वं देवी तत्र स्थितासि सा नित्यम् ।
भाययसि धूर्तनिवहं सुजनानुद्धरसि ते नमो ललिते ॥523॥
कादम्बरीप्रिया त्वं मधुपानासक्तमानसा भवसि ।
कादम्बमन्दगमने मातस्तुभ्यं नमो नमो ललिते ॥524॥
कामचरवरविमाने दध्यन्नासक्तमानसे सततम् ।
सीमातिशायिकरुणे मातस्तुभ्यं नमो नमो ललिते ॥525॥
काकिन्यम्बारूपे शोकव्यामोहसाध्वसै रहिते ।
लोकविनोदनशीले मातस्तुभ्यं नमो ललिते ॥526॥
कान्तारविन्दमूलाधारारूढेऽ हिचक्रमारूढे ।
शान्तातिकोमलाङ्गी मातस्तुभ्यं नमो नमो ललिते ॥527॥
कान्ते स्वाधिष्ठाने षड्दलवत्पद्ममण्डिते महति ।
बन्धिन्यादिसमष्ट्या शक्त्या युक्ते नमोऽस्तु ते ललिते ॥528॥
कान्तसुषड्दलपद्मं बभमयरलवर्णसंयुतं ललितम् ।
कान्तक्षितितत्त्वार्थं तत्ते स्थानं भवेद्धि ते ललिते ॥529॥
कान्ते मूलाधारे गगनमरुद्वह्निजलधरैः तत्त्वैः ।
पञ्चाननासि शक्तिः कुण्डलिनी त्वं नमोऽस्तु ते ललिते ॥530॥
कीकससङ्घस्वामिन्यसि भूतत्वेन सुसङ्गता त्वं हि ।
लोकाभ्युदयविधात्री मातस्तुभ्यं नमो नमो ललिते ॥531।
कोमलगात्र्यपि हस्तैरङ्कुशपाशाधिधारिणी भवसि ।
कामचरासुरदमनी त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥ 532 ॥
कामचरि कमलनयने चतसृभिरभिमानदेवताभिश्च ।
वरदादिभिराकलिते मातस्तुभ्यं नमो नमो ललिते ॥533॥
कामितमुद्गदलान्ने कामितफलदे समस्तभक्तानाम् ।
सोमसुधामदुहासे मातस्तुभ्यं नमो नमो ललिते ॥534॥
काली कुण्डलिनी या शाकिन्याभ्यां समन्वितैव तया ।
नियतेव भासि सा त्वं भासि तया देवि ते नमो ललिते ॥535॥
कोमलमाज्ञाचक्रं भ्रूमध्ये बैन्दवाग्निसान्निध्ये ।
अस्ति ननु मातकाया ऋषभाख्यं धाम तेऽपि सल्ललिते ॥536॥
कान्तिष्विव रविकान्तिर्वर्णे शुक्लः प्रधान इति सा त्वम् ।
शुक्लासि देहकान्त्या ज्योत्स्नीवेन्दोर्नमोऽस्तु ते ललिते ॥537॥
कीर्तित आज्ञाविद्भिः ललिताज्ञाचक्र एव सा त्वमसि ।
तावच्छडानना त्वं तस्यै तुभ्यं नमो नमो ललिते ॥538॥
कोमलमज्जासंस्थे धात्रभिमानिन्यपीह सा त्वमसि ।
करुणारुणितापाङ्गे जय जय मातर्नमोऽस्तु ते ललिते ॥539॥
कान्तिमति हंसवत्या शक्त्यासि त्वं क्षमावतीनाम्ना ।
दक्षद्व्यक्षरयुक्ते मातस्तुभ्यं नमो नमो ललिते ॥540॥
कामितशाल्यन्नादे कामितफलदानशीलतामान्ये ।
सामजवदनसरोजालोकनमुदिते नमोऽस्तु ते ललिते ॥541॥
कोमलहाकिन्याख्या काचन शक्तिर्विराजते चक्रे ।
चक्रेशपूजिताङ्घ्रे विज्ञानस्थे नमोऽस्तु ते ललिते ॥542॥
कोमलसहस्रपत्रे कमले कमलोद्भवार्चिते ललिते ।
निवससि सा त्वमजस्रं मातस्तुभ्यं नमो नमो देवि ॥543॥
कान्तासि सर्ववर्णैस्तच्छक्त्यालंकतासि मातङ्गि ।
कान्तार्पितार्धदेहे देहे देहेसि शक्तिरेवाम्ब ॥544।
कामायुधानि धृत्वा कामितरूपाखिलानि निशितानि ।
रामासेनासहिता जयसि हि मातर्नमोऽस्तु ते ललिते ॥ 545॥
कार्येषु वीर्यरूपा ब्रह्मपदेवासि बीजरूपा वा ।
मायाधारवती त्वं जयसि हि मातर्नमोस्तु ते ललिते ॥546॥
कमलारमण इव त्वं भवसि हि विष्वग्विलासिमुखपद्मा ।
सुमुखि प्रसीद मातर्दीनेधीने त्वयीह मयि देवी ॥547॥
कामयसे त्वमशेषाण्यन्नानि श्रेष्ठभक्तदत्तानि ।
आस्वादय तदब्रह्म हि सर्वं चान्नं त्वमेव ननु ललिते ॥548॥
कल्याणगुणवती त्वं याकिन्यम्बास्वरूपिणी भवसि ।
पर्यायेण च षट्सु त्वं चक्राब्जेषु सञ्चरस्येव ॥549॥
कल्याणतारकेषु ज्वलतो वैश्वानरस्य दयितासु ।
स्वाहानाम्नी ब्रह्मज्योतिश्चासि त्वमेव ननु ललिते ॥550॥
कामितफलादा लोके पितदेवानां स्वधाभिधाना त्वम् ।
धूमशिखस्य च वह्नेर्जायारूपासि ते नमो ललिते ॥551॥
कामान्तकाङ्गतरङ्गे रममाणा त्वं जडानभिज्ञा च ।
भवसि कदाचिदिव त्वं भवसि च मुक्तिस्थिता नमो ललिते ॥552॥
कारुण्यामतवष्टिं कुरुतेपाङ्गद्वयं निजेषु सदा ।
मेधा नृणां मनस्सु त्वं ननु लोके नमोऽस्तु ते ललिते ॥553॥
कर्णाकर्णिकया ते श्रुतिरिव वदनांशुनिस्सृता वाणी ।
आज्ञाकरी वराज्ञा भवति हि सा त्वं नमोऽस्तु ते ललिते ॥554॥
कीर्तितवेदादेशं स्मरति चयार्थं च संहितारूपा ।
धर्मस्य सा स्मृतिस्त्वं शब्दार्थज्ञानबोधिनी ललिते ॥555॥
का वास्त्यजाण्डगर्भे त्वत्सदशी को नु किं तुलां याति ।
तव देवि सकलहत्सु त्वमसि हि तद्भद्रमासुव त्वं मे ॥556॥
कासादिसर्वरोगान् काये श्लेष्मादिदोषसम्भाव्यान् ।
नाशयसि वैद्यराज्ञी त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥557॥
कीर्तिरसि पुण्यरूपा लभ्या पुण्येन कीर्तनश्रवणैः ।
पुण्यैर्नंदसि च त्वं मातस्तुभ्यं नमो नमो ललिते ॥558॥
कामारिहार्दमूर्ते सुरवनिताभिः पुलोमसुतयापि ।
देव्यार्चितासि बन्धान्मोचयसि त्वं नमोऽस्तु ते ललिते ॥ 559॥
कादम्बिनीव भङ्गी नीलेव च नीलकान्तिकान्तस्ते ।
चिकुरो विभाति धाम्ना मातर्नीराजितासि ते ललिते ॥560॥
कार्याकार्यविचारे नित्या नित्यादिवस्तुतत्त्वे वा ।
विदधाति या विचारं सा विद्या त्वं नमोऽस्तु ते ललिते ॥561॥
खमपि च नादं बिन्दुं व्याप्य च या भाति तां कलां ललितां ।
आक्रम्य विश्वसृष्टिं कुर्वाणा त्वं विराजसे ललिते ॥562॥
खानिलदहनाम्बुधराः पञ्च हि भूतानि दैवकर्माणि ।
जनिमतिहेतव एते सर्वापत्तीर्निवारयेर्मृत्योः ॥563॥
गणनीयाग्रे महताममराणां त्वं शिवेखिलानां च ।
भवसि हि नित्यमचिंत्या कलिकल्मषनाशिनि त्वमेवासि ॥564॥
गण्याखिलामराणां तेजस्तोमस्तव स्वरूपं हि ।
पुण्यानि तव कृपायाः फलरूपाण्यम्ब ते नमो ललिते ॥565॥
गायन्ति गानरसिकास्सेवन्तेन्ये हितार्थिनो भवतीम् ।
नाशयसि कालभीतिं भीतानां ते नमो नमो ललिते ॥566॥
गारुडमणिनीलाङ्गीं गुरुरपि विष्णुर्निषेवते भगवान् ।
निजकार्यसाधिकेति त्वां तेनासीत् स विष्णुरेवाम्ब ॥567॥
गिरिराजपुत्रि ललिते ताम्बूलादानसेवनोल्लसिते ।
यद्द्वादशगुणयुक्तं ताम्बूलं ते प्रियं हि ते ललिते ॥568॥
गिरिवनचरमगनयने नयनानन्दप्रदे सतां सुराणां च ।
हरिहरकार्यकरी त्वं रक्षां कुरु मे नमोऽस्तु ते ललिते ॥569॥
गिरिशमनोहरि दाडिमकुसुमरुचे देवि देवताजननि ।
चारुतरवसनशोभाभरिते ललिते नमोऽस्तु ते ललिते ॥570॥
गिरिमहिबद्धं कत्वा क्षीरपयोधिं च मथितमथ कृत्वा ।
अमतमवापुरर्मर्त्याः त्वमभूस्तेभ्यो हि मोहिनी ललिते ॥571॥
गीताखिलगुणभूषे सकलैर्विश्वातिशायिनी त्वमसि ।
गीतागुरुसहजाते मातर्मां पाहि सर्वथा सततम् ॥572॥
गुरुतरसुखमानन्दं दद्यास्त्वं देवि योगिनां समताम् ।
गुरुतरमपहर मामकपापं पापघ्नि ते नमो ललिते ॥573
गुरुरम्ब तेऽस्ति जगतः तव भर्ता शङ्करो हि सौख्यमिह ।
स ददाति च सा त्वं च श्रेयस्करि ते नमो नमो ललिते ॥574॥
गूडार्थबोधिनी त्वं सहदयरूपासि रविरपीहासि ।
सा त्वमसि नित्यतप्ता मातस्सर्वत्र पाहि मां पूर्णम् ॥575॥
गूढो भक्तनिधिर्वा मयि नैवास्ति प्रकाश्यमानो वा ।
नाहं भक्त इह स्यां भक्तनिधिं ते कुरुष्व मामम्ब ॥576॥
गूहितभुवननियन्त्री स्वस्मिन्नस्मिन्निगूढमज्ञानम् ।
मोहयति यत्तु चित्तं तदपि त्वं प्राग्विनाशयेरम्ब ॥577॥
गृहमिव निजमतिरम्यं स्वामी त्वं विश्वमन्दिरं च निजम् ।
रक्षसि हि तेन सा त्वं ब्रह्माण्डस्यासि नायिका ललिते ॥578॥
गेहिषु मैत्रीकरुणासन्तोषाद्यास्तु सद्गुणा यत्र ।
तेषु प्रसीदसि त्वं करणविशुद्धः प्रियाय ते ललिते ॥579॥
गेयचरित्रे पात्रे करुणावष्टिप्रदे सुधामोदे ।
अन्ते त्रिमूर्तिकार्ये शान्ते त्वं विश्वसाक्षिणी भवसि ॥580॥
गैरिकरागवदधरे वचसा मधुरे गलत्कपासारे ।
शक्तिषु चाद्या त्वमसि ब्राह्मीशक्तिश्च ते नमो ललिते ॥581॥
गोत्रोदितप्रभावे ब्रह्मासक्ते निरञ्जने सततम् ।
