युद्धकाण्डम्
सर्गः ३९
तां रात्रिमुषितास्तत्र सुवेले हरियूथपाः।
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च॥ १॥
समसौम्यानि रम्याणि विशालान्यायतानि च।
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः॥ २॥
चम्पकाशोकबकुलशालतालसमाकुला।
तमालवनसंछन्ना नागमालासमावृता॥ ३॥
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैः सुपुष्पितैः।
तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः॥ ४॥
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती॥ ५॥
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः।
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः॥ ६॥
गन्धाढ्यान्यतिरम्याणि पुष्पाणि च फलानि च।
धारयन्त्यगमास्तत्र भूषणानीव मानवाः॥ ७॥
तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्।
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्॥ ८॥
दात्यूहकोयष्टिबकैर्नृत्यमानैश्च बर्हिणैः।
रुतं परभृतानां च शुश्रुवे वननिर्झरे॥ ९॥
नित्यमत्तविहंगानि भ्रमराचरितानि च।
कोकिलाकुलखण्डानि विहंगाभिरुतानि च॥ १०॥
भृङ्गराजाधिगीतानि कुररस्वनितानि च।
कोणालकविघुष्टानि सारसाभिरुतानि च।
विविशुस्ते ततस्तानि वनान्युपवनानि च॥ ११॥
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः।
तेषां प्रविशतां तत्र वानराणां महौजसाम्॥ १२॥
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः।
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः।
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्॥ १३॥
वित्रासयन्तो विहगान् ग्लापयन्तो मृगद्विपान्।
कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः॥ १४॥
कुर्वन्तस्ते महावेगा महीं चरणपीडिताम्।
रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम्॥ १५॥
ऋक्षाः सिंहाश्च महिषा वारणाश्च मृगाः खगाः।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश॥ १६॥
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्।
समन्तात् पुष्पसंछन्नं महारजतसंनिभम्॥ १७॥
शतयोजनविस्तीर्णं विमलं चारुदर्शनम्।
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि॥ १८॥
मनसापि दुरारोहं किं पुनः कर्मणा जनैः।
निविष्टा तस्य शिखरे लङ्का रावणपालिता॥ १९॥
दशयोजनविस्तीर्णा विंशद्योजनमायता।
सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः।
काञ्चनेन च शालेन राजतेन च शोभते॥ २०॥
प्रासादैश्च विमानैश्च लङ्का परमभूषिता।
घनैरिवातपापाये मध्यमं वैष्णवं पदम्॥ २१॥
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः।
कैलासशिखराकारो दृश्यते खमिवोल्लिखन्॥ २२॥
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्।
शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते॥ २३॥
मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम्।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम्॥ २४॥
नानाविहगसंघुष्टां नानामृगनिषेविताम्।
नानाकुसुमसम्पन्नां नानाराक्षससेविताम्॥ २५॥
तां समृद्धां समृद्धार्थां लक्ष्मीवाँल्लक्ष्मणाग्रजः।
रावणस्य पुरीं रामो ददर्श सह वानरैः॥ २६॥
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान्॥ २७॥
तां रत्नपूर्णां बहुसंविधानां
प्रासादमालाभिरलंकृतां च।
पुरीं महायन्त्रकवाटमुख्यां
ददर्श रामो महता बलेन॥ २८॥