विराटपर्व
अध्यायः ६९
वैशंपायन उवाच।
स विजित्य धनं चापि विराटो वाहिनीपतिः।
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ।।
जित्वा त्रिगर्तान्संग्रामे गाश्चैवानाय्य केवलाः।
अशोभत महाराजः सह पार्थैः श्रिया वृतः ।।
तमासनगत वीरं सुहृदां प्रीतिवर्धनम् ।
तपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह ।।
सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् ।
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ।।
ततः स राजा मात्स्यानां विराटो वाहिनीपतिः।
प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम्।
उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत् ।।
आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि।
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ।।
ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् ।
बृहन्नलासहायश्च निर्यातः पृथिवींजयः ।।
उपयातानतिरथान्द्रोणं शान्तनवं कृपम्।
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ।।
ततो विराटः परमाभितप्तः
पुत्रं निशम्यैकरथेन यातम्।
बृहन्नलासारथिमाजिमर्दनं
प्रोवाच सर्वानथ मन्त्रिमुख्यान् ।।
गवां शतसहस्राणि उभिभूय ममात्मजम्।
कुस्वः कालयन्ति स्म सर्वे युद्धविशारदाः ।।
तस्माद्गच्छतु मे योधा बलेन महता वृताः।
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ।।
वैशंपायन उवाच।
हयांश्च नागांश्च रथांश्च शीघ्रं
वादित्रसङ्घांश्च ततः प्रभूतान्।
प्रस्थापयामास सुतस्य हेतो-
र्विचित्रचित्राभरणोपपन्नान् ।।
एवं स राजा मात्स्यानां महानक्षोहिणीपतिः।
व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम् ।।
कुमारमाशु जानीत यदि जीवति वा नवा।
यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति ।।
तमब्रवीद्धर्मसुतो विराट-
मार्तं विदित्वा कुरुभिः प्रतप्तम्।
बृहन्नला सारथिश्चेन्नरेन्द्र
परे न नेष्यन्ति तवाद्य गाश्च ।।
सर्वान्महीपान्सहितान्कुरूंश्च
तथैव देवासुरनागयक्षान्।
अलं विजेतुं समरे सुतस्ते
अनुष्ठितः सारथिना हि तेन ।।
सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः ।
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथंचन ।।
वैशंपायन उवाच।
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।
विराटनगरं प्राप्य जयं प्रावेदयंस्तदा ।।
राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् ।
पराजयं कुरूणां च उपायान्तं तथोत्तरम् ।।
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः।
उत्तरः सह सूतेन कुशली च परंतपः ।।
कङ्क उवाच।
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः।
दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभः ।।
नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्।
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला।।
देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः ।
कृष्णस्य सारथिश्चैव न बृहन्नलया समौ ।।
वैशंपायन उवाच।
ततो विराटो नृपतिः संप्रहृष्टतनूरुह।
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः।
संतोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः ।।
गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च।
उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत ।।
राजमार्गाः क्रियन्तां वै पताकाभिरलंकृताः।
पुष्पोपहारैरर्च्यतां देवताश्चापि सर्वशः ।।
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः।
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ।।
भवन्तु ते लब्धजये सुते मे
पौराश्च मर्त्याश्च परे च नार्यः ।
ते शुक्लवस्त्राः प्रभवन्तु मार्गे
सुगन्धमाल्याभरणाश्च नार्यः ।।
भजन्तु सर्वा गणिकाः सुतं मे
नार्यश्च कन्याः सहसैनिकाश्च ।
स्वलंकृतास्ताः सुभगाः सुवेषाः
पुत्रस्य पन्थानमनुव्रजन्तु ।।
घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम्।
शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम्।।
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता।
सखीं विजितसंग्रामां प्रत्युद्यातु बृहन्नलाम् ।।
श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन।
तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः ।।
मूताश्च सर्वे सहमागधाश्च
हृष्टा विराटस्य पुरे जनौघाः ।
भेर्यश्च तूर्याणि च वारिजाश्च
वेपैः परार्ध्यैः प्रमदाजनाश्च ।।
वन्दिप्रवादाः पणवादिकाश्च
तथैव वाद्यानि च वंशशब्दाः ।
कांस्यं सतालं मधुरं च गीत-
मादाय नार्यो नगरान्निरीयुः ।।
प्रत्युद्ययुः पुत्रमनन्तवीर्यं
ते ब्राह्मणाः शान्तिपराः प्रधानाः ।
स्वाध्यायवेदाध्ययनक्रमज्ञाः
स्वस्तिक्रियागीतजपप्रधानाः ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकोनसप्ततितमोऽध्यायः ।।