युद्धकाण्डम्

सर्गः १

Yuddha Kanda (Sanskrit) · Sarga 1
अक्षर का आकार

श्रुत्वा हनूमतो वाक्यं यथावदभिभाषितम्।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत्॥ १॥
कृतं हनूमता कार्यं सुमहद् भुवि दुर्लभम्।
मनसापि यदन्येन न शक्यं धरणीतले॥ २॥
नहि तं परिपश्यामि यस्तरेत महोदधिम्।
अन्यत्र गरुडाद् वायोरन्यत्र च हनूमतः॥ ३॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम्॥ ४॥
प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत्।
को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम्॥ ५॥
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः।
भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत्।
एवं विधाय स्वबलं सदृशं विक्रमस्य च॥ ६॥
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे।
कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम्॥ ७॥
यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम्।
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम्॥ ८॥
नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः।
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम्॥ ९॥
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता।
न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः॥ १०॥
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः॥ ११॥
इदं तु मम दीनस्य मनो भूयः प्रकर्षति।
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम्॥ १२॥
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः।
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः॥ १३॥
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे।
हनूमन्तं कृतात्मानं कृतकार्यमुपागतम्॥ १४॥
ध्यात्वा पुनरुवाचेदं वचनं रघुसत्तमः।
हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः॥ १५॥
सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम्।
सागरं तु समासाद्य पुनर्नष्टं मनो मम॥ १६॥
कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः।
हरयो दक्षिणं पारं गमिष्यन्ति समागताः॥ १७॥
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम।
समुद्रपारगमने हरीणां किमिवोत्तरम्॥ १८॥
इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः।
हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत्॥ १९॥