अद्वैतरसमञ्जरी
स्तोत्र · Sanskrit · ⏱ 5 min
अन्य नाम · Also known as अद्वैतरसमञ्जरी
Sanskrit text from Sanskrit Wikisource.
श्री गणेशाय नमः ॥
श्री गुरुभ्यो नमः ॥
॥ अद्वैतरसमञ्जरी ॥
अखण्डसत्यज्ञानानन्दामृतस्यात्मस्तव
स्तवादिकं कथं कुर्यां करणागोचरत्वतः ॥ (१)
स्वभक्तलोकानुजिधृक्षयैवया
समस्तलोकानुगता विराजते ।
अकादिरूपेण शुकादिवन्दितां
नमामि तं श्रीललितां स्वदेवताम् ॥ (२)
गजमुखमुपरिष्टान्मानवाङ्गं त्वधस्ता
नरपरपरमैक्यज्ञापनायभ्युपेत्य ।
परिलसतिपरस्तान्मोहजालान्महोय
त्तदिह मम पुरस्तादस्तु वस्तुपशस्तम् ॥ (३)
वटतरुनिकटे श्रीदक्षिणामूर्तिरूपं
यदधिवसति सच्चिन्मुद्रया भद्रयार्थम् ।
परमममृतमन्तेवासिनां संप्रदातुं
तदिहवरदमेकं भावये भावशून्यम् ॥ (४)
यतीन्द्रमण्डलं ध्यायन्नखण्डरसमण्डलम् ।
अद्वैतरसमञ्जर्याः कुर्वेद्य सुविकासिनीम् ॥ (५)
अबद्धाऽपि सुबद्धैषा सता बद्धसुदृष्टिना ।
भवेत्सन्तोषवन्तो हि सन्तस्सन्ति समेक्षणाः ॥ (६)
पादशून्यपतगायितस्य मे खेरत्वमतिदुर्लभं खलु ।
तद्विदोऽपि तदवाप्तुमिच्छत स्साहसं सहतु सौहृदीजनः ॥ (७)
अद्वैतमेव परमार्थतया विवेक्तु
मङ्गीकृतद्विपनराकृतिसन्निवेशः ।
अद्वैतगोचरमशेषविदोषमन्त
राविष्करोतु वरदो मम विघ्नराजः ॥ १॥
अज्ञानविस्फुरदनेकविधात्मभेद
मज्ञानमाश्रिवतस्सुलभा न मुक्तिः ।
आदर्शगेहममितः प्रतिबिम्बितान्त
र्द्वारं गतस्य न बहिर्गतिरर्भकस्य ॥ २॥
शान्त्यादिसाधनवता पुरुषोत्तमेन
संप्राप्यते निजपदं वरदेशिकोक्त्या ।
चोरैरण्यसरिणीं गमितेन पुंसा
देशो निजो हि तदभिज्ञगिरैव गम्यः ॥ ३॥
भूमा भवानिति गुरूपनिषद्वचोभिः
कर्त्रात्मता गलति सिद्ध्यति भूमभावः ।
राजात्मजस्य निजतत्वनिबोधनेन
व्याधात्मताविगलनादिव राजभावः ॥ ४॥
कूटस्थनित्यसुखबोधतनोः प्रतीचो
बन्धो विमोचनमिति भ्रम दुर्विलासः ।
वन्ध्यासुतस्य वपुरादिगुणप्रपञ्च
स्तत्पञ्चताऽपि सुतरां परिकल्पनैव ॥ ५॥
आपाततः प्रतिभया जगदस्तिवादः
सत्यं निरूपणविधौ न हि किञ्चिदस्ति ।
भीरोर्विभाति परितस्तिमिरं पिशाच
स्तत्रैव दीपकलिकाऽऽनयते किमस्ति ॥ ६॥
cइज्ज्योतिरेव जगदात्मतया चकास्ति
वस्त्वन्तरं किमपि नास्ति विचार्यमाणे ।
