विराटपर्व
अध्यायः ३९
वैशंपायन उवाच।
स राजधान्य निर्याय वैराटिरकुतोभयः।
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ।। 1 ।।
समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै।
गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ।। 2 ।।
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ।। 3 ।।
ते हया नरसिंहेन चोदिता वातरंहसः।
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ।। 4 ।।
नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ ।
अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् ।। 5 ।।
श्मशानमभितो गत्वा शूरौ ददृशतुःकुरून् ।। 6 ।।
तदनीकं महत्तेषां विस्तृतं सागरोपमम् ।
सर्पमाणमिवाकाशे वनं बहुलपादपम् ।। 7 ।।
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता।
दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम ।। 8 ।।
तदनीकमथो वीक्ष्य गजाश्वरथसंकुलम् ।
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ।
द्रोणेन सह पुत्रेण महेष्वासेन धीमता ।। 9 ।।
हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा।
कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् ।। 10 ।।
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे।
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्।
प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् ।। 11 ।।
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम्।
देवैरपि सहेन्द्रेण न शक्यं किंपुनर्नरैः ।। 12 ।।
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे ।। 13 ।।
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ।
दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः ।। 14 ।।
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
मत्ता इव महानागा युक्तध्वजपताकिनः ।। 15 ।।
नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः ।
ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः ।। 16 ।।
दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः ।
हृषितानि च रोमाणि कश्मलेनाहतं मनः ।। 17 ।।
वैशंपायन उवाच।
दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम्।
परिदेवयते मन्दः सकाशे सव्यसाचिनः ।। 18 ।।
त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम्।
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ।। 19 ।।
अहमेको बहून्बालः कृतास्त्रानकृतश्रमः।
प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले ।। 20 ।।
वैशंपायन उवाच।
तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत।
संप्रहस्य पुनस्तं वै सर्वलोकमहारथः ।। 21 ।।
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः ।
न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ।। 22 ।।
स्वयमेव च मामात्थ नय मां कौरवान्प्रति ।
सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ।। 23 ।।
मध्यमामिषगृध्रूनां कुरूणामाततायिनाम् ।
नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव।
समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम ।। 24 ।।
स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम्।
विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे ।। 25 ।।
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च।
रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे ।। 26 ।।
न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि।
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः ।। 27 ।।
अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि ।
नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ।। 28 ।।
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः ।
कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव ।। 29 ।।
उत्तर उवाच।
कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम्।
प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ।। 30 ।।
संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे ।
नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले ।। 31 ।।
वैशंपायन उवाच।
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली।
त्यक्त्वा मानं सुसंत्रस्तो विसृज्य सशरं धनुः ।। 32 ।।
अर्जुन उवाच।
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम्।
श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् ।। 33 ।।
वैशंपायन उवाच।
एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात्।
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ।
दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी ।। 34 ।।
विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् ।
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा।
सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् ।। 35 ।।
तं च शीघ्रं प्रधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् ।
कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् ।। 36 ।।
क एष वेषसंच्छन्नो भस्मनेव हुताशनः।
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ।। 37 ।।
इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् ।
आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः ।। 38 ।।
किं विचारेण वः कार्यमेतेनानुसृतेन वा।
धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् ।
वेणीकलापं निर्धूय प्रविभाति नरर्षभः ।। 39 ।।
आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च।
रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः ।। 40 ।।
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ ।
तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ।। 41 ।।
अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः।
एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् ।। 42 ।।
द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान्।
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ।। 43 ।।
स एष किल निर्यातो बालभावान्न पौरुषात्।
क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः ।। 44 ।।
छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् ।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ।। 45 ।।
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः।
स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति ।। 46 ।।
कृप उवाच।
नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः।
सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति ।। 47 ।।
वैशंपायन उवाच।
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक्।
न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते ।। 48 ।।
दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् ।
अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ।। 49 ।।
अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम्।
शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ।। 50 ।।
वैशंपायन उवाच।
छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः।
अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः।
इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः ।। 51 ।।
दृढेवधी महासत्त्वः शक्रतुल्यपराक्रमः ।
अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् ।। 52 ।।
न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् ।। 53 ।।
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः।
गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ।। 54 ।।
मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले।
इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत्।
विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः ।। 55 ।।
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् ।
बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु ।। 56 ।।
सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते।
हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः ।। 57 ।।
शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च।
ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले ।। 58 ।।
षष्टिं स्वलंकृताः कन्या ग्राममेकं ददामि ते।
मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् ।। 59 ।।
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान्।
हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः ।। 60 ।।
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले ।
गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् ।। 61 ।।
एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः।
विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् ।। 62 ।।
मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः।
मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् ।। 63 ।।
अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः।
मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले ।। 64 ।।
प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् ।। 65 ।।
स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम्।
उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् ।
अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः ।। 66 ।।
वैशंपायन उवाच।
एवमादीनि वाक्यानि विलपन्तमचेतसम्।
प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् ।। 67 ।।
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ।। 68 ।।
अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् ।
आददानः किमर्थं त्वं पलायनपरोऽभवः ।। 69 ।।
युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति।
यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान्।
राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् ।। 70 ।।
सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् ।
जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् ।। 71 ।।
हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् ।। 72 ।।
अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि।
तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् ।। 73 ।।
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन।
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ।। 74 ।।
प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः ।
अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः ।
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परंतप ।। 75 ।।
अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् ।
प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् ।। 76 ।।
यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह।
शूरान्समरचण्डांश्च नयिष्ये यमसादनम् ।। 77 ।।
वैशंपायन उवाच।
एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः।
समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः ।। 78 ।।
इतस्ततो विवेष्टन्तमकामं भयपीडितम् ।
रथमारोपमायास पार्थः परपुरंजयः ।। 79 ।।
तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः।
गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति।
उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः ।। 80 ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकोनचत्वारिंशोऽध्यायः ।। 39 ।।