युद्धकाण्डम्
सर्गः १३
रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः।
मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत्॥ १॥
यः खल्वपि वनं प्राप्य मृगव्यालनिषेवितम्।
न पिबेन्मधु सम्प्राप्य स नरो बालिशो भवेत्॥ २॥
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण।
रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु॥ ३॥
बलात् कुक्कुटवृत्तेन प्रवर्तस्व महाबल।
आक्रम्याक्रम्य सीतां वै तां भुङ्क्ष्व च रमस्व च॥ ४॥
लब्धकामस्य ते पश्चादागमिष्यति किं भयम्।
प्राप्तमप्राप्तकालं वा सर्वं प्रतिविधास्यसे॥ ५॥
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः।
प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम्॥ ६॥
उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्।
समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये॥ ७॥
इह प्राप्तान् वयं सर्वाञ्छत्रूंस्तव महाबल।
वशे शस्त्रप्रतापेन करिष्यामो न संशयः॥ ८॥
एवमुक्तस्तदा राजा महापार्श्वेन रावणः।
तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत्॥ ९॥
महापार्श्व निबोध त्वं रहस्यं किंचिदात्मनः।
चिरवृत्तं तदाख्यास्ये यदवाप्तं पुरा मया॥ १०॥
पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव॥ ११॥
सा प्रसह्य मया भुक्ता कृता विवसना ततः।
स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा॥ १२॥
तच्च तस्य तथा मन्ये ज्ञातमासीन्महात्मनः।
अथ संकुपितो वेधा मामिदं वाक्यमब्रवीत्॥ १३॥
अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि।
तदा ते शतधा मूर्धा फलिष्यति न संशयः॥ १४॥
इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्।
नारोहये बलात् सीतां वैदेहीं शयने शुभे॥ १५॥
सागरस्येव मे वेगो मारुतस्येव मे गतिः।
नैतद् दाशरथिर्वेद ह्यासादयति तेन माम्॥ १६॥
को हि सिंहमिवासीनं सुप्तं गिरिगुहाशये।
क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति॥ १७॥
न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्नगानिव।
रामः पश्यति संग्रामे तेन मामभिगच्छति॥ १८॥
क्षिप्रं वज्रसमैर्बाणैः शतधा कार्मुकच्युतैः।
राममादीपयिष्यामि उल्काभिरिव कुञ्जरम्॥ १९॥
तच्चास्य बलमादास्ये बलेन महता वृतः।
उदितः सविता काले नक्षत्राणां प्रभामिव॥ २०॥
न वासवेनापि सहस्रचक्षुषा
युधास्मि शक्यो वरुणेन वा पुनः।
मया त्वियं बाहुबलेन निर्जिता
पुरा पुरी वैश्रवणेन पालिता॥ २१॥