रज्ज्वौ भ्रमाधिकरणादपि रज्जुसर्प
तत्वान्तरं भवितुमर्हति किं कथञ्चित् ॥ ७॥
विश्वं समस्तमपि विभ्रममात्रमेत
दात्मैव सन्नयनन्यसुखप्रकाशः ।
स्फूर्त्यैव विश्वमपि सत्यमितीर्यते चेत्
को नाम शुक्तिरजतेन धनीनभावि ॥ ८॥
नास्ति प्रतीत्यवसरे न पुरा न पश्चा
दाश्चर्यमेतदवभाति तथाऽपि विश्वम् ।
यद्वा किमद्भुतविवेह महेन्द्रजालं
मायाविकल्पितमिति प्रतिभासते हि ॥ ९॥
एकोऽपि सन्नयमनेकतया विभाति
भूमा स्वकल्पिततमः पटलानुषङ्गात् ।
इन्दुर्द्वितीयरहितोऽपि च सद्वितीय
भावेन भाति पुरुषस्य निजाक्षिदोषात् ॥ १०॥
आलोक्यते भुवनचक्रमलातचक्र
मत्यन्तविभ्रमविजृम्भितमस्थिरं च ।
दैवात् भ्रमस्यविरतौ समुपस्थितायां
नालोक्यते किल पुरेव पुनस्तदेव ॥ ११॥
गन्धर्वपत्तनमिदं जगदव्यवस्थं
चैतन्यनामनि विहायसि नश्चकास्ति ।
विद्योतते यदि च विद्युदिवात्मविद्या
सद्यस्तिरोभवति सर्वमिदं तदैव ॥ १२॥
आरोपितस्य जगतः प्रविलापनेन
चित्तं शिवात्मकतया परिशिष्यते नः ।
शत्रून् निहत्य हतयिन्तुरधोनिप्रातात्
गन्धद्विपो भवति केवलमद्वितीयः ॥ १३॥
अद्यास्तमेतु वपुराशितारमास्तां
कस्तावतापि मम चिद्वपुषो विशेषः ।
कुम्भेऽपि नश्यति चिरं समवस्थिते वा
कुम्भांबरस्य नहि कोऽपि विशेषलेशः ॥ १४॥
सङ्कल्पमात्रसविकल्पितमूर्तिविश्वं
विश्वं च सत्यमिति मूर्च्छितमन्दबुद्धिः ।
चिन्ताप्रकर्षजनितां वनितां विदित्वा
शैवेति वल्गति यथा चिरविप्रयुक्तः ॥ १५॥
स्वस्ये मयि स्वरससत्यसुखावबोधे
व्यामोहनाज्जगदिति व्यपदिश्यते यत् ।
अन्यत्र कुत्रचिददृष्टमरूपरूप
मस्थानचित्रमिति निश्चिनुमस्तदेतत् ॥ १६॥
आध्यासिकस्फुरणभेदतिरोहितोऽपि
चिद्धातुरेकरसतां न जहाति जातु ।
नानाचराचरविचित्रविचित्रितोऽपि
चित्रः पटो न पटभावमपास्यति स्वम् ॥ १७॥
सच्चित् सुखात्मकमखण्डितमात्मतत्त्वं
मन्येत कश्चिदहमित्यतिनिश्चितार्थम् ।
देहेन्द्रियादकमपि विभ्रमवासनाभि
व्याप्तो ममाहमितियद्वदविद्वदात्मा ॥ १८॥
विश्वं मृषा विरसमित्यवधार्य धैर्य
मास्वाद्यते मुनिभिरन्तरसौ रसात्मा ।
सन्तापजं मरुमरीचिरसं निरस्य
संसेव्यते सुमतिभिस्सुरसिन्धुपूरः ॥ १९॥
एकान्तसन्निहितमीदृशमात्मतत्त्वं
लोका विमूढमतयो बत नाद्रियन्ते ।