पात्रीकुरु करुणाया मामपि तव देवि मे नतिर्ललिते ॥582॥
गौरवकारकमदिरामापीयापीय चालसेवासि ।
ब्रह्मानन्दपयोधौ मग्नोन्मग्ने नमोऽस्तु ते ललिते ॥583॥
गन्धादिगुणविदूरे शुद्धज्ञानात्मिके च ते ललिते ।
श्रुत्याधारवचोभिर्गम्ये रम्ये नमोऽस्तु ते ललिते ॥584॥
गङ्गाग्रजे द्विजेड्ये ब्राह्मी माहेश्वरीति कौमारी ।
वैष्णव्यथ वाराहींद्राणी चामुंडिका त्वमेवासि ॥585॥
गम्भीरे श्रीललिते वर्णावलिवर्णमातकारूपे ।
वर्णेषु धवलवर्णे ब्रह्मानन्दप्रदे नमो ललिते ॥586॥
गङ्गेव मूर्ध्नि शम्भोस्तव गृहमुद्योतते महाकूटे ।
ब्रह्मणि लीनं च कलातीतं देहे सहस्रपत्रगतम् ॥587॥
घनकरजघनस्तनयोर्भारादानम्रकायकल्पलते ।
बिसमदुलदोस्सुशाखारुचिरे तुभ्यं नमो नमो ललिते ॥588॥
घनपथचरसुरवन्दैः सेवितचरणाम्बुजेम्ब महनीये ।
नाथादधिकोदारे पात्री धात्री भव त्वमेव मयि ॥589॥
घातुकदानवनिवहं सकलं संहत्य सज्जनेषु दयाम् ।
दधती दयार्द्रमूर्तिस्त्वमसि हि मातर्नमो नमो ललिते ॥590॥
घीङ्कृतिमद्गजराजं समरे समरेऽधिरुह्य वैरिबलम् ।
नाशयसि नाशरहिते नाशय मत्पापमम्ब हे ललिते ॥ 591॥
घुष्टं समस्तमुनिभिर्ब्रह्मैकं सत्यशुद्धमेवेति ।
त्वमसि हि तथात्मविद्याहृद्यानाद्या नमोऽस्तु ते ललिते ॥592॥
घोषयसि तां हि विद्यां ब्रह्मानन्दप्रदायिनी त्वमसि ।
महती विद्या सा त्वं सारस्वतसाररूपिणी भवती ॥593॥
घण्टानिनादमुख्यैर्दशभिर्नादैर्विराजते ललिते ।
सकलमहिमाभिरामे श्रीविद्ये ते नमो नमो देवि ॥594॥
चपलाक्षि चारुशीले विद्याविद्यासु सङ्गता भवसि ।
कोट्यधिकशक्तियुक्ता नानारूपा विराजसे ललिते ॥595॥
चय एव हि वर्णानां पदमपि कमलं तवापि मञ्जुतमम् ।
शक्तय एव पदानां दासीभूता भवन्ति ते ललिते ॥596॥
चतुराम्नायाराध्ये स्वरवर्गीयाश्च योगवाहाश्च ।
नाडीत्रयमपि कोटित्रयमिति ललिते तवैव रूपाणि ॥597॥
चतुरे तव मनुग्रमध्ये षोडशवर्णा भवन्ति बीजानि ।
पञ्चदशाक्षरवत्यपि मन्त्रे श्रीबीजसङ्गता भवती ॥598॥
चतुरासि देवबृन्दे कामो भवसि स्वरैरशेषैस्तु ।
तत्कोटिसेविता त्वं तत्सदशी चासि ते नमो ललिते ॥599॥
चारुतरवर्णयोगात्पवनाद्याः सम्भवन्ति वेदाश्च ।
पदवर्णकोटिशक्तिप्रकटितरूपा त्वमेव ननु ललिता ॥600॥
चारुस्मितसितवदने दशशतदलसहितकमलमुल्लसति ।
नरवपुषि शिरसि जलजे त्वं तस्मिन् वससि सादरं ललिते ॥601॥
चारुतरचन्द्रवर्णे रत्नश्रीमद्विभूषणैः कर्णे ।
भूषितवत्यसि ललिते सा त्वं मां पाहि ते नमो देवि ॥ 602॥
चित्रतरतिलकसुन्दरफाले राकेन्दुचारुतरवदने ।
भ्रूमध्यवर्तिचक्रं वपुषि नरस्यापि भवति तव पीठम् ॥603॥
चित्रतरमम्बरस्थं शक्रतनुर्भाति तत्समानं ते ।
चित्रतरमम्बरं यद्धारयसि त्वं नमोस्तु ते ललिते ॥604॥
चीनाम्बरपरिधाने हृदये चक्रेष्वनाहते वससि ।
तच्छासनमिह नूनं शाश्वतमेवास्त्यनाहतं ललिते ॥605॥
चेतनबोधात्तावकभास्वानुल्लसति खे यथा किरणैः ।
कत्वोच्चैस्तान्विलससि देवि त्वं चाप्यनाहते चक्रे ॥606॥
चैतन्यशालि चक्रं मूलाधारं त्रिकोणवल्ललितं ।
ध्याने बलवति चित्ते मातर्गगने रविर्यथोल्लससि ॥607॥
चोरनिशाचरवीरान्नाशयसि त्वं हि या शरीरे सा ।
अज्ञानरूपभाजस्तेषां शक्तिं विनाशयेर्ललिते ॥608॥
चञ्चद्ब्रह्मांडमिव प्रतिपदमभिमान एक एवास्ते ।
मोक्षविरोधे दक्षं तद्यज्ञध्वंसिनी त्वमेवासि ॥609॥
चञ्चलमनसां भीतिं नाशयितुं त्वं परिप्लवापाङ्गी ।
विकसितनयना भवसि च कुण्डलिनी त्वं नमोऽस्तु ते ललिते ॥610॥
छविपूरपूरिताङ्गी दरहासोद्भासितानने ललिते ।
भवतु तवाननकान्तिः स्वान्ते शान्तिप्रदेव मे सततम् ॥611॥
उन्नामय हृत्कमलं बोधय बोधं त्वमेव मे ललिते ॥612॥
छायेव चण्डभानोर्मोक्षप्राप्त्यै स्थिता हि कुण्डलिनी ।
मूलाधारे खनिरिव महसां सा त्वं नमोऽस्तु ते ललिते ॥613॥
छिन्नासुरशतदेहे माता त्वं लोकनाददेहानाम् ।
अमतस्य च कुण्डलिनी नाम्नां नित्यं नमोऽस्तु ते ललिते ॥614॥
जनमनसि दैत्यरूपं सिद्धमशुद्धं निकाममज्ञानम् ।
तारकबलमिव हन्तुं स्वान्ते गुहजन्मभूरभूर्ललिते ॥615॥
जाग्रच्चित्तसरोजे मुद्रायोगेन योगिनामेव ।
आज्ञाचक्रगतास्सध्यानं देवाऽस्तु पाहि मां ललिते ॥616॥
जितदैत्यराजचक्रे मार्गे सिद्धासि निग्रहस्य त्वं ।
निग्रहमार्गस्सोयं ध्यानाभ्यासो हि योगिनां ललिते ॥617॥
जीविसुखप्रदशीले शुद्धकलारूपधारिणीन्दुमुखि ।
दहराकाशाधारे मातस्तुभ्यं नमो नमो ललिते ॥618॥
जेत्री जगतां च त्वं प्रतिपदमारभ्य पौर्णमास्यन्तम् ।
पञ्चदशाहोभिस्त्वं पूजार्हा भवसि ते नमो ललिते ॥619॥
जैत्रशरचापहस्ते शुद्धज्ञानात्मिके कलारूपे ।
अहमिति मतिरपि विमला मूर्धनि भात्यम्ब ते नमो ललिते ॥620॥
जैत्रसमाधिरतानामहमिति विमला मतिर्यदा सकला ।
देवि कलाकारा त्वं काराकारे भवेऽपि मां पाहि ॥621॥
जोषमिदमम्ब हृदयं तिष्ठति नैव क्वचित् परिभ्रमिति ।
काव्यकलादिविनोदैः स्थापय तद्रूपिणी ममापि तल्ललिते ॥622॥
जङ्गमबोधिनि कमलावाणी सेव्ये प्रकीर्णकैरम्ब ।
मङ्गलमातनु हि त्वं नमते भजते च मे सदा ललिते ॥623॥
जातानुरागहृदया हृदये हृदये रमस्व देहवती ॥624॥
झषशिशुतिमिमयजलधिः संसारोयं हि पालिनी त्वमसि ।
द्रष्टुममेया दश्यादश्या मे स्याः कदा शुभम्योर्मे ॥625॥
झरकोटिकोटिसिन्धोरन्तः स्यादेव संसतेर्नैव ।
जीवात्मिकास्ति भवती चैतन्यं धन्यमुभयसाम्येन ॥626॥
झटिति च जटिले च घटयसि जननी त्वं जीवराशिमिह ललिते ।
परमासि पावनात्मा संपदिदं तेम्ब विश्वगार्हस्थम् ॥627॥
टङ्कतिजीवमये त्वं कोशे सञ्चरसि पालयन्तीव ।
प्राणानम्ब शरीरे जीवानां सद्मरूपिणी त्वमसि ॥628॥
टीकातीतां भवतीं शंसेद्वक्तापि कस्समग्रतया ।
पावनरूपे ललिते पावय सपरिग्रहं च मामम्ब ॥629॥
डयनाटकरतमनसि स्थैर्यं त्वं धेहि मे बधान त्वं ।
औदुम्बरफलसदशब्रह्माण्डान्यम्ब सन्ति ते वपुषि ॥630॥
डाकिन्यादिचमूस्ते सविधे जागर्त्यनारतं भवति ।
जगतां कारणमम्ब त्वच्छक्तिस्साहि केवला भवति ॥631॥
भानुशतकोटिधाम्नि द्योतयसि द्योतसे त्विषा ललिते ॥632॥
डिम्बाडम्बरमुदिते डम्बरममरारिजं न मर्षयसि ।
गुह्यास्यवेद्यरूपा मनसा तुभ्यं नमो नमो ललिते ॥633॥
डिम्बानसुराणां त्वं मातत्वादम्ब पालयस्येव ।
कैवल्यदानविषये पश्यसि पात्रं नमोस्तु ते ललिते ॥634॥
डोलारोहणशीले समये सञ्चारमखिलमाश्रयसि ।
त्रिपुरा त्रेता चासि त्रित्वविशेषाभिमानिनी ललिते ॥635॥
ढक्काद्यायुधहस्ते दिव्यशरीरे स्मितैकशक्ते त्वं ।
जनयसि जगति हि जन्तूनन्तकवैरिप्रिये नमो ललिते ॥636॥
ढौकन्ते ये ये ते त्वयि वृद्धिं यान्ति भक्तियोगेन ।
पातालभूमिलोकस्वर्गजनाराध्यमानपदपद्मे ॥637॥
तनुगात्रि देवि सृष्टिस्थितिलयकार्यार्थमेव जातासि ।
वाणी ब्रह्मा लक्ष्मीर्विष्णुर्गौरी शिवश्च शिवरूपे ॥638॥
तनुषु दशास्तिस्रः स्युः मर्त्यानां पूर्वदेवानां ।
त्रिदशाधीशासि त्वं त्रिदशारहितापि ते नमो ललिते ॥639॥
तनिमानमुपनय त्वं दुरितं मे त्रिविधवर्णमयि ।
बीजाक्षरेषु वासे प्रणवत्वेनास्तु ते नमो ललिते ॥640॥
तनुमन्मानसगेहे निवसन्ती त्वं सुरप्रियैर्गन्धैः ।
नामाक्षरत्रयेक्षे षडपि भवन्त्यम्ब बीजवर्णास्ते ॥641॥
तव ललिततिलकदेशे सीमन्ते चासि मङ्गलायतने ।
सिन्दूरमम्ब तेन त्वं माङ्गल्यप्रदायिनी भवसि ॥642॥
तव नामेति वर्णद्वय एवास्ते हरी रमा चेति ।
तद्द्वयरूपासि त्वं प्रणवाकारापि ते नमो ललिते ॥643॥
तरणिसमधामपूर्णे पूर्णेन्दूद्योतमानमुखचन्द्रे ।
चन्द्रार्धचूडजाये जायेतात्रापि किं कपामयि ते ॥644॥
तन्वा श्यामलवर्णे विष्णोर्भगिनी यदा त्वमेव भवेः ।
