आर्त्तत्राणस्तोत्रम्
स्तोत्र · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as आर्त्तत्राणस्तोत्रम्
Sanskrit text from Sanskrit Wikisource.
क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्
ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १॥
क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २॥
मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३॥
ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्त्तिहा ।
पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्घोषयन्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ४॥
बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयां भजन्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ५॥
सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिवृन्दारकेऽ- वृन्दारके अश्वारूढो
श्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन् यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ६॥
श्रौतस्मार्त्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं
विश्वातीतमपत्यमेव गतिरित्यालापयन्तं सकृत् ।
रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ७॥
गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो
दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीमापूरयत् पावनीम्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ८॥
॥ इति श्रीमदप्पयदीक्षितविरचितं गङ्गाधरस्तोत्रम् अथवा आर्त्तत्राणस्तोत्रम् सम्पूर्णम् ॥
Sanskrit Wikisource, page "आर्त्तत्राणस्तोत्रम्", revision 91607.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.