विराटपर्व

अध्यायः ४२

Virata Parva (Sanskrit) · Adhyaya 42
अक्षर का आकार

वैशंपायन उवाच।

अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत्।
मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् ।।

अर्जुन उवाच।

अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम्।
पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् ।।

अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम्।
सर्वायुधमहामात्रं शातकुम्भमयं धनुः ।।

एतच्छतसहस्रेण संमितं राष्ट्रवर्धनम् ।
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।।

येन देवासुरान्पार्थः सर्वान्विषहते रणे।
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ।।

उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च ।
सोमः पञ्चसहस्राणि तथा च वरुणः शतम् ।।

तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम्।
अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् ।
पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति ।।

एवंवीर्यं महावेतेतच्च धनुरुत्तमम् ।
नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः ।।

बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः ।
विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् ।।

सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ।।

येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः।
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः ।।

पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम्।
तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् ।।

दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः ।।

नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः।
एतेन सदृशं चित्रं धनुरेतद्यवीयसः।
हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः ।।

विपाठा भीमसेनस्य गिरीणामपि दारणाः ।
सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः ।
भीमेन प्रहिता ह्येते वारणानां निवारणाः ।।

सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः ।
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः ।।

यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान्।
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः ।।

यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः।
पार्थस्यायं महाघोरः सर्वभारसहो महान् ।।

यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः।
राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः ।

वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः ।
वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने ।।

नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः।
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः ।।

दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः ।
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः ।।

यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः ।।
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः ।।

यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः।
सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक ।
भीमस्यायं महादण्डः सर्वामित्रविनाशनः ।।

वैशंपायन उवाच।

भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः ।
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि द्विचत्वारिंशोऽध्यायः ।। 42 ।।