प्रालेयशैलजाता जाता गौरी नमोऽस्तु ते ललिते ॥645॥
तव गुरुरासीद्दक्षो न्यक्कारात्पत्युरीश्वरस्यापि ।
तेन कृताद्गिरिपुत्री पत्ये शर्वाय सा त्वमेवासीः ॥646॥
तपसि च चतुरासि त्वं गाने गन्धर्वसेविता भवसि ।
देवादिविश्वगर्भा देवि त्वं स्थूलसूक्ष्मरूपापि ॥647॥
तपनीयचारुगर्भा सवितुस्तेजःस्वरूपिणी ललिता ।
ईश्वरहिरण्यगर्भाकारा कारुण्यवारिधे पाहि ॥648॥
करुणाभरणासि त्वं तरुणी दैत्याधमान्निहन्तुमिह ।
त्रिपुरानसुरान् हन्तुं दानवनिवहं तदन्यदपि भवसि ॥649॥
तनुमद्वचनचतुष्कं भेदान्नादस्य परिमितं भवति ।
वाग्वादिनां च नाथं त्वं तेषां ते नमो नमो ललिते ॥650॥
तपसि रतानां ध्यानैर्गम्या त्वं ध्यानयोगिनामेव ।
मानवमानससुगमा भव भवजाये नमोऽस्तु ते ललिते ॥651॥
तनुधरगणनातीते देशकलाकालमानदुर्बोधाम् ।
जानातु कथमयं त्वां लोकश्शोकघ्नि ते नमो ललिते ॥652॥
तनुषे ब्रह्मज्ञानं बोधयसि त्वं भवामयं हन्तुम् ।
माता केवलमसि न हि गुरुरपि मातर्नमोऽस्तु ते ललिते ॥653॥
तनुधारि सौख्यकारि ज्ञानं प्रापञ्चिकं भवेन्नैव ।
ब्रह्मज्ञानं किन्तु ज्ञानं नेच्छन्ति तस्करा ललिता ॥654॥
तथ्यं ब्रह्मज्ञानं जन्मजरामरणरोगभैषज्यम् ।
वेदान्तशान्तिगीतं वेद्या तेनासि ते नमो ललिते ॥655॥
त्वद्ध्यानं हावर्णे षट्पदगणनीलचिकुरेम्ब ।
कालत्रयपरिबाधारहिते तुभ्यं नमो नमो ललिते ॥656॥
तरुणी च राजपुत्री नपभोगानन्दवर्धिता ललिता ।
लोपामुद्रानर्च त्वामम्बागस्त्यवल्लभा सुभगा ॥657॥
तनुषे विचित्रमेतद्विश्वं विश्वंभरानुजे ललिते ।
लीलाकतमिदमखिलं मायारचितं विभाति तव ललिते ॥658॥
तनुगतचर्मदशा त्वं द्रष्टुमशक्यासि दश्यरहितेति ।
त्वां कीर्तयन्त्यशेषाः शेषाभरणप्रियाङ्गने पाहि ॥659॥
तव नास्त्यदश्यवस्तु क्वापि त्वं सर्वमीक्षसे कोपि ।
पश्येन्नमेन्न च त्वां रव्याकारे नमोऽस्तु ते ललिते ॥660॥
तत्त्वमिदं तव किं वा बोधः स्यादिन्द्रियैर्यदेतदिति ।
विज्ञानमाहुरेके साक्षात् त्रिविधासि तत्र हे ललिते ॥661॥
तव नास्त्यवेद्यविषयो यदखिलविषयं त्वमेव जानासि ।
जीवो ब्रह्मविलोके ब्रह्मैव स्यादवश्यमयि ललिते ॥662॥
तत्त्वविदां मतमेवं योगो जीवात्मनोर्द्वयोर्मिलनम् ।
एतत्कार्याकारा त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥663॥
तपसि रतानामध्वा ध्यानाभ्यासात्मको भवेदेव ।
सोप्यष्टाङ्गसमेतस्तद्गुरुरूपा त्वमेव ननु ललिते ॥664॥
तपयिति साधनमेकं योगो मूलं हि तस्य योगस्य ।
अर्हसि तद्द्वयमम्ब त्वं योग्या तस्य भवसि हे ललिते ॥665॥
तत्वात्मिकेम्ब ललिते योगाज्जीवात्मनोर्जिताराते ।
आनन्ददात्रि जगतो मातस्तुभ्यं नमो नमो ललिते ॥666॥
तत्त्वमयदेहवर्तिनि जीवे लीने मुदेव सम्भवसि ।
जीवप्राणधुरं त्वं वहसि त्रेतादियुगयुगं ललिते ॥667॥
तत्त्वज्ञानमदीड्ये काङ्क्षाज्ञानक्रियात्मिके सत्त्वे ।
देवि त्वमेव यासि त्वं तच्छक्तित्रयं भवेर्ललिते ॥668॥
तत्त्वप्रधानमेवं ब्रह्माण्डं त्वं शिवे तदाधारा ।
तव चरणशरणमेतद्विश्वं शश्वन्नमोस्तु ते ललिते ॥669॥
तनुषे हि कार्यमखिलं प्रापञ्चिकमम्ब न प्रतिष्ठा त्वम् ।
तनयेषु सुप्रसन्ना बोधय बोधं नमोऽस्तु ते ललिते ॥670॥
तम इव शासत् तमसा रजसा सृष्टेर्भवेः स्वयं तच्च ।
भेदविरहितापि त्वं धत्से कार्याय ते नमो ललिते ॥671॥
तथ्यादन्यद्विश्वं मलिनप्रकतेस्तथा त्वमेवासि ।
भूतान्यष्टाङ्गयुता मातस्त्वं चाष्टमूर्तिरेवासि ॥672॥
तव गुणवर्गे रजसस्तमसा प्रकृतिस्तदेव मिलितासि ।
मलिना हि सा तु शुद्धा सात्त्विकमाया त्वमेव भवसीह ॥673॥
तपसाप्यगम्यरूपे तापससेव्ये तिरोहिताकारे ।
कारयसि लोकयात्रां साष्टाङ्गी त्वं द्वितीयया ललिते ॥674॥
तमसो महसोप्यपरा भवसि त्वं तावदेकिका ललिता ।
सृष्टिं मानयसि त्वं लयकारिण्या त्वया जगत्सुखितम् ॥675॥
तत्त्वादिकाधिकारे तत्त्वादेवास्थितोत्तमा निजया ।
आकृत्यैव हि कार्यं कुरुषे मालिन्यपूर्णया ललिते ॥676॥
तव भवति रूपमेकं ब्रह्मानन्दप्रदा च भवति तथा ।
कविजननुतचरणे त्वं निर्लिप्तासीह ते नमो ललिते ॥677॥
तनुलीलात्मानात्मज्ञानं जगतीह कोटिभेधेन ।
जीवस्त्वबेध आत्मा द्वैतातीतानि ते नमो ललिते ॥678॥
तनुमन्नमवति चान्नात्पुरुषः श्रुतिरप्येवं हि सा समाचष्टे ।
न भवति यदन्नदानादन्यत्वं धत्स एव न हि तस्मै ॥679॥
तनुषे त्वमालयान् सा पश्चाज्जीवान् प्रवेशयेस्तत्र ।
तनुषे रक्षणमम्बा भूत्वा तेषां नमोऽस्तु ते ललिते ॥680॥
तव जीवितस्य चादिर्नान्तस्तेनासि केवलं नित्या ।
त्वमनादिरखिलसम्पद्भरितानन्दात्मिकासि हे ललिते ॥681॥
तनुषु प्राणा अभवन् भूतानां जीवितं तदाशा च ।
ब्रह्म च साक्षी जीवः ब्रह्मैक्यं त्वं करोषि हे ललिते ॥682॥
तव भवति रूपमेकं बृहदस्मान्नाधिकं भवेदेव ।
बृहती त्वमेव माद्याराध्यास्येकासि ते नमो ललिते ॥683॥
तपसि रतानपि यमिनो योजयसि ब्रह्मणि स्वयं जीवान् ।
ब्रह्मण इति स हि भवति ब्रह्माणं भासि ते नमो ललिते ॥684॥
तथ्यप्रिया त्वमेव ब्राह्मी माता नमोऽस्तु ते ललिते ॥685॥
तथ्यं तप इति युगलं पालयसीति त्वमेव वन्द्यासि ।
ब्रह्मानन्दा भूत्वा दद्यास्त्वं मे नमोऽस्तु ते ललिते ॥686॥
तव भवति सत्यशुद्धो बलिरुपहारो यथा सतामेवम् ।
सात्त्विकबलमुदिता त्वं तात्त्विकदृष्टिं जने जने धेहि ॥687॥
तव भवति भाषितानां रूपं तावच्चतुर्विधं भुवने ।
भाषासु नादसारो निहितो भाषात्मिके नमो ललिते ॥688॥
तव देवि कार्यजातं ब्रह्माण्डसैव रक्षणं भवति ।
अगणितसेनासहिता भवसि त्वं नमो नमो ललिते ॥689॥
तव भवति नापि भावो नाभावो द्वन्द्ववर्जिता त्वमसि ।
भावयति ये यथा त्वां भवसि तथा तस्य भावनाकाये ॥690॥
तव करणीया पूजा सुलभा सुमुखी तया भवस्येव ।
ज्ञानं वितरसि सा त्वं सात्त्विकपूजाप्रसादिता ललिते ॥691॥
तव चरणसेवकानां भवति न क्वापि दुर्गतिर्दुर्गे ।
शुभकरि शोभनरूपे मातर्मां पाहि पाहि मां ललिते ॥692॥
तरुणतमालश्यामे श्यामे मोक्षप्रदे तमोहन्त्रि ।
सुलभे भजतां सततं मङ्गलमार्गावलम्बने पाहि ॥693॥
तरुणेन्दुचारुमौलेरीशितुरास्यामतात्मिका भवसि ।
शरणार्थितापहन्त्री त्वं तावद्देवि ते नमो ललिते ॥694॥
तव देवि भूमिराज्यं सुरराज्यं च त्रिमूर्तिवरराज्म् ।
राज्यं ब्रह्मपदाख्यं वितरसि नमतां चतुर्विधं ललिते ॥695॥
तव नीचैरपि राज्यं सप्तविधं भवति चोपरिष्टाश्च ।
एवं चतुर्दशानां राज्ञी त्वं भवसि सर्वराज्यानाम् ॥696॥
तव मन एव हि करुणापरिवतमम्बास्ति सन्ततं तेन ।
सततं प्रकाशसे त्वं मातस्तुभ्यं नमो नमो ललिते ॥697॥
तव चरणकिङ्कराणां हेतोर्धत्सेम्ब पारमेष्ठित्वम् ।
भवति न तव करुणायाः सीमा तुभ्यं नमो नमो ललिते ॥698॥
तथ्यं धनमथ धान्यं विद्यानीतिर्विधेयता ख्याता ।
आवश्यका हि तैस्त्वं भवसि हि लक्ष्मीषु राज्यलक्ष्मीस्त्वम् ॥699॥
तरुणिमकरुणापूर्णे ललिते मातर्मनोज्ञचापधरे ।
सकलश्रीपरिपूर्णः कोशस्तव वर्धते श्रिया साकम् ॥700॥
तरुणतरतुरगनागा पादातं चेति ते रथाश्चेति ।
चतुरङ्गबलमजस्रं सिद्धं तन्नायिका त्वमेकासि ॥701॥
तव पादसेवकानां साम्राज्यं दास्यसि प्रसन्ना त्वं ।
को वा त्वया समानो दाता जातो प्रसूरपारदो ललिते ॥702॥
तथ्यातथ्यविचित्रो लोकस्तथ्ये सदा करोषि रतिम् ।
त्वं भवसि तथ्यनिष्ठा सत्ये सर्वं प्रतिष्ठितं भवति ॥703॥
तव भवति सिन्धुवेलाकाञ्चीधाम्ना क्षितिस्तवैवाम्ब ।
भूमाताप्यसि तेन त्वं ते चरणं सदाऽस्तु मे शरणम् ॥704॥
तव देवि योगदीक्षापेक्षा त्वधिकासि दीक्षिता तेन ।
जलनिधिमधिवससि त्वं तुभ्यं नित्यं नमो नमो ललिते ॥705 ॥
