विराटपर्व
अध्यायः ३
वैशंपायन उवाच।
एवं निर्दिश्य चात्मानं निश्वसन्नुष्णमार्तिजम् ।
विमुञ्चन्नश्रु नेत्राभ्यां भीमसेनमुवाच ह ।।
भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि।
हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने ।।
यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात्।
प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि ।।
बकं राक्षसराजानं भीषणं पुरुषादकम् ।
जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम।
क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता ।।
हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम्।
त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् ।।
आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी ।
जटासुरवधं कृत्वा वयं च परिमोक्षिताः ।।
मत्स्यराजांन्तिके तात वीर्यपूर्णोऽत्यमर्षणः।
वृकोदर विराटस्य बलीयान्दुर्बलीयसः।
समीपे नगरे तस्य वत्स्यसे केन कर्मणा ।।
भीम उवाच।
सूदोऽहं वललो नाम्ना सूपकारो नराधिप।
उपस्थास्यामि राजानं विराटमिति रोचये ।।
रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा ।
सूपांश्चापि करिष्यामि कुशलोस्मि महानसे ।।
कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः ।
तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम् ।।
पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् ।
स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति ।।
आहरिष्यामि दारूणां पाटितानां शतंशतम्।
राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति ।।
ये च तस्य महामल्लाः समरेष्वपराजिताः ।
कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले ।।
रङ्गोपजीविनः सर्वे परेषां च भयावहाः ।
तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन् ।।
न च तान्युध्यमानोऽहं नयिष्ये यमसादनम्।
तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः ।।
वृषो वा महिषो वापि नागो वा षाष्टिहायनः ।
सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयः ।।
तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान्।
बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः ।।
आरालिका वा सूदा वा येऽस्य युक्ता महानसे।
तानहं प्रीणयिष्यामिं मनुष्यान्स्तेन कर्मणा ।।
आरालिको गोविकर्ता सूपकर्ता नियोधकः।
आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान् ।।
आत्मानमात्मना रक्षंश्चरिष्यामि विशांपते ।
इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा।
विराटनगरे च्छन्नो विराटस्य समीपतः ।।
युधिष्ठिर उवाच।
अग्निर्ब्राह्मणरूपेण प्रच्छन्नोऽन्नमयाचत।
महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे ।।
संशुश्रुवे च धर्मात्मा यस्तमर्थं चकार ह।
तस्मै ब्राह्मणरूपाय हुताशाय महायशाः ।
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ।।
यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत्।
स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति ।।
आशीविषसमस्पर्शो नागानामिव वासुकिः ।
दृष्टीविष इवाहीनामग्निस्तेजस्विनामिव ।।
समुद्र इव सिन्धूनां शैलानां हिमवानिव।
महेन्द्र इव देवानां दानवानां बलिर्यथा ।।
सुप्रतीको गजेन्द्राणां युग्यानां तुरगो यथा।
कुबेर इव यक्षाणां मृगाणां केसरी यथा ।।
राक्षसानां दशग्रीवो दैत्यानामिव शम्बरः ।
रुद्राणामिव कापाली विष्णुर्बलवतामिव ।।
रोषामर्षसमायुक्तो भुजङ्गानां च तक्षकः ।
वायुवेगबलोद्धृतो गरुडः पततामिव ।।
तपतामिव चादित्यः प्रजानां ब्राह्मणो यथा।
ह्रदानामिव पातालं पर्जन्यो नर्दतामिव ।।
आयुधानां वरो वज्रः ककुद्मांश्च गवां वरः।
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो यथा ।।
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा।
गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः।
ग्रहाणां प्रवरश्चन्द्रः सरसां मानसो यथा ।।
यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर ।
सोयमिन्द्रादनवमो वासुदेवाच्च भारत ।
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि।
ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतांवरः ।।
अवाप चास्त्रमस्त्रज्ञः सर्वज्ञः सर्वसंमतः ।
क्षिप्रं चाणु विचित्रं च ध्रुवं च वदतां वरः ।।
अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम्।
धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च ।।
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् ।
वसूनां नवमं मन्ये गिरीणामष्टमः स्मृतः ।।
यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ ।
दक्षिणश्चैव सव्यश्च बाहू अनडुहो यथा।
तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ ।
पीनौ परिघसङ्काशौ मृदुताम्रतलौ शुभौ ।।
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ।
गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः ।।
किंरूपधारी किंकर्मा किंचेष्टः किंपरायणः।
बीभत्सुर्भीमधन्वा च किं करिष्यति चार्जुनः ।
कुन्तीपुत्रो विराटस्य रमते केन कर्मणा ।।
अर्जुन उवाच।
इमौ किणीकृतौ बाहू ज्याघाततलपीडनात्।
नित्यं कञ्चुकसंछन्नौ नान्यथा गोप्तुमुत्सहे ।।
किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम् ।।
बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ ।
ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे ।।
उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके ।
वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ।।
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः ।
प्रजानां समुदाचारं बहुनर्मकृतं वदन् ।
रमयिष्यामि राजानमन्यं चान्तःपुरे जनम् ।।
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा ।
शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः ।।
स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः।
छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना ।।
युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका।
उषिताऽस्मीति वक्ष्यामि धर्मराजस्य संमता ।।
उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम्।
शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात्।
इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा ।।
एतेन विधिना छन्नः कृतकेन यथा नलः।
विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम् ।।
युधिष्ठिर उवाच।
वासुदेवसमो लोके यशसा विक्रमेण च।
सोयं राज्ये विराटस्य भवने भरतर्षभः ।।
मेरुः प्रच्छादित इव वसन्वज्रोण मुष्टिना।
आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि तृतीयोऽध्यायः ।।