युद्धकाण्डम्
सर्गः ९५
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चनवतितमः सर्गः ॥६-९५॥
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले।
रावणः करुणं शब्दं शुश्राव परिदेवितम्॥ १॥
स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः।
बभूव परमक्रुद्धो रावणो भीमदर्शनः॥ २॥
संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः।
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान्॥ ३॥
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः।
क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा॥ ४॥
महोदरं महापार्श्वं विरूपाक्षं च राक्षसम्।
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया॥ ५॥
तस्य तद् वचनं श्रुत्वा राक्षसास्ते भयार्दिताः।
चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया॥ ६॥
ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः।
कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः॥ ७॥
प्रतिपूज्य यथान्यायं रावणं ते महारथाः।
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः॥ ८॥
ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः।
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम्॥ ९॥
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः।
राघवं लक्ष्मणं चैव नेष्यामि यमसादनम्॥ १०॥
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा।
करिष्यामि प्रतीकारमद्य शत्रुवधादहम्॥ ११॥
नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः।
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः॥ १२॥
अद्य वानरमुख्यानां तानि यूथानि भागशः।
धनुषा शरजालेन वधिष्यामि पतत्त्रिणा॥ १३॥
अद्य वानरसैन्यानि रथेन पवनौजसा।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः॥ १४॥
व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्।
अद्य यूथतटाकानि गजवत् प्रमथाम्यहम्॥ १५॥
सशरैरद्य वदनैः संख्ये वानरयूथपाः।
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः॥ १६॥
अद्य यूथप्रचण्डानां हरीणां द्रुमयोधिनाम्।
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम्॥ १७॥
हतो भ्राता च येषां वै येषां च तनयो हतः।
वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम्॥ १८॥
अद्य मद्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः।
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम्॥ १९॥
अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे।
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः॥ २०॥
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः।
अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः॥ २१॥
तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः।
बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति॥ २२॥
बलाध्यक्षास्तु संयुक्ता राक्षसांस्तान् गृहे गृहे।
चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः॥ २३॥
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः।
नदन्तो भीमवदना नानाप्रहरणैर्भुजैः॥ २४॥
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हलैः।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः॥ २५॥
यष्टिभिर्विविधैश्चक्रैर्निशितैश्च परश्वधैः।
भिन्दिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः॥ २६॥
अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया।
रथानां नियुतं साग्रं नागानां नियुतत्रयम्॥ २७॥
अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च।
पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात्॥ २८॥
बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरःस्थिताम्।
एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम्॥ २९॥
दिव्यास्त्रवरसम्पन्नं नानालंकारभूषितम्।
नानायुधसमाकीर्णं किङ्किणीजालसंयुतम्॥ ३०॥
नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम्।
जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम्॥ ३१॥
तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं गताः।
तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः॥ ३२॥
कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम्।
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्।
आरुरोह तदा भीमं दीप्यमानं स्वतेजसा॥ ३३॥
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः।
रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम्॥ ३४॥
ततश्चासीन्महानादस्तूर्याणां च ततस्ततः।
मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम्॥ ३५॥
आगतो रक्षसां राजा छत्रचामरसंयुतः।
सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः।
योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः॥ ३६॥
तेन नादेन महता पृथिवी समकम्पत।
तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात्॥ ३७॥
रावणस्तु महाबाहुः सचिवैः परिवारितः।
आजगाम महातेजा जयाय विजयं प्रति॥ ३८॥
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ।
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा॥ ३९॥
ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम्।
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः॥ ४०॥
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः।
निर्ययावुद्यतधनुः कालान्तकयमोपमः॥ ४१॥
ततः प्रजविताश्वेन रथेन स महारथः।
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ॥ ४२॥
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः।
द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी॥ ४३॥
ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः।
ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः॥ ४४॥
नयनं चास्फुरद् वामं वामो बाहुरकम्पत।
विवर्णवदनश्चासीत् किंचिदभ्रश्यत स्वनः॥ ४५॥
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः।
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे॥ ४६॥
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना।
विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः॥ ४७॥
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान्।
निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः॥ ४८॥
तेषां तु रथघोषेण राक्षसानां महात्मनाम्।
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत॥ ४९॥
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्।
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्॥ ५०॥
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः।
वानराणामनीकेषु चकार कदनं महत्॥ ५१॥
निकृत्तशिरसः केचिद् रावणेन वलीमुखाः।
केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः॥ ५२॥
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः।
केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः॥ ५३॥
दशाननः क्रोधविवृत्तनेत्रो
यतो यतोऽभ्येति रथेन संख्ये।
ततस्ततस्तस्य शरप्रवेगं
सोढुं न शेकुर्हरियूथपास्ते॥ ५४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