तव रूपमेव गूढं त्वं गुहमातासि तत्तमोहन्त्री ।
गूढात्मरूपिणी त्वं तस्मादेवासि ते नमो ललिते ॥706॥
तव रूपमाश्रितानां ब्राह्मीरूपा त्वमेव वा गुह्या ।
ब्रह्मतयास्यतिगुह्या प्रणवाकारा नमोऽस्तु ते ललिते ॥707॥
तव वर्णमन्त्रमध्ये ब्राह्मी ख्याताऽसि सा विनिर्मुक्ता ।
नानोपाधिमुखेभ्यः सा ब्रह्माणी त्वमेव ननु ललिते ॥708॥
तथ्यात्मिका च विद्या ब्राह्मी तावत् सती शिवा जाता ।
ब्रह्मात्मिकाऽपि तस्मात् तावद्रूपे महःप्ररोह इति ॥709॥
तथ्यान्वितासि सर्वे स्वाचारे सन्ति सज्जना नित्यं ।
सत्सम्प्रदायरूपे माता त्वं जयसि ते नमो ललिते ॥710॥
तथ्यात्मिकासि विद्या विनयस्तुष्टिश्च जगति सौजन्यम् ।
विद्यालक्षणमेतद्दद्याद्विद्या तदम्ब ते करुणा ॥711॥
तव नाम्नि ये तु वर्णाः शुद्धास्सन्ति स्वराश्चतुर्थस्तु ।
बोधयति मुक्तिमार्गं तद्द्रूपा त्वं नमोऽस्तु ते ललिते ॥712॥
तव रूपमेव बोधो नारायण एव बोधको भवति ।
गुरुमण्डलमध्यस्था त्वं हि गुरूणां शिवासि गुरुरूपा ॥713॥
तत्त्वात्मकं हि रूपं तव सा त्वं चासि पालयित्रीह ।
संसारमार्गिणस्तान् गुरुरूपा तत्पदेन मुदितासि ॥714॥
तपसा रविणा शक्त्या सेव्याऽसि त्वं त्रिभिस्तदन्यैश्च ।
बीजाक्षरेण च त्वां वन्दे सोऽहं पुनः पुनश्चैवम् ॥715॥
तरणिरिव तिमिरमम्बा स्यादज्ञानं परस्य हरसि त्वम् ।
तद्द्रूपा त्वं रविणा लक्ष्म्या ललितेर्चिताऽसि ननु शक्त्या ॥716॥
तथ्या विशुद्धरूपा माया ज्ञानप्रदा कला वा या ।
सा त्वं मधुमत्यसि ते ब्रह्मानन्दप्रदे नमो ललिते ॥717 ॥
तनुवरविलग्नलग्नद्युतिमत्काञ्चीनिबद्धकौशेया ।
भूम्याकारे मातर्मामव तुभ्यं नमो नमो ललिते ॥718॥
तनुरेव जीवगेहं तव गुणगणना त्वयापि नो शक्या ।
तेषां माता त्वेका सा भवसि त्वं नमोऽस्तु ते ललिते ॥719॥
तनुषु मतिहृदयभावा निधयस्स्युर्भुवि च वसतां हि ।
निहितास्तथैव रहसि त्वं नित्यं भवसि गुह्यरूपाद्या ॥720॥
तनुरसि शिरीषमृदुला भूरूपायास्तवाम्ब कारुण्यम् ।
तेन त्वयि जागर्ति हि मातस्तुभ्यं नमो नमो ललिते ॥721॥
तत्त्वाभिमानिनी त्वं भूरूपा ते गुरुत्वमपि भवति ।
तत्त्वं प्रियं गुरुत्वं मातस्तुभ्यं नमो नमो ललिते ॥722॥
तव देवि विजयते हि स्वातन्त्र्यं ब्रह्मरूपिणी यदसि ।
तनुषे त्वं निजरक्तां ललिते तुभ्यं नमस्स्वतन्त्रायै ॥723॥
तनुकरि भूमाता त्वं लोकान्वहसि त्वमेव तान् पाहि ।
त्वयि सत्यामिति ललिते नित्यं वन्देम्ब सर्वतन्त्रां च ॥724॥
तापसनिवहे महितास्तथ्यं बोद्धुं ययाचिरे हि हरं ।
गुरुरभवदथ स मुनयः शिष्यास्ते भवति दक्षिणामूर्तिः ॥725॥
तापसपूजितपादे सनकाद्याराध्यमानपदकमले ।
श्रीपतिसायुज्यमपि त्वं दत्से देवि ते नमो ललिते ॥726॥
तापत्रयपरिचारिणि शैवज्ञानप्रदे शुभाकारे ।
ब्रह्मज्ञानानन्दं सा त्वं दत्से नमोऽस्तु ते ललिते ॥727॥
तारयसि सागरात्त्वं नौकास्येका त्वमेव ननु ललिते ।
ज्ञानकले असि सा त्वं तापत्रयमम्ब जहि मदीयमिदम् ॥728॥
तापघ्नानन्दकला भवसि त्वं कामितार्थदात्री च ।
ब्रह्मानन्दसमानो नानन्दस्तं त्वमेव मे देहि ॥729॥
तापसवीरस्स शिवो गुरुरपि जगतां वटद्रुमालम्बी ।
वपुषा स दक्षिणाशावदनस्तद्रूपिणी त्वमेवाम्ब ॥730॥
तापप्रशमकरी सा मूर्तिस्ते सैव दक्षिणा भवति ।
हितयोर्युवयोरेका सापि प्रेमात्मिकाम्ब पायान्माम् ॥731॥
तापसदाक्षिणमूर्तिस्तव भवति प्रेमरूपिणी ललिते ।
भवसि प्रियकरणी त्वं नमतां भजतामनारतं मनसा ॥732॥
तापसहृदयनिवासिनि ललिते ललितेक्षणे सदा नाम्ना ।
पठनश्रवणध्यानैरानन्दसि भक्तभक्तिवश्या त्वम् ॥733॥
तानयुतगानविद्यामानिनि सा त्वं सदसि ते नन्दी ।
गायति नृत्यति चाराच्चारानन्दिनि सदा तव प्रीत्यै ॥734॥
तानैर्गानैर्नटति हि नटराजस्त्वं शिवार्धदेहगता ।
नटराजराजरमणी त्वं मे शरणं नमोऽस्तु ते ललिते ॥735॥
ताम्यद्विश्वक्षेमंकरि करिणीमन्थरे धराधारे ।
मिथ्याजगदाधारे मिथ्यामिथ्याद्वयप्रिया त्वमसि ॥736॥
तावकभुवने तावन्मिथ्यातथ्ये सदा भवेतां हि ।
मायेति कार्यतुल्यं मिथ्याजगदस्थिरं हि ते ललिते ॥737॥
तावककरुणामुक्तिं वितरसि भजते जनाय सा त्वमसि ।
साक्षाद्धि मुक्तिरूपा सा त्वं मां पाहि ते नमो ललिते ॥738॥
तावकलास्याद्विश्वं रमते प्रिया हि ते लास्यम् ।
लीलाताण्डवपण्डितदयिते मां पाहि ते नमो ललिते ॥739॥
तावकमेकं सृजति हि रक्षति रूपं तथैवमपरं तु ।
नाशयति जगदिदं सा लयकरिणी त्वं पुनीहि मां ललिते ॥740॥
तिष्ठसि च त्वं कुपिता स्पष्टवती सुप्तमीश्वरं हि पदा ।
त्वमभूरपत्रपिष्णुर्लज्जारूपे नमोऽस्तु ते ललिते ॥741॥
तिष्ठन्ति देवलोके रम्भाद्या गाननाट्यनिष्णाताः ।
त्वामानमन्ति लास्यैर्गीतैरानन्दयन्ति ननु ललिते ॥ 742॥
तीव्रभवदावराशावमलसुधावष्टिकारिणी त्वमसि ॥
ऐहिकपारत्रिकयोः सुखयोर्दात्री त्वमेव ननु ललिते ॥743॥
तीव्रतरदुरितपादपमेदुरसंसारविपिनदावाग्ने ।
पालितसमस्तलोके लोकेश्वरि ते नमो नमो ललिते ॥744॥
तीव्रतरदैन्यतूले वातूलात्वं भवत्यवश्यमिह ।
ललिते ललितापाङ्गे त्वं गेया मे गतिर्भवती ॥745॥
तीव्रज्वराध्वान्तरवे ज्योतिष्मति चारुलोचनाम्भोजे ।
पायय सुकतसुधां मां मातस्तुभ्यं नमो नमो ललिते ॥746॥
तीव्रतरामताम्शुर्भाग्याम्भोधे त्वमेव भवसि ननु ।
प्रणतानां च शिवे त्वं भाग्यं सकलं प्रवर्धयेरनिशम् ॥747॥
तुलयितुमलमिह न हि ते करुणां यद्भक्तचित्तकेकिघना ।
ललितासि पालयित्री त्वं मातस्ते नमो नमो ललिते ॥748॥
तूलायितं शरीरं ये ये तन्वन्ति घातुकारोहाः ।
दम्भोलिरिव नगानां भवसि हि तेषां नमोऽस्तु ते ललिते ॥749॥
तृणचय इव दवदावो मृत्युद्रुमबृन्दपरशुरस्यम्ब ।
रोगभवरोगवैद्या हृद्यानाद्यासि ते नमो ललिते ॥750॥
तेजस्विनि दयमाने दीने दीने जने जने ललिते ।
मातर्माहेश्वरि मयि कुरु करुणां ते नमो नमो ललिते ॥ 751॥
तेजोवशीयमायुः श्रुत्याशिषमम्ब मे श्रुतामेकाम् ।
भक्तप्रियकरी त्वं दद्या हृद्यां नमो नमो ललिते ॥752॥
तेजस्सर्वाधिक्याज्जडरूपाग्ने क्षुधा महाग्रासा ।
जगदेतदेवमन्ते ग्रासीकत्वात्सि ते नमो ललिते ॥753॥
तैलमिव दीपमेनं जाठरदहनं क्षुधेव वर्धयसि ।
तत्त्वमसि रुद्रशक्त्या कल्पे कल्पे महाशना ललिते ॥754॥
तोषो न ते क्षुधः स्यादन्ते मुञ्चेर्न देवि पर्णानि ।
तेनापर्णा ख्याता पायास्त्वं मां बुधार्चिते ललिते ॥755॥
तौर्यत्रिकमरिनिवहे समरे समरे त्वमेव कारयसि ।
युद्भवसि चण्डिका त्वं चण्डा मा भूर्मयि त्वमयि ललिते ॥756॥
त्वं चण्डमम्ब मुण्डं न्यवधीस्त्वं देवि तामसी वृत्तिम् ।
राजसतामसरूपे नाम्ना ख्याते नमोऽस्तु ते ललिते ॥757॥
तन्द्रालस्यविहीने त्वमसि क्षरविश्वरूपिणी क्वचन ।
अक्षरमसि च ब्राह्मश्रीललिते ते नमो नमो ललिते ॥ 758॥
दयमानाक्षिसरोजे नियमितभुवने त्वशासना देवि ।
प्रभुतायां तव लोकाः शोकविहीना हि ते नमो ललिते ॥759॥
दरहासशोभमाना भवसि त्वं विश्वधारिणी ललिता ।
सुरसुन्दरीसपर्यापर्यायादानमोदमानाम्ब ॥760॥
दमयस्यम्ब समस्तं समदं दैत्यान्वयं स्वयं समरे ।
धर्मार्थकामसौख्यं वितरसि जगते नमो नमो ललिते ॥761॥
दिवि भुवि बलिसदने त्वं भवसि हि सत्त्वरजस्तमो दधती ।
सात्त्विकराजसतामसगुणवृत्यम्बास्तु ते नमो ललिते ॥762॥
दिनकर इव भवसि त्वं ललिते त्रिगुणात्मिका च सत्त्वमयी ।
अनुनयकतनुतिरेषा तोषायाम्बास्तु ते कथञ्चिदपि ॥763॥
दिशसि दयामयि नाकं सुकृतेन त्वं च यज्वना नियतम् ।
विशदधियामपवर्गं सुकृतं ज्ञानोदयोज्वलानां हि ॥764॥
दीनदयालुतया ते मनसि सरोषापि भवसि रिपुवर्गे ।
नानोपाधिविमुक्तस्वान्ते शान्ते नमोऽस्तु ते ललिते ॥765॥
