सुन्दरकाण्डम्

सर्गः ६०

Sundara Kanda (Sanskrit) · Sarga 60
अक्षर का आकार

तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत।
अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ॥ १॥
पितामहवरोत्सेकात् परमं दर्पमास्थितौ।
अश्विनोर्माननार्थं हि सर्वलोकपितामहः॥ २॥
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा।
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्॥ ३॥
सुराणाममृतं वीरौ पीतवन्तौ महाबलौ।
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्॥ ४॥
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः।
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्॥ ५॥
तां लङ्कां तरसा हन्तुं रावणं च महाबलम्।
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः॥ ६॥
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः।
वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम्॥ ७॥
दृष्टा देवी न चानीता इति तत्र निवेदितुम्।
न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः॥ ८॥
नहि वः प्लवने कश्चिन्नापि कश्चित् पराक्रमे।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥ ९॥
जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे।
सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः॥ १०॥
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्॥ ११॥
रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम्।
किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान्॥ १२॥
वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान्।
राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम्॥ १३॥
तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित्॥ १४॥
नैषा बुद्धिर्महाबुद्धे यद् ब्रवीषि महाकपे।
विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम्॥ १५॥
नानेतुं कपिराजेन नैव रामेण धीमता।
कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत्॥ १६॥
राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम्।
प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः॥ १७॥
सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति।
विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च॥ १८॥
वृथा च दर्शितं वीर्यं भवेद् वानरपुङ्गवाः।
तस्माद् गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः।
सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने॥ १९॥
न तावदेषा मतिरक्षमा नो
यथा भवान् पश्यति राजपुत्र।
यथा तु रामस्य मतिर्निविष्टा
तथा भवान् पश्यतु कार्यसिद्धिम्॥ २०॥