विराटपर्व

अध्यायः ३७

Virata Parva (Sanskrit) · Adhyaya 37
अक्षर का आकार

वैशंपायन उवाच।

याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति।
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ।। 1।।

भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ।। 2 ।।

विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ।। 3 ।।

सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः ।
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ।। 4 ।।

गवां शतसहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिगृह्य समन्ततः ।। 5 ।।

गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्संप्रहारे भयंकरे ।। 6 ।।

गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः।
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ।। 7 ।।

स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ।। 8 ।।

दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् ।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ।। 9 ।।

गवां शतसहस्राणि कुरबः कालयन्ति ते।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ।। 10 ।।

राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ।। 11 ।।

त्वां वै परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ।। 12 ।।

इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः।
समर्थः समरे योद्धुं कौरवैः सह तादृशै ।। 13 ।।

तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ।। 14 ।।

आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा।
निर्दर्हषामनीकानि भीमेन शरतेजसा ।। 15 ।।

धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ।। 16 ।।

पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ।। 17 ।।

निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते ।
श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ।। 18 ।।

रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ।। 19 ।।

रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ।। 20 ।।

त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ।। 21 ।।

यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः ।
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ।। 22 ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः ।। 37 ।।