विराटपर्व

अध्यायः ६३

Virata Parva (Sanskrit) · Adhyaya 63
अक्षर का आकार

वैशंपायन उवाच।

ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्।
समार्पयन्महावेगाज्ज्वलतः पन्नगानिव ।।

ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः।
ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान् ।।

सारथिं च हयांश्चास्य विव्याध दशभिः शरैः ।
उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः ।।

ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम्।
ध्वजं च सारथिं चापि विव्याध दशभिः शरैः ।।

तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम्।
भीष्मस्य सह पार्थेन बलिवासवयोरिव ।।

सन्ततं शरजालाभिराकाशं समपद्यत।
अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः ।।

भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे।
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ।।

अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे ।
गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः ।।

पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।
अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः ।।

तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् ।
व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत् ।।

ततस्तानि विसृष्टानि शरजालानि सङ्घशः।
आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति ।।

ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः ।
पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः ।।

ततः प्रासृजदुग्राणि शरजालानि पाण्डवः।
तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् ।।

साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः ।
प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः ।।

ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन्।
दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत् ।।

बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः।
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ।।

ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् ।
आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात् ।।

अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ ।
चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ ।।

प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् ।
कौबेरं वारुणं चैव याम्यं वायव्यमेव च ।
प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः ।।

विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा।
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ।।

नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे।
महास्राणां संप्रयोगं समरे भीष्मपार्थयोः ।।

एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ।।

अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् ।
न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम् ।।

निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे।
समादाय नरव्याघ्रः सज्यं चक्रे महाबलः ।।

शरांश्च सुबहुन्क्रुद्धो मुमोचाशु धनंजये ।
अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून्।
चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे ।।

तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् ।
न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः ।।

अथावृणोद्दश दिशः शरैरतिरथस्तदा ।
किरीटमाली कौन्तेयः शूरं शान्तनवं तथा ।।

अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् ।
बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम् ।।

पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः।
शेरते स्म महाबाहो कौन्तेयस्याभितो रथम् ।।

ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः।
असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः ।।

निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः।
आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः ।।

तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः ।
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ।।

तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय चित्रसेनः प्रतापवान् ।।

पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः ।
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ।।

नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते।
सौराणां च महास्राणां विचित्रोऽयं समागमः ।।

मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम् ।।

उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् ।
उभौ विचित्रकर्माणावुभौ युधि दुरासदौ ।।

इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्।
पूजयामास दिव्येन पुष्पवर्षेण भारत ।।

[अश्वत्थामा ततोऽभ्येत्य द्रुतं कर्णमभाषत ।
अहमेको हनिष्यामि समेतान्सर्वपाण्डवान् ।।

इति कर्म समक्षं मे सभामध्ये त्वयोदितम् ।
न तु तत्कृतमेकस्माद्भीतो धावसि सूतज ।।

वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् ।
जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम् ।।

अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा ।
प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया ।।

मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः ।
मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति ।।

शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते।
पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः ।।

तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् ।
राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ।।]

ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत्।
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः

ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम्।
न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः ।।

अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे।
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ।।

स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् ।
गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः ।।

तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ।।

पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे।
शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने ।।

यस्य नास्ति समो लोके पितृदत्तवरश्च यः।
जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः ।
यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः ।।

दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे।
पृथासुतहितार्थाय पराजित इवाभवत् ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि त्रिषष्टितमोऽध्यायः ।।