सुन्दरकाण्डम्

सर्गः २९

Sundara Kanda (Sanskrit) · Sarga 29
अक्षर का आकार

तथागतां तां व्यथितामनिन्दितां
व्यतीतहर्षां परिदीनमानसाम्।
शुभां निमित्तानि शुभानि भेजिरे
नरं श्रिया जुष्टमिवोपसेविनः॥ १॥
तस्याः शुभं वाममरालपक्ष्म-
राज्यावृतं कृष्णविशालशुक्लम्।
प्रास्पन्दतैकं नयनं सुकेश्या
मीनाहतं पद्ममिवाभिताम्रम्॥ २॥
भुजश्च चार्वञ्चितवृत्तपीनः
परार्घ्यकालागुरुचन्दनार्हः।
अनुत्तमेनाघ्युषितः प्रियेण
चिरेण वामः समवेपताशु॥ ३॥
गजेन्द्रहस्तप्रतिमश्च पीन-
स्तयोर्द्वयोः संहतयोस्तु जातः।
प्रस्पन्दमानः पुनरूरुरस्या
रामं पुरस्तात् स्थितमाचचक्षे॥ ४॥
शुभं पुनर्हेमसमानवर्ण-
मीषद्रजोध्वस्तमिवातुलाक्ष्याः।
वासः स्थितायाः शिखराग्रदन्त्याः
किंचित् परिस्रंसत चारुगात्र्याः॥ ५॥
एतैर्निमित्तैरपरैश्च सुभ्रूः
संचोदिता प्रागपि साधुसिद्धैः।
वातातपक्लान्तमिव प्रणष्टं
वर्षेण बीजं प्रतिसंजहर्ष॥ ६॥
तस्याः पुनर्बिम्बफलोपमोष्ठं
स्वक्षिभ्रुकेशान्तमरालपक्ष्म।
वक्त्रं बभासे सितशुक्लदंष्ट्रं
राहोर्मुखाच्चन्द्र इव प्रमुक्तः॥ ७॥
सा वीतशोका व्यपनीततन्द्रा
शान्तज्वरा हर्षविबुद्धसत्त्वा।
अशोभतार्या वदनेन शुक्ले
शीतांशुना रात्रिरिवोदितेन॥ ८॥