आकाशगोचरमशेषजगत्प्रकाशं
घूका न भास्करमुदीक्षितुमुत्सहन्ते ॥ २०॥
आनन्दविस्फुरणरूपमपि प्रपञ्च
मन्यं विभाव्य परितापमुपैति मुग्धः ।
दीपादिषु स्ववपुषः परिदृश्यमानां
छायां विगाह्य परिमुह्यति किं न बालः ॥ २१॥
माया स्वकीयवियदादिविकारजालै
र्नात्मानमन्यथयितुं प्रभवत्यसङ्गम् ।
आधारपुष्करपलाशकमंबुधारा
स्वीयैः किमार्द्रयितुमर्हति शीकरौघैः ॥ २२॥
आभासमात्रतनवो जगतीविकल्पा
मां न स्पृश्यन्त्यपि विमुक्तसमस्तसङ्गम् ।
आरोपिता मलिनतादिविचित्रधर्मा
लिम्पन्ति किं नु विमलं वियदन्तरालम् ॥ २३॥
स्वप्नस्सुषुप्तिरथजाग्रदिति ह्यवस्था
स्तिस्रोऽपि शश्वदुदयास्तमयैरुपेताः ।
निर्मोकराजय इवोरगराजभोगे
मय्येव साक्षिणि विभान्त्यनुवर्तमाने ॥ २४॥
स्वप्नः प्रजाग्रदिति शब्दकृतो विशेषो
मायामयत्वमुभयोरपि तुल्यमेव ।
प्रत्यग्परागिति नामकृतो विकल्पः
सत्यावबोधसुखतां तु तयोस्स्वरूपम् ॥ २५॥
सर्वेन्द्रियोपरमशान्तजगद्विकल्पाः
स्वानन्दमात्रपरिशेषितचैत्यबोधे ।
ते जाग्रतोऽप्यनुभवन्ति सुषुप्त्यवस्थां
क्रीडन्ति ये सततमात्मनि सत्यबोधे ॥ २६॥
कर्तेति कायिकविचेष्टितदर्शिनो मां
गृह्णन्ति चेत् किमु यथैव तथा भवामि ।
पारिप्लवोऽयमिति पामरधीगृहीत
श्चन्द्रस्तथा नहि चलांबुदसन्निकृष्टः ॥ २७॥
मिथ्या समुल्लसतु नाम जगद्विचित्र
मेतावता विमलतत्वविदो न हानिः ।
स्वप्ने भयङ्करगजादिनिरीक्षणेऽपि
न स्वाप्नकत्वमनुसन्धधतोऽस्ति भीतिः ॥ २८॥
अत्यन्तमेतदसदित्यपि चाव्यवस्थं
मय्यात्मदृष्टिरनुवर्तत एव लोकम् ।
नास्त्यत्र वक्त्रमिति निश्चितवानपि द्रा
गादत्त एव मुकुरं मुखदर्शनाय ॥ २९॥
उद्बोधितोऽपि कबले कबले जनन्या
निद्रालसश्शिशुरिवाविदितान्यभावः ।
आलोकयन्नपि बहिर्जगदिन्द्रजाल
मन्तः कयापि कलया न परिच्युतोऽस्मि ॥ ३०॥
दृश्ये स्फुटीभवति नेक्ष्यत एव भूमा
भूम्नि स्फुटीभवति नेक्ष्यत एव दृश्यम् ।
द्वीपान्तरे स्फुरति भूमिरियं न दृश्या
भूमण्डले स्फुरति तच्च तथा न दृश्यम् ॥ ३१॥
बोधे शनैरुपचयं प्रतिपद्यमाने
विच्छिद्यते हृदि तदा विमलं भ्रमोऽपि ।
चन्द्रे कलाभिरनुवासरमेधमाने
मन्दीभवत्यपि यथैव महान्धकारः ॥३२॥
ब्रह्मानुभूतिरसनिर्भरिते मुनीन्द्रे
कर्मानुबन्धविधयो विमुखीभवन्ति ।