दीपयसि लोकमात्मज्योतिर्दीपेन चान्द्रपुष्पाभा ।
रूपत्रयमपि धत्वा लोकत्रयमम्ब रक्षसि त्वं हि ॥766 ॥
दीपयसि धामनिवहं देहे देहे प्रविश्य चेतयसि ।
ओजोवत्यसि यत्त्वं तेजोरूपे नमोऽस्तु ते ललिते ॥767॥
दीप्तिधरासि धराश्रीदीप्तिकरी त्वं श्रिया समुज्वलसि ।
आप्तव्यमस्ति न हि ते किञ्चन कामप्रदाम्ब सा त्वमसि ॥768॥
दीनशरण्ये होमो जप इति पूजेति कार्यमखिलं च ।
ध्यानं चाग्नौ विहितं यज्ञो यज्ञस्वरूपिणी त्वमसि ॥769॥
दीक्षितकर्म हि यजनं यजनं विष्णुस्वरूपमेवास्ति ।
त्वं भवसि तस्य भगिनी मातर्ललिते प्रियव्रता त्वमसि ॥770॥
दुर्गाऽसि दुर्गतिघ्नी कर्मालभ्यासि तद्दुराराध्या ।
स्वर्गेऽपि भोगदूरा ज्ञाताराध्याऽसि ते नमो ललिते ॥771॥
दुर्वारेन्द्रियपञ्चकविजितानां त्वं सदा दुराधर्षा ।
सर्वेषामपि गर्वं चर्वसि हि त्वं नमोऽस्तु ते ललिते ॥772॥
दूरीकृतभवतापे पाटलिकाकुसुमपाटले चटुले ।
बिल्वमिव पशुपतेस्ते पाटलिकैवाम्ब रोचते देवि ॥773॥
दूरीकुरु मम दुरितं दारय दारिद्र्यदारु मे दह वा ।
महती त्वमसि हि नाम्ना वपुषा मातर्नमो ललिते ॥774॥
दूरं नीचैरुपरि च भवसि हि नीचैरहीशरूपेण ।
धारयसि मेरुनिलया जगतीमप्यम्ब ते नमो ललिते ॥775॥
दूरे मेरावचले पुरममराणां विराजते तत्र ।
मन्दारभूरुहात्तत्पुष्पं प्रियमम्ब ते नमो ललिते ॥776॥
देवैर्मानवदेवैः पञ्चप्राणैस्समर्पिते शक्त्या ।
आत्मस्वरूपिणी त्वं वीराराध्येतिगीयसे ललिते ॥777॥
देवारिवैरिणी त्वं ब्रह्माण्डव्याप्तमूर्तिरेवासि ।
भावयति कोत्र रूपं त्वं भावातीतमम्ब तद्भवति ॥778॥
देवाभिमानिनी त्वं ललिते सम्भवसि देवकार्येषु ।
देवान्वितैव समये विरजा विभ्राजसे सदा विमला ॥779॥
देहेन विश्ववदना सर्वदिगालोकिलोचना भवसि ।
मोहयसि विश्वमेतन्मुह्यसि न त्वं नमोऽस्तु ते ललिते ॥780॥
दैत्यविनाशिनि देवि त्वं चान्तर्यामिनीह भूतेषु ।
प्रेरयसि विषयजाले चित्तं चित्तं हि देहिनां ललिते ॥781॥
दैविकमार्गं गगनं भवती चापूर्य तेजसा महता ।
देवि त्वमेव जयिनी भवसि श्रीदेवि ते नमो ललिते ॥782॥
दैविकसम्पदुपेते श्रुत्या गीते सुराङ्गनागीते ।
प्राणान्वितरसि सा त्वं देहिकृते देवि ते नमो ललिते ॥783॥
दैहिकशक्तिषु पञ्च प्राणाः प्रबला हि ते त्वमेवासि ।
साहसिकसत्त्वरूपे रूपे रूपे त्वमेव ननु ललिते ॥784॥
दोरतिराजितकरभे करभोरूणां करार्चिते महिते ।
दूरीकुरु हृदयान्तस्तिमिरं तिमिरघ्नि ते नमो ललिते ॥785॥
दोर्दण्डखण्डितासुरचण्डबले वह्निमण्डले भुवनम् ।
पालयसि बालकानां शरणं माताऽसि ते नमो ललिते ॥786॥
दौर्गत्यतूलवात्या सत्यायैवावतारिणी त्वमसि ।
स्वर्गापवर्गदात्री त्वं तावद्देविके नमो ललिते ॥787॥
दण्डधरजयिनि राज्यं निहितं त्वया हि सचिवासु ।
श्यामलकादिषु तस्माज्जयसि जगद्राज्यमम्ब ते ललिते ॥788॥
धरणिर्मानवधात्री नीचैः पातालसप्तकं ललिते ।
उपरि व्याहतिमहिता लोकास्तावत्तवाश्रये सन्ति ॥789॥
धत्से त्रीनपि लोकान् देवानां मर्त्यपन्नगानां च ।
उत्सेधभाज एतानातनुषे त्वं नमोऽस्तु ते ललिते ॥790॥
धारयसि विश्वभारं चेमं जैत्रं तवास्ति ननु दैन्यम् ।
राजसतामसरूपा समरेरातीन् निवारयेस्त्वं हि ॥791॥
धिक्कतदानवसेने धुरि चान्यत्रापि वर्तसे त्वं हि ।
न्यक्कृतवैरीभघटी त्रिगुणातीते नमो नमो ललिते ॥792॥
धीमति धुरि सा नृत्यं मह्यं भवसि बोधदष्ट्यैव ।
तेन परापररूपा ख्यातासि त्वं नमोऽस्तु ते ललिते ॥793॥
धीशक्त्यगम्यरूपे ज्ञानानन्दामतात्मरूपधरे ।
लोकब्रह्माकारे ज्ञानसुवेद्ये नमोऽस्तु ते ललिते ॥794॥
धुरिते सुखिनो जगति सुखजीवब्रह्मणोस्समं च सताम् ।
भूतेषु चात्मनोस्त्वं नियतिस्तुभ्यं नमो नमो ललिते ॥795॥
धूर्जटिपत्नि नमस्ते धात्रि स्तवनप्रिये सदानन्दे ।
आर्जवमातनुषे त्वं भक्तजने ते नमो नमो ललिते ॥796॥
धतिधात्रि जीवजगतां षोडशसङ्ख्यागुणान्विता भवती ।
वर्णानां च कलानां ऋतवत्यास्ते गणो नमो ललिते ॥797॥
धेनुरसि सुमानसानां सा साध्वानन्दप्रदायिनी महिता ।
आनतसज्जनसुखदा साध्वी त्वं देवि ते नमो ललिते ॥798॥
धैर्यस्थैर्ययुतं मे कुरु हृदयं कामरूपिणी सततम् ।
पीतासवे सवेलामेतां पायाः क्षितिं नमो ललिते ॥799॥
धौताम्बरपरिधाने जातानन्दे कलानिधे सततम् ।
कार्याकार्यविदं मां कुर्यास्तुभ्यं नमो नमो ललिते ॥800॥
नळिनाक्षि वेदमातः त्वत्तः काव्यप्रिया च वागुदिता ।
काव्यकलानां ज्ञानं जनय मयि त्वं नमोऽस्तु ते ललिते ॥801॥
नवरसमयमधुराक्षरपदरचनाशावती प्रसन्ना च ।
भवसि हि रसरूपा त्वं रसनारङ्गे रमस्व मम ललिते ॥802॥
नवरसनिधिरसि नादानन्दिनि सर्वत्र वर्तमानेम्ब ।
भवभवजनिमज्जनना त्वं मे शरणं नमोऽस्तु ते ललिते ॥803॥
नतगात्रि गोत्रकीर्तिं वर्धयसि त्वं निजाश्रितानां च ।
श्रुतिवचनगीयमाने पुष्पाङ्गी त्वं नमोऽस्तु ते ललिते ॥804॥
नरसुरकुलपरिपालिनि चारुचरित्रे पुरातनी देवि ।
सुरनरकिन्नरदानवधीराधारे नमोऽस्तु ते ललिते ॥805॥
नरहरिसरसिजसम्भवनिटिलाक्षानप्यसूत या देवी ।
सरसिजवदना पूज्या सा त्वं जगतां नमोऽस्तु ते ललिते ॥806॥
नरहृदयभाववीचीरवकारयसि त्वमेव सङ्कल्पम् ।
परमिह साफल्यं ते करुणामालम्बतेम्ब हे ललिते ॥807॥
नलिनदलायतनयने सुलभदयापाङ्गबन्धुरे ललिते ।
जलरुहनयनाराध्ये मातर्मां पारिते नमो देवि ॥808॥
न हि रविशशिताराभा विद्युद्दीप्तिश्च साम्यतामेति ।
यस्मादधिकस्तेजोराशिस्त्वं देवि ते नमो ललिते ॥809॥
नायास्यति तुलनां ते ज्योतिश्चात्येति यत्त्विषस्सर्वाः ।
यत् स्फुरति दहनराशेर्धामाधिकमस्ति तत्त्वमसि देवि ॥810॥
नारायणि नरकार्णवकारिणि परमाणुरूपिणि श्रीशे ।
तारय मां भवजलधेर्ललिते मातर्नमोस्तु ते सततम् ॥811॥
नारायणमदनान्तकसरसिजभवधाम तेजसातीते ।
स्वीयेन सर्वमान्ये ब्रह्मानन्दे नमोऽस्तु ते ललिते ॥812॥
नानायुधहस्तापि त्वं भवपाशच्छिदं करे पाशम् ।
मानिनि धारयसीदं युक्तं ते भाति ते नमो ललिते ॥813॥
नानापापविधायकमज्ञानं पाशमीशरिपुधार्यम् ।
द्वयमपि नाशयसि त्वं सकृदपि नमतां नमोऽस्तु ते ललिते ॥814॥
नाशयसि मन्त्रशक्तीरखिलास्त्वं चाभिचारकैर्विहिताः ।
कितवानपि तान् सुजने कैतवकत्यं वितन्वतां ललिते ॥815॥
नानावताररूपा रूपातीतापि तान् गुणानेव ।
त्रीनादाय जगत्यै जयसि हि मातर्नमोस्तु ते ललिते ॥816॥
निरवद्यहृद्यचरिते निर्गुणरूपेम्बिके निराधारे ।
शरणागतपरिपालिनि दीनं मां पाहि ते नमो ललिते ॥817॥
नित्या त्वमसि न भुवनं तद्भुक्त्वा वाविनाशिपुष्पफला ।
तप्यसि देवानन्दे ब्रह्मणि हंसेन सारसे रमसे ॥818॥
नीरजगन्धिनि नित्यं मुनिमानसहंसि हंसकुलमुदिते ।
वारिदबन्दसवर्णे हेमच्छाये सिताङ्गि मां पाहि ॥819॥
नीतिपथसत्यमार्गे ब्रह्मपदं चानुवर्तमाना त्वम् ।
मातरसि सत्यरूपा गमयसि साधून् निजाध्वना सा त्वम् ॥820॥
नीतिमनुसरति लोको नीतिं सत्यं च पालयन्नेव ।
याति सुखमिह परत्र च नो चेन्मातस्त्वमेव दण्डयसे ॥821॥
नीलापाङ्गतरङ्गै रक्षितभुवने जगत्त्रयीजननि ।
बालारुणवरवसने रक्ष त्वं मां नमोऽस्तु ते ललिते ॥822॥
नुतयो भवन्ति वाचो मातस्ते तेन केनचिद्विधिना ।
इति मतमनुचिन्त्यामूर्ललिते वाचस्तव प्रियास्सन्तु ॥823॥
नुतिमेवार्हसि नित्यं सत्यं साध्वीत्वपालनं स्त्रीणाम् ।
इति ननु सत्यसि नाम्ना सत्यधना मातरात्मचरितेन ॥824॥
नुतिपरवचनानन्दिनि शतधतिशक्त्यैकशक्तिरेवासि ।
नुतशक्तशक्तिरूपे सति सत्यब्रह्मरूपिणी त्वमसि ॥825॥
नूतनजलधरकेशे नाशितभुवनार्तिसंभवक्लेशे ।
मातरुदारमनस्के पातय मयि दृष्टिमाततां कलये ॥826॥
