युद्धकाण्डम्
सर्गः १०४
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुरधिकशततमः सर्गः ॥६-१०४॥
स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः।
क्रोधसंरक्तनयनो रावणः सूतमब्रवीत्॥ १॥
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्।
भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा॥ २॥
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्।
मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे॥ ३॥
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च।
त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः॥ ४॥
त्वयाद्य हि ममानार्य चिरकालमुपार्जितम्।
यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः॥ ५॥
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः।
पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया॥ ६॥
यत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते।
सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः॥ ७॥
नहि तद् विद्यते कर्म सुहृदो हितकांक्षिणः।
रिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम्॥ ८॥
निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः।
यदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः॥ ९॥
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना।
अब्रवीद् रावणं सूतो हितं सानुनयं वचः॥ १०॥
न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः।
न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया॥ ११॥
मया तु हितकामेन यशश्च परिरक्षता।
स्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम्॥ १२॥
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्।
कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि॥ १३॥
श्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः।
नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः॥ १४॥
श्रमं तवावगच्छामि महता रणकर्मणा।
नहि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये॥ १५॥
रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः।
दीना घर्मपरिश्रान्ता गावो वर्षहता इव॥ १६॥
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः।
तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम्॥ १७॥
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च।
दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम्॥ १८॥
स्थलनिम्नानि भूमेश्च समानि विषमाणि च।
युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम्॥ १९॥
उपयानापयाने च स्थानं प्रत्यपसर्पणम्।
सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना॥ २०॥
तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्।
रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया॥ २१॥
स्वेच्छया न मया वीर रथोऽयमपवाहितः।
भर्तुः स्नेहपरीतेन मयेदं यत् कृतं प्रभो॥ २२॥
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन।
तत् करिष्याम्यहं वीर गतानृण्येन चेतसा॥ २३॥
संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः।
प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्॥ २४॥
रथं शीघ्रमिमं सूत राघवाभिमुखं नय।
नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः॥ २५॥
एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः।
ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्।
श्रुत्वा रावणवाक्यानि सारथिः संन्यवर्तत॥ २६॥
ततो द्रुतं रावणवाक्यचोदितः
प्रचोदयामास हयान् स सारथिः।
स राक्षसेन्द्रस्य ततो महारथः
क्षणेन रामस्य रणाग्रतोऽभवत्॥ २७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरधिकशततमः सर्गः ॥ १०४ ॥