विराटपर्व
अध्यायः ३२
वैशंपायन उवाच।
ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा।
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् ।। 1 ।।
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम्।
तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ।। 2 ।।
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् ।
नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् ।। 3 ।।
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता।
किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ।। 4 ।।
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु ।
गूढभावेषु छन्नेषु काले चोदयमागते ।। 5 ।।
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः ।
उदयः पाण्डवानां च प्राप्तकालो न संशयः ।। 6 ।।
निवृत्तसमयाः पार्था महात्मानो महाबलाः ।
महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ।। 7 ।।
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम्।
यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ।। 8 ।।
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः ।
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ।। 9 ।।
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत ।
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ।। 10 ।।
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः ।
साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ।। 11 ।।
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् ।
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ।। 12 ।।
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ।
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः।
अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ।। 13 ।।
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः।
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ।। 14 ।।
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः।
ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् ।
मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ।। 15 ।।
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि।
धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये ।
कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ।। 16 ।।
सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे।
सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ।। 17 ।।
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि।
उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले समः ।। 18 ।।
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् ।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ।। 19 ।।
अन्योन्यानन्तरबलाः परस्परजयैपिणः।
बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ।। 20 ।।
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम्।
मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ।। 21 ।।
तत्राहं कीचकं मन्ये भीमसेनेन मारितम्।
सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ।। 22 ।।
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः।
गन्धर्वव्यपदेशेन हतो निशि महाबलः ।। 23 ।।
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा ।
शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ।। 24 ।।
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् ।
रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ।। 25 ।।
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः ।
गन्धर्वव्यपदेशेन हता निशि न संशयः ।। 26 ।।
पितामहेन ये चोक्ता देशस्य च जनस्य च।
गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ।। 27 ।।
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः।
निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ।। 28 ।।
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम्।
गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः।। 29 ।।
अपूर्णे समये चापि यदि पश्येम पाण्डवान्।
द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ।। 30 ।।
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति।
कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ।। 31 ।।
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा।
एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ।। 32 ।।
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम्।
एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ।। 33 ।।
वैशंपायन उवाच।
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः।
पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च।
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ।। 34 ।।
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः ।
सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ।। 35 ।।
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो।
स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ।। 36 ।।
राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् ।। 37 ।।
प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवन्पुरा।
अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः ।
स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् ।। 38 ।।
तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः।
भविष्यति निरुत्साहो विराट इति मे मतिः ।। 39 ।।
तत्र यात्रा मम मता यदि ते रोचतेऽनघ।
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ।। 40 ।।
एतत्कार्यमहं मन्ये परमात्ययिकं महत्।
राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् ।। 41 ।।
आददामोऽस्य रत्नानि विविधानि वसूनि च।
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ।। 42 ।।
अथवा गोसहस्राणि बहूनि शुभदर्शन।
विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् ।। 43 ।।
कौरवैः सह संगमय त्रिगर्तैश्च विशांपते।
गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः ।। 44 ।।
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम्।
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ।। 45 ।।
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्।
भवतां बलवृद्धिश्च भविष्यति न संशयः ।। 46 ।।
वैशंपायन उवाच।
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ।। 47 ।।
सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः।
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीं ।। 48 ।।
यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते।
प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् ।। 49 ।
प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः।
आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः ।। 50 ।।
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्।
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपते ।। 51 ।।
किंनु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः।
अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ।। 52 ।।
तद्भवांश्चतुरङ्गेण बलेन महता वृतः।
विराटनगरं यातु सर्वसैन्येन भारत।
आदास्यामोऽथ गास्तस्य विविधानि वसूनि च ।। 53 ।।
वैशंपायन उवाच।
ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत्।
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम्।
शासने नित्ययुक्तं तु दुःशासनमनन्तरम् ।। 54 ।।
दुर्योधन उवाच।
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम्।
यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः ।। 55 ।।
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः।
त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः।
प्रागेव हि सुसंयत्तो विराटनगरं प्रति ।। 56 ।।
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे।
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ।। 57 ।।
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने।
विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ।। 58 ।।
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः।
गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ।। 59 ।।
तथा गत्वा यथोद्देशं विराटनगरान्तिके।
क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ।। 60 ।।
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च।
वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ।। 61 ।।
वैशंपायन उवाच।
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः।
संनद्धा रथिनः सर्वे सपताका बलोत्कटाः।
प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ।। 62 ।।
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ।। 63 ।।
अपरे दिवसे सर्वे राजन्संभूय कौरवाः।
नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः।
कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ।। 64 ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि द्वात्रिंशोऽध्यायः ।। 32 ।।