नकुलं देवकुलं ते सन्ततिरेवाम्ब दैत्यकुलमेवम् ।
सकलकुलानां जननी त्वमसि हि तुभ्यं नमो नमो ललिते ॥827॥
नेह तवैकं कार्यं गुरुतरमस्त्यम्ब तेन बहुरूपा ।
भवसि जगत्त्रयजननी पदवी गुर्वी हि ते नमो ललिते ॥828॥
नैतिकपदनिरता ये ते त्वामर्चन्ति विधिवदेवाम्ब ।
ज्ञानधना अन्येषां हितमिह कुर्वन्ति ते प्रभावेण ॥829॥
नोदयसि बीजसारं तेनैवोदेति पादपस्तु फले ।
वेदमयि प्रविशसि त्वं भूतानि त्वं चतुर्विधानि चातनुषे ॥830॥
नौरसि भजतां सततं तारयितुं जननमरणवाराशिम् ।
सततं रमयसि तानिह चतुरे चण्डि त्वमेव मां पाहि ॥831॥
नन्दीशवन्दिताङ्घ्रे नियमायत्तां करोषि जगतीं तु ।
आज्ञासि तेन सर्वे निजनिजकार्ये रतास्सदा ललिते ॥832॥
नन्दयसि नन्दनानां हृदयानि त्वं त्वया नियुक्ता ये ।
कुर्वन्ति नैजकार्यं पवनः पवतेग्निरुज्वलत्यनिशम् ॥833॥
नन्दयतीन्दुः पवनः पवते भानुः प्रबोधयत्यखिलान् ।
आज्ञानुवर्तिनस्ते श्रुतिरेवात्र प्रमाणमम्ब ननु ॥834॥
परमाधारे जगतां जगदीश्वरि जननमरणभीतिहरे ।
प्रकटितविश्वाकारे मातस्तुभ्यं नमो नमो ललिते ॥835॥
परवति जगति दया ते दुरितहरे क्रौर्यमिव तु ते चित्रम् ।
जगदीश्वरि ते चरितं साधुं कुरु मां पुनीहि ते तनयम् ॥836॥
पवनान् पञ्चासूनपि पञ्चाप्यवसि त्वमिन्द्रियाण्यम्ब ।
विनियोजय तान्युचिते कार्ये त्वं नैजचेतनानम्ब ॥837॥
पवनानुकूलजीवाः काङ्क्षापेक्षोदिताक्षराण्येव ।
पीठानि तेम्ब तस्मात् पञ्चाशत्पीठरूपिणी त्वमसि ॥838॥
पवनादिशक्तयो वा हरिपुरहरपद्मजादिशक्तिर्वा ।
त्वां तु नियन्तुमशक्ता निर्लेपा त्वं विराजसे ललिते ॥839॥
पर्वतराजकुमारी त्वमसि हि जगदीश्वरी विविक्तस्था ।
चर्वितराजसतामसगर्वे शर्वे भवेह मयि सदया ॥840॥
पावनगात्रि मुमुक्षोर्मुक्तिं दत्सेसि वीरमाता त्वम् ।
अज्ञाननाशिनी त्वं रक्षसि वीरान् महीतले ललिते ॥841॥
पावय मामयि ललिते पावकजलवायुभूमयं भुवनम् ।
पावनमार्गे नियतं वियतस्त्वमेव भवसि ननु ॥842॥
पावितनतजनहृदये डाम्भिकजनगर्वचर्विणी त्वमसि ।
मुक्तिप्रदा मुकुन्दा योजय जनहृदयपङ्कजान्यम्ब ॥843॥
पावनतरपदरूपे निर्वाणानन्दरूपिणी ब्राह्मि ।
देवि दयमयि गिरिजे कातरतां मे निवारयेर्ललिते ॥844॥
पितपितपितजनमूले मूलप्रकृतेश्च मूलरूपा त्वम् ।
आकाराणां मौलिकविग्रहरूपासि तत्त्वतो ललिते ॥845॥
पितवनचरशिवदयिते भावानामप्यनेकरूपाणाम् ।
बोधवति भावगम्ये बहुभावस्थे नमोऽस्तु ते ललिते ॥846॥
पीननितम्बिनि पीनस्तनभारानम्रचपलतनुवल्ली ।
पीतासवारुणाक्षि क्षरमपि जगदवसि करुणया ललिते ॥847॥
पुण्यवति पुण्यदात्री त्वमसि हि भवरोगनाशिनी जननी ।
भवचक्रचालयित्री चक्रेश्वरि चक्रधारिणी त्वमसि ॥848॥
पुण्यविवर्धकवेदच्छन्दस्सारान्विते कवीन्द्रनुते ।
पुण्यविवर्धिनि नमतां मातस्तुभ्यं नमो नमो ललिते ॥849॥
पूताम्नायमतानां विविधविचारान् विविच्य बोधयताम् ।
शास्त्राणामपि सारस्त्वं तावद्भवसि देवि कल्याणि ॥850॥
पृथगवनसारदानाद् मन्त्राः पात्रैस्तु गोपनीयासि ।
तद्वस्तुरूपिणी त्वं गीताचार्यादिभिश्च गीतासि ॥851॥
पेलवताङ्गे कार्श्यं तव तु वलग्ने स्तनद्वये जघने ।
विपुलत्वमतिमनोज्ञं परिणाहस्ते मनोहरा त्वमसि ॥852॥
पैतकसम्पदिवान्ते सुकतवतां कल्पवल्लरी त्वमसि ।
परमोदारा भवसि हि वृद्धिमतीहाम्ब देवि हे ललिते ॥853॥
पोतेषु पोतवाहानमितश्रीकीर्तिसौख्यसम्पन्ना ।
अन्यानपि तन्वाना ललिते चोद्दामवैभवा जयसि ॥854॥
पौर्णिमशशधरवदने नानावर्णस्वरूपिणी त्वमसि ।
अरुणश्यामलधवलप्रीतिमती त्वं विराजसे ललिते ॥855॥
पङ्कजषट्कविहारिणि जन्मजरामरणतप्तलोकानाम् ।
विश्रान्तिदायिनी त्वं शाश्वतसुखदासि वन्दिनां ललिते ॥856॥
पाण्डित्यवेद्यरूपे श्रुत्यन्तोद्घुष्टतापसा भोग्ये ।
पाण्डित्यदात्रि भजतां मातस्तुभ्यं नमो नमो ललिते ॥857॥
पिण्डीकृतच्छटान्वितभुवने पृथगात्मतातनुदप्ते ।
शान्तिमती च कला त्वं खप्रणवाधःस्थितासि गुहजननी ॥858॥
फलभारनतलताङ्गी मातङ्गी त्वं मदालसा नित्यम् ।
फलदलचरुसुमपूजा सात्त्विकरूपा तु रोचते तुभ्यम् ॥859॥
फलिनीलताफलान्विततरुरुल्लसति यथाम्ब त्वं लससि ।
अलघुकपामयि मयि ते करुणास्तां देवि ते नमो ललिते ॥860॥
फाले चन्द्रकलापे शोभावृद्धिं करोति गम्भीरे ।
मौलीन्दुरिन्दुशोभां वर्धयति त्वं प्रसीद मयि ललिते ॥861॥
बत बत गगनान्तःस्था गम्भीरा गर्वितासि सा नित्यम् ।
अहमिति सकलं वेत्सि त्वं ननु सर्वत्र पूर्णरूपतया ॥862॥
बलवत्येव कला ते नादो बिन्दुस्ततोधिकस्तेन ।
गानप्रियासि सा त्वं प्रणवाकारा हि सन्ततं ललिते ॥863॥
बालादिशक्तिसेनापालितभुवने मनोहरध्याने ।
लीलामयि मयि करुणां सततं कुरु देवि चञ्चलापाङ्गी ॥864॥
बाढं प्रकाशमाने कैतवरहितेम्ब कल्पनारहिते ।
गूढार्थमयि मयि त्वं देवि दयेथाः सदैव दयनीये ॥865॥
बालेव भासमाना त्वं कान्ता पापहारिणी भवसि ।
लीलाकल्पितभुवनेश्वरि भुवनमङ्गले ललिते ॥866॥
बालाराध्ये तपसा युक्ते बालेन्दुभासिते ललिते ।
लीलाताण्डवपण्डितदेहार्धं प्राप्तवत्यपि त्वमसि ॥867॥
बाधा अतीत्य सकला बाधाक्रान्तान् विलोक्य यजमानान् ।
आधिविमुक्तान् कुरुषे त्वमिदं भुवनं च पालयेरेव ॥868॥
बाधावारिणि जगतां क्षेमङ्करि कारणेभ्य उन्मुक्ते ।
साधुजनगीयमाने सततं मामम्ब पालयेरेव ॥869॥
बुधविबुधवन्द्यमाने कामरतिप्रीतमानसे सदये ।
कनकाञ्चितताटङ्के मातर्नतिरस्तु ते सुरैर्गिते ॥870॥
बोधयसि लोकयात्रां दाक्षिण्यं त्यागशीलतां सहजाम् ।
भीतिमिह कति विदुर्वा जाने नाहं प्रबोध मयि ललिते ॥871॥
बोधविहीना बाला वयमिह बोधप्रदीपदानेन ।
अस्मानुद्धर लीलाविग्रहधारिणि मयि प्रसीद शिवे ॥872॥
बोधकरूपिणि जगतां जननमतिद्वन्द्वशृङ्खलारहिते ।
नाशातीते मातः त्वं नः कामं प्रदेहि हे ललिते ॥873॥
बन्धूककुसुमशोभे शोभेथास्स्वाङ्गसंपदस्सततम् ।
सौन्दर्यसंपदेका रमयति जगतीं तवाम्ब हे ललिते ॥874॥
बन्धनशतमिह भुवने तैस्त्वमखिलानिहैव बन्धयसि ।
सिन्धौ संसाराख्ये घातयसि त्वं कुतो न जानेम्ब ॥875॥
भजतामनन्तसुखदा वाजिवरूथादिसम्पदा कलिता ।
भुजनिहितलोकभारा राजीवाक्षि त्वमेव ननु ललिते ॥876॥
भजतामपि सुखदा त्वं सुजनानां च प्रसीदसीहैव ।
विजयत एव समाधिः समतारूपस्त्वयीह हे देवि ॥877॥
भक्तिप्रियासि सा त्वं प्रीतिस्ते देवि देवताख्याता ।
युक्तिकतपूजनानां पूजा ते रोचते सदा ललिते ॥878॥
भयसाध्वसरहितानां स्वाचारेण निजेच्छया चरताम् ।
जयदा सुखदा न भवसि नीचानां दुष्टनाशिनी त्वमसि ॥879॥
भवमुक्तिमिच्छतां तु श्रेयोहेतुर्हि कर्मवेदमतम् ।
देवर्षीपितगणानां करुणामादाय भवति मनुजो हि ॥880॥
भवति जगत्त्रयमेवं वेदत्रयमिष्टकार्यसिद्धिकृते ।
सन्ध्यात्रयमनलानां त्रयमिति देवि प्रसिद्धमिह ललिते ॥881॥
भवसागरपतितानां त्रयमुद्धरणीयमापदां भवति ।
भवसि त्रयी त्रिवर्गा सर्वाधारा त्वमेव ननु ललिते ॥882॥
भवसि त्रिस्थानस्था देवि त्वं त्रिपुरपालिनी चासि ।
भवति ब्रह्म तु मूलं तत्त्वं तत्त्वं तवेदमेव ननु ॥883॥
भवसि हि निरामया त्वं भुवनं कुरुषे निरामयं सततं ।
भवति न कोप्याधारो भवभवने ते त्वदर्थमपि ललिते ॥884॥
भवसि भुवनावलम्बो लम्बोदरकार्तिकेयजनयित्री ।
भुवनत्रयपरिपालिनि कम्बुग्रीवा त्वमेव मे जननी ॥885॥
भवसि हि रममाणा त्वं ज्ञानानन्दस्वरूपिणी ज्ञाने ।
स्वीये स्वस्मिन्नेवं स्वयमिव विभ्राजसे श्रिया ललिते ॥886॥
भवशोकनाशिनी त्वं सजसि सुधासारमादरेणाम्ब ।
पालयसि तेन भुवनं भुवनम्भरि मे भवेः कपालम्बा ॥887॥
भयमयजनिमतिजलधौ मग्नानामवनपण्डिता त्वमसि ।