सिद्धोपदर्शितरसायनपानतृप्ते
किन्नु व्यपाकविषया विधयः क्रमन्ते ॥ ३३॥
सर्वात्मतामुपगतोऽपि मुनिस्समाधिं
पूर्वानुवृत्तमयते समयापनुत्यै ।
पर्याप्तसर्वविभवः क्षितिपोऽपि काल
निर्यापणाय जुषते चतुरङ्गलीलाम् ॥ ३४॥
आत्मज्ञमस्तमितसर्वविधिप्रवृत्ति
मानन्दयन्ति निगमाभिमता निषेधाः ।
व्यापारमात्रविमुखस्य महालसस्य
माशब्दकव्यवहृतानि मनोहराणि ॥ ३५॥
तत्त्वानुचिन्तनपरो मुनिसार्वभौमः
स्वच्छन्दतो व्यवहरन्नपि नानुयोज्यः ।
साम्राज्यमेत्य हि यथारुचि वर्तमानो
राजा प्रजाभिरनुयोक्तुमशक्य एव ॥ ३६॥
प्रारब्धजामधिकसंपदमापदं वा
भुञ्जान एव पुरुषः परिशुद्धियेति ।
किं वाऽऽहितुण्डिकगृहीततनुर्भुजङ्ग
स्तत्क्लृप्तदण्डनविधिं परिहर्तुमीष्टे ॥ ३७॥
पूर्वोत्तरार्जितशुभाशुभकर्मभिस्स्व
संपद्विपश्च न भवेत् परमार्थदृष्टेः ।
जात्योषरस्य धनवर्षजलाभिषेकै
रत्योष्मणा च नहि सस्यविवृद्धिहानी ॥ ३८॥
प्रारब्धकर्मपरिपाकवशंवदो न
क्लिश्नाति निश्चितपरावधिरात्मवेदी ।
ग्रामान्तमार्गपरिमाणविदध्वनीनो
मध्येपथं न हि विषीदति दुःखितोऽपि ॥ ३९॥
अन्तर्बहिश्च परमार्थतयानुपश्यन्
न क्लिश्यति व्यसनमुत्कटमप्युपेतः ।
धीरः किलाहमुखे विजयैकदृष्टिः
प्रत्यर्थिभिः प्रमथितोऽपि न विक्लवस्स्यात् ॥ ४०॥
प्रापञ्चिकस्तु विभवः परमाद्भुतोऽपि
धीरं न रञ्जयति दृष्टतदीयतत्वम् ।
स्त्रीवेषभूषिततनुः पुरुषो विलासै
स्तज्ञं युवानमपि मोहयितुं हि नालम् ॥ ४१॥
अन्तर्निरन्तरनिगूढनिजात्मतत्वो
न प्रागिव व्यसनितां विषयेषु धत्ते ।
भाग्यात् कुतश्चिदपि लब्धनिधिर्मनस्वी
किं पूर्ववत् कृपणतामुररीकरोति ॥ ४२॥
अध्यास्थितस्वमहिमानमलक्रिया व
दाध्यात्मिकाश्शुभगुणास्स्वयमाविशन्ति ।
स्वाधीनिते सुहृदि राजनि तस्य भृत्या
एतेऽपि च स्वयमुपेत्य तमाश्रयन्ते ॥ ४३॥
अज्ञानमेव न कुतो जगतः प्रसङ्गो
जीवेशदेशिकविकल्पकथाऽपि दूरे ।
एकान्तनिर्मलचिदेकरसस्वरूपं
ब्रह्मैव केवलमहं परिपूर्णमस्मि ॥ ४४॥
इति श्रीमत्परमहंस परिव्राजक सदाशिव ब्रह्मेन्द्र विरचिता
अद्वैतरसमञ्जरी सम्पूर्णा ॥
Sanskrit Wikisource, page "अद्वैतरसमञ्जरी", revision 329184.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.