विराटपर्व

अध्यायः २५

Virata Parva (Sanskrit) · Adhyaya 25
अक्षर का आकार

भीम उवाच।

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ।। 1 ।।

अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् ।
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ।। 2 ।।

यैषा नर्तनशालेह मत्स्यराजेन कारिता।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं ।। 3 ।।

तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम्।
तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ।। 4 ।।

संकेतं सूतपुत्रस्य कारयस्व शुभानने।
यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ।। 5 ।।

तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत्।
तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् ।। 6 ।।

आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति ।
कीचकस्य विनाशाय तथा कुरु नृपात्मजे ।। 7 ।।

वैशंपायन उवाच ।

तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ।
रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ।। 8 ।।

भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा।
द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ।। 9 ।।

तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः।
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ।। 10 ।।

यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् ।
न कंचिल्लभसे नाथमभिपन्ना बलीयसा ।। 11 ।।

प्रवादेन तु मात्स्यानामयं राजेति चोच्यते।
अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ।। 12 ।।

सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते।
न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ।। 13 ।।

अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते।
दासीशतं च ते दद्यां दासानामपि चापरम् ।। 14 ।।

रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः ।
सुदासानां सहस्रं च महिषाणां सहस्रकम् ।। 15 ।।

अन्तःपुरसहस्रं च हेमकूटसहस्रकम्।
तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ।। 16 ।।

द्रौपद्युवाच।

एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक।
न ते सखा वा भ्राता वा जानीयात्संगमं मया ।। 17 ।।

अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् ।
अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत।
एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ।। 18 ।।

कीचक उवाच।

एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे।
एकोऽहमागमिष्यामि शून्यमावसथं तव ।। 19 ।।

समागमार्थं रम्भोरु त्वया मदनदर्पितः।
यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ।। 20 ।।

द्रौपद्युवाच।

यदेतन्नर्तनागारं मात्स्यराजेन कारितम्।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं ।। 21 ।।

निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते।
तत्र दोषः परिहृतो भविष्यति न संशयः ।। 22 ।।

एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज ।
तत्राहं भविता तुभ्यं वशगा नात्र संशयः ।। 23 ।।

कीचक उवाच।

तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि।
एकः सन्नर्तनागारमागमिष्यामि भामिनि।
समागमार्थं सुश्रोणि शपे च सुकृतेन मे ।। 24 ।।

यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि।
सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम्।
अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै ।। 25 ।।

वासांसि च विचित्राणि मनोज्ञानि तवापि च।
यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ।। 26 ।।

द्रौपद्युवाच।

तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम्।
यन्नानुभूतं भवता जन्मप्रभृति कीचक ।। 27 ।।

वैशंपायन उवाच।

तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह।
क्षणमात्रं तदभवन्मासेनैव समं नृप ।। 28 ।।

कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः।
सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ।। 29 ।।

गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः।
अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः ।। 30 ।।

तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्।
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ।। 31 ।।

आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः ।
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ।। 32 ।।

कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः।
नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ।। 33 ।।

ततस्तु द्रौपदी गत्वा भीमसेनं महानसे।
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ।। 34 ।।

तमुवाच सुकेशान्ता कीचकस्य कृतो मया।
सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ।। 35 ।।

कालेन नियतं बद्धः कामेन च बलात्कृतः।
शून्यं स नर्तनागारमागमिष्यति कीचकः।
एको निशि महाबाहो कीचकं तं निषूदय ।। 36 ।।

तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम्।
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ।। 37 ।।

गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते।
स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ।। 38 ।।

अस्रं दुःखाभिभूताया मम मार्जस्व भारत।
बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम्।
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ।। 39 ।।

भीम उवाच।

स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम्।
नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ।। 40 ।।

सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे।
हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ।। 41 ।।

सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते।
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ।। 42 ।।

प्रसह्य निहनिष्यामि केशवः केशिनं यथा।
रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ।। 43 ।।

अहं भद्रे हनिष्यामि कीचकं मदनान्वितम्।
यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ।। 44 ।।

अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम्।
निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ।। 45 ।।

मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति।
दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम्।
कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ।। 46 ।।

नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम्।
कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः ।
काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ।। 47 ।।

त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम्।
निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ।। 48 ।।

द्रौपद्युवाच।

कीचकस्य वधं भीम यदि जानन्ति नागराः।
त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ।। 49 ।।

कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो।
निशि गूढं तथा भीम कीचकं तं निपातय ।। 50 ।।

अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः।
पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ।। 51 ।।

कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत।
भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ।। 52 ।।

यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम्।
तथा कुरुष्व कौरव्य बलवन्नरिमर्दन ।
अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ।। 53 ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि पञ्चविंशोऽध्यायः ।। 25 ।।