भवदावकवलितानामार्तानां पालिनी त्वमेवाम्ब ॥888॥
भवपङ्कराशिमग्नानुद्धर्तुं त्वं हि पण्डिता भवसि ।
भवपथगत्या लग्नानुधृत्य त्वं निवारयेरार्तीः ॥889॥
भवपाशयन्त्रितानां भुवि बहवस्सन्ति हितकराश्च मखाः ।
भवभयनाशिनि ललिते भवसि हि यागप्रिया त्वमेवेह ॥890॥
भवसि त्वमम्ब ललिते दैवीसम्पत्प्रदा च यागकरी ।
भवसि च रुद्राणी त्वं भक्तानां सकलसौख्यदानकरी ॥891॥
भवसि च यजमाना त्वं भुवनानामेकनायिका च त्वम् ।
यजमानजीवशक्तिस्त्वमसि हि लोकपालिनी च त्वम् ॥892॥
भवसि जगत्त्रयमूढ्वा धर्माधर्मौ त्वमेव धारयसि ।
धर्मा भवन्त्यनेके धर्माधारे धराधरोद्भूते ॥893॥
भवसुखरूपिणि ललिते दहनः पवनोपि विधिहरिप्रमुखाः ।
अमरा धनमिच्छन्ति त्वं धनराशेरधीश्वरी भवसि ॥894॥
भवसि धनधान्यसम्पद्वृद्धिकरी त्वं समस्तसुखदात्री ।
भुवनप्राणप्राणे प्राणाधारा शिवस्य भर्तुरपि ॥895॥
भवति हि जातिः प्रथमं पश्चाद्वर्णा भवन्ति तेषु च ते ।
विप्राः प्रथमे ललिते सा त्वं विप्रप्रियाऽसि गुहजननि ॥896॥
भवसि ननु विप्ररूपा विप्रैः संसेविता च नियमेन ।
विप्रप्रियमातिष्ठेस्त्वं तावद्देवि धर्ममर्मज्ञे ॥897॥
भवभवसम्भवजन्तुभ्रमणं कारयसि मायया बध्वा ।
सृष्टिस्थितिलययातायातानां त्वं तु हेतुरेवासि ॥898॥
भगवति विश्वग्रासे ग्रासे ग्रासे प्रमोदविकचाक्षी ।
जगदीश्वरि शिवमाये कज्जलवर्णे त्वमम्ब मां पाहि ॥899॥
भगवति विद्रुमवर्णे जगदानन्दप्रदेम्ब शुभवर्णे ।
अगणितमहिमापूर्णे नानाभूषाप्रियेम्ब मां पाहि ॥900॥
भगवति वैष्णवि कमले करधतकमलेम्ब सात्त्विकी माये ।
जगदवनकोविदे त्वां वन्दे मां पाहि हेमसमकाये ॥901॥
भगवति विश्वव्यापिनि नगधरविष्णुस्वरूपिणी त्वमसि ।
जगदागमलीलानुगताकारे नमोम्ब ते ललिते ॥902॥
भासारुणसितकालाकारे मूर्तित्रयान्विते वरदे ।
हासद्युतिविकचास्ये श्रीले मां पाहि कुन्ददति ललिते ॥903॥
भानुसुधाकरनयने जननविहीने जनार्दनाधीने ।
मानवतीडितरूपे जननि रमे पाहि मां दयाधीने ॥904॥
भाग्यान्वितेम्ब सृष्टेर्मूलस्थानायिते श्रीया कलिते ।
बुद्धिब्रह्माकारे कूटस्थे ते नमो नमो ललिते ॥905॥
भाग्यप्रदेम्ब मायायोग्यगुणाकारवर्णवृत्तिधरे ।
विश्वाकारे धीरे विश्वेश्वरि ते नमोऽस्तु ते ललिते ॥906॥
भारतभाग्यविधात्री वीरपरीता त्वचलपतिपुत्री ।
वीरसभा ते सततं माता रोचेत रुचिरतरगात्रि ॥907॥
भाग्यायत्तार्चा ते भक्तायत्ता त्वमम्ब भवसि ननु ।
भाग्यं भक्तिं च विना कथमर्चेयं प्रसीद मयि जननि ॥908॥
भाग्यप्रदापि सा त्वं निष्कामा सुकृतदुष्कृतै रहिता ।
जगतीति ते जगन्नो भवति भवायैव ते नमो ललिते ॥909॥
भावे स्थितासि या त्वं जन्तूनां भवसि भावभेदज्ञा ।
सा वेदशास्त्रगम्या गानज्ञे देवि नाट्यतत्त्वज्ञे ॥910॥
भारति गानरसज्ञे नादाकारे द्विधासि नृत्यविधौ ।
वरततमुख्यैर्वाद्यैरुल्लसिते देवगायकैः कलिते ॥911॥
भारति नादमयी त्वं हृदये नादोप्यनाहतो भवति ।
बहिराहतनादस्त्वं ललिते नादस्वरूपिणी त्वमसि ॥912॥
भारत्यनाहताख्यो नादो हृदये त्वमेव नादमयी ।
चारुतरनादरूपा दृश्यश्रव्यात्मना त्वमेवासि ॥913॥
भावो देहे सोऽहं मतिरित्यज्ञानसम्भवा त्वं तु ।
भौतिकमस्थिरमिति सद्भावं बोधयसि ते नमो ललिते ॥914॥
भिदुरं विपदचलानां त्वमसि च विपदो जहि त्वमस्य मम ।
शक्ता द्रष्टुमसि त्वं प्रज्ञादृष्ट्या त्वमम्ब मां पाहि ॥915॥
भिद्यदरविन्दगर्भे रम्ये या भाति कर्णिका सेव ।
मूले सहस्रपत्रे बिन्दुस्सोहं त्वमेव ननु लससि ॥916॥
भीषणभवदावघने सूक्ष्मस्थूलाख्यतत्त्वनिर्मुक्ते ।
भूषणभूषिणि कोकिलवाणि श्रीवाणि ते नमो ललिते ॥917॥
भुवनमवतीर्य जेत्री भावाधीना स्वकीयमूलमपि ।
विस्मृत्य पातुकाः स्युस्तत्त्वमयि त्वं समुद्धरेरस्मान् ॥918॥
भुवनाधीश्वरि तत्त्वं पफभावार्थप्रबोधिनी त्वमसि ।
ज्ञेयं ब्रह्म च सा त्वं विप्रज्ञेया त्वमेव ननु ललिते ॥919॥
भुवने वेदाः स्तवनं कर्मज्ञानं च गानविद्यां च ।
प्राहुस्त्रिविधाः साम्नां गानं प्रियमम्ब ते सतां भवति ॥920॥
भुवनत्रयपरिपालिनि माता पीयूषरूपिणी भवसि ।
ब्रह्मस्वरूपिणी त्वं रमय मनो मे नमोऽस्तु ते ललिते ॥921॥
भूतेशवल्लभा त्वं भूतानां पालने रता सततम् ।
भौतिककष्टमशेषं शमय त्वं मे कुलोकसञ्जातम् ॥922॥
भूतानामसि माता विश्वेशप्रेयसी त्वमेवासि ।
भूतानुषङ्गिणी त्वं त्वामहमीडे नमोऽस्तु ते ललिते ॥923॥
भेषजमसि हि भवामयभाजां संसारतरणनौका त्वम् ।
दोषं मर्षय मातर्मामकमम्भोजलोचने ललिते ॥924॥
भैरवि दक्षिणमार्गे वामपथे वा त्वमेव भवसि ननु ।
सव्यापसव्यमार्गद्वयमप्याश्रित्य राजसे सततम् ॥925॥
भोगीशभूषजाये सर्वापन्नाशकारिणी त्वमसि ।
योगीशयोगगम्ये स्वस्था नित्यं त्वमेव ननु भवसि ॥926॥
भोगीशकेशपाशे प्रेममयी त्वं सदाश्रया भवसि ।
प्रेमाम्ब तेऽस्तु नित्यं मयि ते नित्यं त्वमेव मां पाहि ॥927॥
भौतिकभोगविरक्ते ब्रह्मणि परमे मुदा सदासक्ते ।
निजभुवनावनासक्ते मातर्मां पाहि देवि शिवशक्ते ॥928॥
भम्भरवेणि शुभाङ्गि त्वं भवतापं निवारयेः कृपया ।
अम्भोरुहदलनयने शुम्भमदघ्नि त्वमम्ब मां पाहि ॥929॥
भञ्जय मम हृदयारीन् रञ्जय हृदयं प्रदेहि मम शान्तिम् ।
अञ्जलिराबद्धस्ते मातर्मां पाहि ते नमो ललिते ॥930॥
मनसा स्मरामि देवीं जनय ज्ञानं मयि त्वमेव वरम् ।
सोऽहं भावेनार्यैः सेवितचरणे नमोऽस्तु ते ललिते ॥931॥
महितं चैतन्यं ते दिव्यार्घ्यं भवति दिव्यकुसुमं च ।
नित्योदयान्विता त्वं भवसि हि जननि त्वमेव मे शरणम् ॥932॥
मार्ताण्डारुणमूर्ते मूर्तीभूताश्रितामितप्रीते ।
जातानेतानवतादस्मान् भवानि हरदयिते ॥933॥
मातस्त्वमुत्तराशासेव्या साध्यासि बोधमार्गेण ।
ख्याताम्नायविधानैराराध्या च त्वमेव भवसि ननु ॥934॥
मानसमलमोचयिता ललितापाङ्गस्तवाम्ब मनुजानाम् ।
सा त्वं जगदाकारा भवसि ब्रह्मासि पाहि मामेनम् ॥935॥
मितभुवनेम्ब भवाब्धेस्तरणं कैवल्यमेव ननु धत्से ।
यदि दयसे त्वमनर्घां कुरु करुणां ते शिवेम्ब मयि वत्से ॥936॥
मीनाक्षि नादरूपे श्रुतिवचनैरेव मोदमानाम्बा ।
क्लेशभयनाशिनी त्वं नुतिलक्ष्या भवसि जगदम्ब ॥937॥
मुक्तिप्रदेम्ब ललिते नुतिसरितस्त्वां प्रयान्ति सिन्धुमिव ।
नुतिपरवचसाराध्ये मय्यस्तां ते कृपा सदा देवि ॥938॥
मुखरीकृतकलवीणे श्रुतिततिसंस्तूयमाननिजविभवे ।
अखिलाम्नायविदर्चामाददती त्वं विराजसे ललिते ॥939॥
मूर्खं निपुणं कुरुते करुणापाङ्गस्तवाम्ब हे ललिते ।
मामपि करुणापाङ्गैर्निपुणं कुरु मे त्वमेव ननु शरणम् ॥940॥
मृदुहृदयासि सदा त्वं मातरुदारासि नायिका जगताम् ।
विदुरखिला विबुधास्त्वां सदयं मामम्ब पालयेस्सततम् ॥941॥
मेधाविनी त्वमेवं मेधाविनमम्ब कुरु दयादृष्ट्या ।
बोधय बोधममोघं पालय ललिते कृपासुधावृष्ट्या ॥942॥
मैत्रादिवासनानां सत्यं सुलभं भवत्यशेषाणाम् ।
मङ्गलमूर्ते ललिते शृणु कृपया मे स्तवात्मिकां वाणीम् ॥943॥
मोदयतु मानसं ते मातर्जगतां च मामकीर्वाणीः ।
सादरमाकर्णय ते नुतिमेतां मे त्वमम्ब कल्याणी ॥944॥
मौढ्यं वारय दार्ढ्यं वर्धय वचनेषु मम दयाभरिते ।
आढ्यं सुरसम्पत्या कुरु मामम्बेष्टसम्पदा कलिता ॥945॥
मञ्जुलगात्रि सवित्री विश्वेशा त्वं च सकलजगतोस्य ।
धात्री भवसि हि तन्मां पालय दोषान् ममापि निर्वास्य ॥946॥
अञ्जलिरयि ते रचितो मां पायाः साधुहत्सरोहंसि ॥947॥
मञ्जुलवदनसरोजे ब्रह्मानन्दात्मिकेम्ब सुरमान्ये ।
सङ्कल्परूपिणी त्वं जयसि सदा हंसगामिनी ललिते ॥948॥
मञ्जुलमम्बरमम्बरव्योम भवत्केीशपाश एवास्ते ।
मञ्जुविमानस्था त्वं जयसि सुरस्तोमवन्दिता जगति ॥949॥
