युद्धकाण्डम्
सर्गः ३
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवत्।
प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत्॥ १॥
तपसा सेतुबन्धेन सागरोच्छोषणेन च।
सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने॥ २॥
कति दुर्गाणि दुर्गाया लङ्कायास्तद् ब्रवीष्व मे।
ज्ञातुमिच्छामि तत् सर्वं दर्शनादिव वानर॥ ३॥
बलस्य परिमाणं च द्वारदुर्गक्रियामपि।
गुप्तिकर्म च लङ्काया रक्षसां सदनानि च॥ ४॥
यथासुखं यथावच्च लङ्कायामसि दृष्टवान्।
सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि॥ ५॥
श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः।
वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत्॥ ६॥
श्रूयतां सर्वमाख्यास्ये दुर्गकर्म विधानतः।
गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः॥ ७॥
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा।
परां समृद्धिं लङ्कायाः सागरस्य च भीमताम्॥ ८॥
विभागं च बलौघस्य निर्देशं वाहनस्य च।
एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः॥ ९॥
हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला।
महती रथसम्पूर्णा रक्षोगणनिषेविता॥ १०॥
दृढबद्धकपाटानि महापरिघवन्ति च।
चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति च॥ ११॥
तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च।
आगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते॥ १२॥
द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः।
शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः॥ १३॥
सौवर्णस्तु महांस्तस्याः प्राकारो दुष्प्रधर्षणः।
मणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः॥ १४॥
सर्वतश्च महाभीमाः शीततोया महाशुभाः।
अगाधा ग्राहवत्यश्च परिखा मीनसेविताः॥ १५॥
द्वारेषु तासां चत्वारः संक्रमाः परमायताः।
यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः॥ १६॥
त्रायन्ते संक्रमास्तत्र परसैन्यागते सति।
यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः॥ १७॥
एकस्त्वकम्प्यो बलवान् संक्रमः सुमहादृढः।
काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः॥ १८॥
स्वयं प्रकृतिमापन्नो युयुत्सू राम रावणः।
उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने॥ १९॥
लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा।
नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम्॥ २०॥
स्थिता पारे समुद्रस्य दूरपारस्य राघव।
नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः॥ २१॥
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा।
वाजिवारणसम्पूर्णा लङ्का परमदुर्जया॥ २२॥
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च।
शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः॥ २३॥
अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्।
शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः॥ २४॥
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्।
चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः॥ २५॥
प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्।
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः॥ २६॥
न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्।
रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः॥ २७॥
शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः।
यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्॥ २८॥
ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः।
दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः।
बलैकदेशः क्षपितो राक्षसानां महात्मनाम्॥ २९॥
येन केन तु मार्गेण तराम वरुणालयम्।
हतेति नगरी लङ्का वानरैरुपधार्यताम्॥ ३०॥
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः।
नीलः सेनापतिश्चैव बलशेषेण किं तव॥ ३१॥
प्लवमाना हि गत्वा त्वां रावणस्य महापुरीम्।
सपर्वतवनां भित्त्वा सखातां च सतोरणाम्।
सप्राकारां सभवनामानयिष्यन्ति राघव॥ ३२॥
एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय॥ ३३॥