युद्धकाण्डम्
सर्गः २४
सा वीरसमिती राज्ञा विरराज व्यवस्थिता।
शशिना शुभनक्षत्रा पौर्णमासीव शारदी॥ १॥
प्रचचाल च वेगेन त्रस्ता चैव वसुंधरा।
पीड्यमाना बलौघेन तेन सागरवर्चसा॥ २॥
ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः।
भेरीमृदङ्गसंघुष्टं तुमुलं लोमहर्षणम्॥ ३॥
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः।
अमृष्यमाणास्तद् घोषं विनेदुर्घोषवत्तरम्॥ ४॥
राक्षसास्तत् प्लवंगानां शुश्रुवुस्तेऽपि गर्जितम्।
नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम्॥ ५॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्।
जगाम मनसा सीतां दूूयमानेन चेतसा॥ ६॥
अत्र सा मृगशावाक्षी रावणेनोपरुध्यते।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी॥ ७॥
दीर्घमुष्णं च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम्।
उवाच वचनं वीरस्तत्कालहितमात्मनः॥ ८॥
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण।
मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा॥ ९॥
विमानैर्बहुभिर्लङ्का संकीर्णा रचिता पुरा।
विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः॥ १०॥
पुष्पितैः शोभिता लङ्का वनैश्चित्ररथोपमैः।
नानापतगसंघुष्टफलपुष्पोपगैः शुभैः॥ ११॥
पश्य मत्तविहंगानि प्रलीनभ्रमराणि च।
कोकिलाकुलखण्डानि दोधवीति शिवोऽनिलः॥ १२॥
इति दाशरथी रामो लक्ष्मणं समभाषत।
बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा॥ १३॥
शशास कपिसेनां तां बलादादाय वीर्यवान्।
अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः॥ १४॥
तिष्ठेद् वानरवाहिन्या वानरौघसमावृतः।
आश्रितो दक्षिणं पार्श्वमृषभो नाम वानरः॥ १५॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः।
तिष्ठेद् वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः॥ १६॥
मूर्ध्नि स्थास्याम्यहं यत्तो लक्ष्मणेन समन्वितः।
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः॥ १७॥
ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः।
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु।
पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः॥ १८॥
सुविभक्तमहाव्यूहा महावानररक्षिता।
अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा॥ १९॥
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान्।
आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे॥ २०॥
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा।
इति स्म दधिरे सर्वे मनांसि हरिपुङ्गवाः॥ २१॥
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत्।
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम्॥ २२॥
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः।
मोचयामास तं दूतं शुकं रामस्य शासनात्॥ २३॥
मोचितो रामवाक्येन वानरैश्च निपीडितः।
शुकः परमसंत्रस्तो रक्षोधिपमुपागमत्॥ २४॥
रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह।
किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे॥ २५॥
कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः।
ततः स भयसंविग्नस्तेन राज्ञाभिचोदितः।
वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम्॥ २६॥
सागरस्योत्तरे तीरेऽब्रुवं ते वचनं तथा।
यथा संदेशमक्लिष्टं सान्त्वयन् श्लक्ष्णया गिरा॥ २७॥
क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रः प्लवंगमैः।
गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः॥ २८॥
न ते संभाषितुं शक्याः सम्प्रश्नोऽत्र न विद्यते।
प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप॥ २९॥
स च हन्ता विराधस्य कबन्धस्य खरस्य च।
सुग्रीवसहितो रामः सीतायाः पदमागतः॥ ३०॥
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम्।
एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः॥ ३१॥
ऋक्षवानरसङ्घानामनीकानि सहस्रशः।
गिरिमेघनिकाशानां छादयन्ति वसुंधराम्॥ ३२॥
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च।
नैतयोर्विद्यते संधिर्देवदानवयोरिव॥ ३३॥
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु।
सीतां चास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम्॥ ३४॥
शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत्।
रोषसंरक्तनयनो निर्दहन्निव चक्षुषा॥ ३५॥
यदि मां प्रति युद्धेरन् देवगन्धर्वदानवाः।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि॥ ३६॥
कदा समभिधावन्त मामका राघवं शराः।
वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम्॥ ३७॥
कदा शोणितदिग्धाङ्गं दीप्तैः कार्मुकविच्युतैः।
शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम्॥ ३८॥
तच्चास्य बलमादास्ये बलेन महता वृतः।
ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः॥ ३९॥
सागरस्येव मे वेगो मारुतस्येव मे बलम्।
न च दाशरथिर्वेद तेन मां योद्धुमिच्छति॥ ४०॥
न मे तूणीशयान् बाणान् सविषानिव पन्नगान्।
रामः पश्यति संग्रामे तेन मां योद्धुमिच्छति॥ ४१॥
न जानाति पुरा वीर्यं मम युद्धे स राघवः।
मम चापमयीं वीणां शरकोणैः प्रवादिताम्॥ ४२॥
ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम्।
नाराचतलसंनादां नदीमहितवाहिनीम्।
अवगाह्य महारङ्गं वादयिष्याम्यहं रणे॥ ४३॥
न वासवेनापि सहस्रचक्षुषा
युद्धेऽस्मि शक्यो वरुणेन वा स्वयम्।
यमेन वा धर्षयितुं शराग्निना
महाहवे वैश्रवणेन वा पुनः॥ ४४॥