यक्षेशमित्रजाये माधुर्यं नास्ति मे गले गातुम् ।
दक्षो नाहं स्तोतुं कथमहमाराधयामि वा भवतीम् ॥950॥
यमजयिनि यामिनीशप्रोल्लसदास्ये दयासुधाजलधे ।
मर्षय मम यदि दोषा मातः पायाः सदा त्वमेवेमम् ॥951॥
यामवतीशसमानं भवदाननमम्ब हरतु मम पापम् ।
व्योमचरवरविमाने सञ्चरसि त्वं हितं विधातुमिह ॥952॥
याथार्थ्यमम्ब विश्वं रक्षसि या त्वं तदेनमपि सा त्वम् ।
मामवसि चेति मन्ये नम इत्यम्ब ब्रवीमि ते मनसा ॥953॥
याचे तथापि सोऽहं वाचा मनसा सदाम्बिकां भवतीम् ।
वाचामगोचरा त्वं यद्भद्रं मे तदेव वितरेति ॥954॥
यागाः पञ्च च पञ्च त्यागायत्ता हि पञ्च वेदोक्ताः ।
पञ्चाग्निहोत्रमुख्याः पाराध्याश्चापि सन्ति ननु सुखदाः ॥955॥
यागेषु चाग्निहोत्रप्रमुखाः सन्त्येव बहुविधा यज्ञाः ।
इष्टविशेषतया ते रोचेतेयं स्तुतिस्तु मख एव ॥956॥
योगाधीश्वरि शङ्करि रागद्वेषादिभावनारहिते ।
भो गगनाम्बुसमीरानलपञ्चकमञ्चकशायिनी त्वमसि ॥957॥
योगे यागे ध्येया ब्रह्मानन्दात्मिका त्वमेवैका ।
पञ्चानामसि नाथा भूतानां भूतधात्रि हे ललिते ॥958॥
यौगिकवैदिकपूजाविविधास्सन्ति प्रकाममुपचाराः ।
भौतिकतन्मात्रकतापूजा प्रीत्यै भवेत्तवैकाम्ब ॥959॥
यन्त्राधारा भवसि त्वमपि सुवर्णाक्षराङ्कमयमेव ।
यन्त्रमनेकविधं ते मन्त्राङ्कं देवि भवति ननु ललिते ॥960॥
रचयसि चित्रमयं त्वं भुवनं मायाख्यकुञ्चमादाय ।
शाश्वति शाश्वतसुखदे मायासाम्राज्ञि ते नमो ललिते ॥961॥
रमयसि शम्भुमदभ्रं कमनीयाकारविभ्रमैरम्ब ।
क्षमयार्चितासि मातः शाम्भवि तुभ्यं नमः क्षमाधारे ॥962॥
रजसा सजसि हि भुवनं रक्षसि भूतानि देवि सत्त्वेन ।
अजहरिरूपधरा त्वं भवसि धराकारधारिणी ललिते ॥963॥
रथमकरोत् त्रिपुरेभ्यः पृथिवीं यस्ते पतिः शिवो ललिताम् ।
कथमवसि त्वमसूस्त्वं शिवमावोढुं किमम्ब न त्रातुम् ॥964॥
राजा भूमिधराणां तेजोराशिः सुतासि ननु तस्य ।
राजीवाक्षि दयामयि मातर्मां पाहि सन्ततं ललिते ॥965॥
राक्षसकोटिविमर्दिनि सकलैश्वर्यप्रदायिनी त्वमसि ।
साक्षिण्यपि ननु जगतां श्रीकरि मातर्नमोऽस्तु ते ललिते ॥966॥
रिपुदमनमात्मशक्त्या निपुणा समरे विधाय कृतकृत्या ।
सा त्वमसि देवकार्ये धर्मिण्यार्ये त्वमेव ननु ललिते ॥967॥
रीतिरवेद्या ननु ते निपुणैरपि धर्मवर्धिनी त्वमसि ।
मातर्लोकातीते विपदः सर्वा निवारय त्वं मे ॥968॥
रुद्रप्रियकरि रुद्रे भद्रमुखि त्वं मयि प्रसीद शिवे ।
भद्रं कुरु कल्याणि त्वं विनयो मे कृतोऽयमेव ननु ॥969॥
रूक्षासि रिपुषु नित्यं वृद्धिश्चासीन्दुमण्डले सुजने ।
पक्षीव हृदयभावे साक्षिण्यसि मे निधेहि मां सुजने ॥970॥
रेखाभिरञ्चिताङ्घ्रे श्रीकरि भद्राभिरागरालोके ।
लेखालिगीयमाने काकलिकाढ्ये नमोऽस्तु ते ललिते ॥971॥
रूपयसि रिपुषु पूर्वं भ्रूचापं तदनु करधतं चापम् ।
रूपवति खलविदूरे सर्वातीते शमात्मिके पाहि ॥972॥
रौद्रं रौद्रे वदनं भद्रं भद्रेषु तावकं रुचिरम् ।
भद्रमिह भद्ररूपे मयि कुरु नित्यं त्वमेव धीरत्वम् ॥973॥
रञ्जय सुजनमनांसि तु भञ्जय दनुजाधमानुदारेम्ब ।
रञ्जकसुजनकदम्बे भञ्जय पापानि मे सकादम्बे ॥974॥
रम्भोरु मङ्गळाङ्गि प्रणताभीष्टप्रदेम्ब मुनिगीते ।
सुखकरि सदये हृदये मातर्मातङ्गि ते नमो ललिते ॥975॥
ललितारविन्दहस्ते सुमुखी त्वं भवसि पूजया प्रीता ।
ललिते सुवासिनीनां साध्वी त्वं भवसि भवमयि प्रीता ॥976॥
लास्यप्रियासि लीलालास्यप्रियहृदयवल्लभा त्वमसि ।
आशोभमानमूर्तिस्तर्पणजलबिन्दुमात्रतुष्टासि ॥977॥
लास्यं तनोति वदने हास्यं ते लासयति च बुधहृदयम् ।
भवसि च विशुद्धहृदया जय ललिते शक्रपूजिता सदया ॥978॥
लिपिशतभाषारूपे रूपातीते बहुविधाकारे ।
मधुरामतरसवर्षिणि मातर्मां पाहि सज्जनाधारे ॥979॥
लीनासि जगति जगतीं कुक्षौ निक्षिप्य रक्षसि प्रीता ।
लीलारविन्दभङ्गी नादानुमुदितेऽस्तु वन्दनं ललिते ॥980॥
लुभ्यति जगती तुभ्यं सभ्यानिभ्यान् करोषि यदि दयसे ।
अभ्युदयमिच्छतेम्ब त्वं मे यच्छायतिं शुभं सदये ॥981॥
लेखाराधितपादे लावण्यमयी च पूर्वजे जगताम् ।
जननादाश्रितसुखदा त्रिपुराम्बा त्वं पुनीहि मां ललिते ॥982॥
लोकालोकनशीले दशमुद्राराधिते नमो ललिते ।
शोकविनाशिनि नमतां वन्दे त्वामम्ब किन्नरैर्गीते ॥983॥
लौल्यमतिलङ्घनीयं भवति यदा पासि नस्तदा सदया ।
मानसलौल्यविहीनो वाचां निचयेन तोषयाम्यम्ब ॥984॥
लम्बोदरफणिचक्रे द्वादशशतपत्रवासिनी त्वमसि ।
दशविधमुद्रारूपा यमिजनवश्या च ते नमो ललिते ॥985॥
शतपत्रपत्रनेत्रे करुणापूरेण बन्धुरापाङ्गि ।
दशमुद्रार्चितपादे ध्यानाधीने त्वमेव मां पाहि ॥986॥
शशिधरकमलजमुरहरवशगा मुद्रार्चिता भवेदेव ।
किमुत तथार्चनविदुषां विषये मामम्ब पालयेरेव ॥987॥
शशिमुखि सम्भवसि त्वं मुद्रासुज्ञानमुद्रिकारूपा ।
ज्ञानेनैव च गम्या ज्ञानज्ञेयात्मिका त्वमेवासि ॥988॥
शारदशशिसितहासे दशशतदलकमलगामिपथबोध्री ।
भवसि ननु मूलमुद्रा मुद्राखण्डत्रयेश्वरी ललिते ॥989॥
शितिकण्ठशक्तिरूपे मृत्योर्दर्पोऽपि नाशितः शक्त्या ।
तव देवि गुणवती त्वं ललिते यासि त्रिकोणगुणसाम्यम् ॥990॥
शीतापाङ्गि विशुद्धे पूर्णचरित्रे शिवप्रिये ललिते ।
वाञ्छितफलदात्री त्वं कुण्डलिनी त्वं पुनीहि मां सततम् ॥991॥
शुद्धाभ्यासस्तुतिभिर्वेद्ये ध्यानेन सेवया भजताम् ।
षड्विधतत्त्वाद्ध्यानं तीर्त्वा बिन्दुस्थितासि सा त्वं हि ॥992॥
शूलिनि करुणामूर्ते षट्चक्राणि त्वदीयपीठानि ।
शेषे सहस्रपत्रे साधकसुखदात्री ते नमो ललिते ॥993॥
शोकामयहरकरुणापूर्णापाङ्गे शुचिस्मिते ललिते ।
शोकमशेषं मामकमपहर मां पाहि ते नमो विहितम् ॥994॥
षण्मुखगणपतिजननी त्वं सर्वानवसि करुणया सततम् ।
शरवणभवनुतसुगुणे शर्वाणी त्वं सदैव मां पाहि ॥995॥
षड्जादिनादमोदिनि षड्गुणसम्पत्तिसंयुते ललिते ।
अज्ञानतिमिरदीपा त्वमसि हि जगतां नस्सुखं देहि ॥996॥
षट्चक्रचारिणी त्वं ज्ञानानन्दप्रदायिनी नमताम् ।
कुण्डलिनीति त्वमसि हि नित्याराध्या च तन्मुखाद्भवसि ॥997॥
षाड्गुण्यपूर्णचित्ते चक्रान्तर्वासिनी तदाधारा ।
जगतामसि सुखदात्री जगदीश्वरि पाहि मां कपापाङ्गैः ॥998॥
सकलजनसेव्यमाना सकलाभिष्टप्रदा त्वमेवासि ।
सकलविधार्चा प्रीता सुलभा त्वं देवि मानवानां हि ॥999॥
सात्त्विकराजसतामसपूजा आदाय तत्समानफलम् ।
दत्त्वा रक्षसि बालान् सात्त्विकपूजा तव प्रियैव ननु ॥1000॥
साधयसि कार्यजातं स्वनिदेशादेव शासनं कोऽपि ।
नोल्लङ्घयेत् त्वमम्ब श्रीचक्रागारवासिनी भवसि ॥1001॥
सारस्वतसाम्राज्ये नादविचारादेव मोदमानासि ।
सारस्वतविधिसुलभां नुतिशक्तिं मे प्रदेहि हे ललिते ॥1002॥
सारसगामिनि ललिते लीलाक्षणमात्रपालनख्याते ।
वाहय करुणास्रोतः श्वासोच्छ्वासेषु देहिनां ललिते ॥1003॥
सिद्धिप्रदेम्ब सीमाकारिणि जगतां च सुमुखि सूक्ष्मतनो ।
सृष्टिकरि देवतानां सोमसमेता सौख्यदास्व मयि नित्यम् ॥1004॥
हरहारवेणि ललिते हितकरि सर्वोत्तमेषु सुतभावे ।
हुतवहसम्भवमाता त्वमसि हि तुभ्यं नमोऽस्तु हे ललिते ॥1005॥
हेमाङ्गदाङ्गशोभातोषितभुवनत्रये महादेवि ।
शिवशक्त्यभेदरूपे विश्वाधारेम्ब पाहि मां ललिते ॥1006॥
क्षतिरिह यदि नुतिकुसुमस्रजि सोढ्वा धारय त्वमेवाम्ब ।
कण्ठे श्रीकण्ठेन त्वमपि रमस्वाम्ब रमय मां च हरम् ॥1007॥
ज्ञानधनपूज्यमाने ज्ञानानन्दे सदा शिवानन्दे ।
मतिकुसुमपालके ते प्रीतिं तनुतामियं कृतिर्ललिते ॥1008॥
Sanskrit Wikisource, page "आर्यासाहस्री", revision 327530.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.