युद्धकाण्डम्

सर्गः ९८

Yuddha Kanda (Sanskrit) · Sarga 98
अक्षर का आकार

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टनवतितमः सर्गः ॥६-९८॥
महोदरे तु निहते महापार्श्वो महाबलः।
सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः॥ १॥
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः।
स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः॥ २॥
पातयामास कायेभ्यः फलं वृन्तादिवानिलः।
केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः॥ ३॥
वानराणां सुसंरब्धः पार्श्वं केषांचिदाक्षिपत्।
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः॥ ४॥
विषादविमुखाः सर्वे बभूवुर्गतचेतसः।
निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्॥ ५॥
वेगं चक्रे महावेगः समुद्र इव पर्वसु।
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्॥ ६॥
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्।
स तु तेन प्रहारेण महापार्श्वो विचेतनः॥ ७॥
ससूतः स्यन्दनात् तस्माद् विसंज्ञश्चापतद् भुवि।
तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः॥ ८॥
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात्।
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्॥ ९॥
अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम्।
मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः॥ १०॥
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत।
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे॥ ११॥
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः।
गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ॥ १२॥
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः।
तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम्॥ १३॥
दूरस्थितस्य परिघं रविरश्मिसमप्रभम्।
द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवत्॥ १४॥
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः।
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः॥ १५॥
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत्।
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्॥ १६॥
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले।
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः॥ १७॥
करेणैकेन जग्राह सुमहान्तं परश्वधम्।
तं तैलधौतं विमलं शैलसारमयं दृढम्॥ १८॥
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्।
तेन वामांसफलके भृशं प्रत्यवपातितम्॥ १९॥
अङ्गदो मोक्षयामास सरोषः स परश्वधम्।
स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः॥ २०॥
संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः।
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति॥ २१॥
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्।
तेन तस्य निपातेन राक्षसस्य महामृधे॥ २२॥
पफाल हृदयं चास्य स पपात हतो भुवि।
तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे॥ २३॥
अभवच्च महान् क्रोधः समरे रावणस्य तु।
वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः॥ २४॥
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम्।
सहेन्द्रेणेव देवानां नादः समभवन्महान्॥ २५॥
अथेन्द्रशत्रुस्त्रिदशालयानां
वनौकसां चैव महाप्रणादम्।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः
पुनश्च युद्धाभिमुखोऽवतस्थे॥ २६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