विराटपर्व
अध्यायः ६५
वैशंपायन उवाच।
कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत्।
एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम् ।।
यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः ।
सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः ।।
तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः ।
अतीव समरे भाति मातरिश्वप्रकम्पितः ।।
दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम्।
आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च ।।
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि ।।
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च।
सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम ।।
दक्षिणेनाथ वामेन कतमेन स्विदस्यति।
इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे ।।
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम्।
नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम् ।।
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम्।
वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः ।।
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः।
मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः ।।
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् ।
रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम्।
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ।।
जयतो भारतीं सेनामेकस्य मम संयुगे।
शतं मार्गा भविष्यन्ति पावकस्येव कानने ।।
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ।
तानहं रथनीडेभ्यः परलोकाय शात्रवान्।
एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान् ।।
असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च।
मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम् ।।
अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान्।
मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा ।।
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः ।
परं पारे समुद्रस्य हिरण्यपुरमारुजम् ।।
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम्।
पौलोमान्कालकेयांश्च समरे भृशदारुणान् ।
असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे ।।
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् ।
प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः ।।
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि ।
सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि ।।
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः।
अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् ।।
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः ।
कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् ।।
वैशंपायन उवाच।
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना।
व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः ।।
रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे।
अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः ।।
दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभः ।।
अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः ।
अभ्ययुर्भीमधन्वानो मौवी पर्यस्य बाहुभिः ।।
दुःशासनो विकर्णश्च वृषसेनो विविशतिः।
अभीता भीमधन्वानं पाण्डवं पर्यवारयन् ।।
तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत्।
अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः ।।
पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् ।
द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे ।।
तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम्।
प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम्।।
अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।
सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः ।।
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपाराजितः।
तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः।
विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः ।।
ततस्तमपि कौन्तेयः शरेण नतपर्वणा ।
ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात् ।।
ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः।
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ।।
तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः।
विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत् ।।
तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ ।
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ।।
व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा ।
विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् ।।
किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् ।
पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान् ।।
अशेरत महावीराः शतशो रुक्ममालिनः ।।
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः।
रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ ।।
सुनसं चारुदीप्ताश्चं क्लृप्तश्मश्रु स्वलंकृतम् ।
अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम् ।।
एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात्।।
अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा।
द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे ।।
सहिता विजयं तत्र योधयन्तो महारथाः।
विष्फारयन्तश्चापानि बलवन्ति महाबलाः ।।
ततः कीर्णपताकेन रथेनादित्यवर्चसा।
पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम् ।।
ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम्।
अभ्यवर्षन्सुसंक्रुद्धा महामेघा इवाचलम् ।।
शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः ।
युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम् ।।
इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः ।
अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन् ।।
ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् ।
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् ।।
नाक्षणां न च चक्राणां न रथानां न वाजिनाम् ।
अङ्गुलाद्दव्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत ।।
यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम्।
एवं किरीटिना मुक्तं सर्वं प्राच्छादयञ्जगत् ।।
यथा बलाहके विद्युत्पावको वा शिलोच्चये।
तथा गाण्डीवमभवच्चक्राभुधमिवाततम् ।।
यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते।
विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत्।।
त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति।
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः।।
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ ।
प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि पञ्चषष्टितमोऽध्यायः ।।