विराटपर्व

अध्यायः २२

Virata Parva (Sanskrit) · Adhyaya 22
अक्षर का आकार

वैशंपायन उवाच।

सा सूतपुत्राभिहता राजपुत्री सुदुःखिता।
वधं कृष्णा परीप्सन्ती सूतपुत्रस्य भामिनी ।। 1 ।।

जगामावासमेवाथ तदा सा द्रुपदात्मजा।
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा ।। 2 ।।

गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा।
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ।। 3 ।।

किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम।
इत्येवं चिन्तयित्वा सा भीमं तं मनसाऽगमत्।
अन्यः कर्ता विना भीमान्न मेऽद्य मनसेप्सितम् ।। 4 ।।

प्रादुर्भूते क्षणे रात्रौ विहाय शयनं स्वकम्।
दुःखेन महता युक्ता मानसेन मनस्विनी ।
प्राद्रवन्नाथमिच्छन्ती तथा नाथवती सती ।। 5 ।।

सा वै महानसं प्राप्य भीमसेनं सुचिस्मिता।
उपासर्पत पाञ्चाली वासितेव महागजम् ।। 6 ।।

सर्वश्वेतेव माहेयी वने वृद्धा त्रिहायणी।
महर्पभं यथा सुप्तमर्थिनी वननिर्झरे ।
संप्रसुप्तं तथा सिंहिं मृगराजवधूरिव ।। 7 ।।

अभिप्रसार्य बाहुभ्यां पतिं सुप्तं समाश्लिषत् ।
सुजातं गोमतीतीरे सालं वल्लीव पुष्पिता ।। 8 ।।

परिस्पृस्य च पाणिभ्यां पतिं सुप्तमबोधयत्।
श्रीरिवान्या महोत्साहं सुप्तं विष्णुमिवार्णवे ।
क्षौमावदाते शयने शयानं वृषभेक्षणम् ।। 9 ।।

यथा शची देवराजं रुद्राणी शंकरं यथा।
ब्रह्माणमिव सावित्री देवसेना गुहं यथा ।। 10 ।।

दिशागजसमाकारं गजं गजवधूरिव ।
भीमं प्राबोधयत्कान्ता लक्ष्मीर्दामोदरं यथा ।। 11 ।।

वीणेव मधुरालापा स्वरं गान्धारमाश्रिता।
अभ्यभाषत पाञ्चाली कौरवं पाण्डुनन्दनम् ।। 12 ।।

उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा।
न मृतः स हि पापीयान्भार्यामालम्ब्य जीवति ।। 13 ।।

तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि ।
तत्कर्मं कृतवत्यद्य कथं निद्रां निषेवसे ।। 14 ।।

वैशंपायन उवाच।

सुखसुप्तश्च तं शब्दं निशम्य स वृकोदरः।
संवेदितः कुरुश्रेष्ठः तोत्रैरिव महागजः ।। 15 ।।

स वै विहाय शयनं यस्मिन्सुप्तः प्रबोधितः।
उदतिष्ठदमेयात्मा पर्यङ्के सोत्तरच्छदे ।। 16 ।।

उपवेश्य च दुर्धर्पः पाञ्चालकुलवर्धनीम्।
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् ।। 17 ।।

केनार्थेन च संप्राप्ता त्वरितेव ममान्तिकम्।
न ते प्रकृतिमान्वर्णः कृशा त्वमभिलक्ष्यसे ।। 18 ।।

प्रकाशं यदि वा गुह्यं सर्वमाख्यातुमर्हसि।
आचक्ष्व त्वमशेषेण सर्वं विद्यामहं यथा ।। 19 ।।

सुखं वा यदि वा दुःखं शुभं वा यदि वाऽशुभम्।
यद्यप्यसुकरं कर्म कृतमित्यवधारय ।। 20 ।।

अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु।
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ।। 21 ।।

शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्।
गच्छ वै शयनायैव यावदन्यो न बुध्यते ।। 22 ।।

वैशंपायन उवाच।

सा लञ्जमाना भीता च अधोमुखमुखी ततः।
नोवाच किंचिद्वचनं बाष्पदूषितलोचना ।। 23 ।।

अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसंमतः।
प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि ।। 24 ।।

द्रौपद्युवाच।

अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः।
जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि ।। 25 ।।

यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत्।
सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति ।। 26 ।।

विकृष्टा हास्तिनपुरे सभायां राजसंसदि।
दुःशासनेन केशान्ते परामृष्टा रजस्वला ।। 27 ।।

क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च।
श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता।
द्रोणेन च महाबाहो कृपेण च परंतप ।। 28 ।।

साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव।
केशे गृहीत्वा च सभां नीता जीवति वै त्वयि ।। 29 ।।

विप्रयुक्ता ततश्चाहं वने राज्याद्वनं गता।
साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता ।
जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् ।। 30 ।।

पार्थिवस्य सुता नाम कानु जीवेन मादृशी ।
अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो।। 31 ।।

वनवासगता चाहं सैन्धवेन दुरात्मना।
परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का ।। 32 ।।

पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् ।
दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे ।। 33 ।।

ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना।
इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका।
परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ।। 34 ।।

गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्।
नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ।। 35 ।।

साऽहं बहूनिः दुःखानि गणयामि न ते कृते ।। 36 ।।

मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः।
कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ।। 37 ।।

एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव ।
न मां जानासि कौन्तेय किं फलं जीवितेन मे ।। 38 ।।

द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा।
अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ।। 39 ।।

कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये।
विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं ।। 40 ।।

आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते ।
शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ।। 41 ।।

योऽयं राज्ञो विराटस्य कीचको नाम भारत।
सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ।। 42 ।।

स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि।
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ।। 43 ।।

तेनैवमुच्यमानाया वधार्हेणारिसूदन।
कालेनेव फलं पक्वं हृदयं मे विदीर्यते ।। 44 ।।

शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम्।
निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन ।। 45 ।।

मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् ।। 46 ।।

विजानामि तवामर्षं बलं वीर्यं च पाण्डव।
ततोऽहं परिदेवामि चाग्रतस्ते महाबल ।। 47 ।।

यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः।
भूमौ निपतितं बिल्वं पद्भ्यमाक्रम्य पीडयेत् ।। 48 ।।

तथैव च शिरस्तस्य निपात्य धरणीतले।
वामेन पुरुषव्याघ्र मर्द मादेन पाण्डव ।। 49 ।।

स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति।
कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे ।। 50 ।।

शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च।
युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च।
कीचकस्य वधं नाद्य प्रतिजानासि भारत ।। 51 ।।

भ्रात च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम्।
यस्मास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ।। 52 ।।

येषां मुख्यतमो ज्येष्ठो भवेत्तु कुलपांसनः।
भ्रातरं परमन्वीयुस्तेऽपि शालीनबुद्धयः ।। 53 ।।

को हि राज्यं परित्यज्य सपुत्रपशुबान्धवम् ।
प्रव्रजेत महारण्यमजिनैः परिवारितः ।। 54 ।।

यदि निष्कसहस्राणि यद्वाऽन्यत्सारवद्धनम् ।
सायं प्रातरदेविष्यदपि संवत्सरायुतम् ।। 55 ।।

रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् ।
अश्वाश्वतरसङ्घाश्च न जातु क्षयमाव्रजेत्।। 56 ।।

सोयं द्यूतप्रवादेन श्रियश्चैवावरोपितः।
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ।। 57 ।।

पुरा दशसहस्राणि दन्तिनां वाजिनामपि।
यं यान्तमनुयान्ति स्म सोयं द्यूतेन जीवति ।। 58 ।।

तथा शतसहस्राणि स्त्रीणाममिततेजसाम्।
उपासते स्म राजानमिन्द्रप्रस्थे युधिष्ठिरम् ।। 59 ।।

शतं दासीसहस्राणां यस्य नित्यं महानसे।
पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ।। 60 ।।

एष निष्कसहस्राणि दत्त्वा प्रातर्दिनेदिने ।
द्यूतजेन ह्यनर्थेन महता समुपावृतः ।। 61 ।।

एनं सुस्वरसंपन्ना बहवः सूतमागधाः।
सुप्तं प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ।। 62 ।।

[सहस्रं वालखिल्यानां सहस्रमुदवासिनाम्।
सहस्रमश्मकुट्टानां सहस्रं वायुभोजिनाम् ।। 63 ।।

सहस्रं मुनिपत्नीनां सहस्रं ब्रह्मचारिणाम्।
सहस्रं मौनशीलानां सहस्रं गृहमेधिनाम् ।। 64 ।।

हंसाः परमहंसाश्च योगिनश्च द्विजातयः।
कुटीरकाः परिव्राजो ये चान्ये वनचारिणः ।। 65 ।।

संविभक्तात्मकाश्चैव बहवश्चोर्ध्वरेतसः ।
चतुर्वेदविदो विप्राः शिक्षामीमांसपारगाः ।
क्रमपाठाश्च ये विप्राः सामाध्यायनिकाश्च ये ।। 66 ।।]

सहस्रमृषयो यस्य नित्यमासन्सभासदः।
तपःश्रुतोपसंपन्नाः सर्वकामैरुपास्थिताः ।। 67 ।।

अन्धान्वृद्धाननाथांस्तु सर्वराष्ट्रेषु दुःखितान्।
बिभर्त्यन्नार्थिनो नित्यमानृशंस्याद्युधिष्ठिरः ।। 68 ।।

स एष निलयं प्राप्तो मत्स्यस्य परिचारकः।
सभायां विनतो राज्ञः कङ्को नाम युधिष्ठिरः ।। 69 ।।

इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः।
आसन्बलिकराः सर्वे सोन्येभ्यो भृतिमिच्छति ।। 70 ।।

पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः।
स वशे विवशो राज्ञां परेषामद्य वर्तते ।। 71 ।।

संप्राप्य पृथिवीं कृत्स्नां रश्मिवानिव तेजसा।
सोद्य राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ।। 72 ।।

यमुपासत राजानं सभायामृषिसत्तमाः।
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ।। 73 ।।

अनवद्यं महाप्राज्ञं जीवितार्थेन संवृतम् ।
दृष्ट्वा कस्य न दुःखं स्याद्धर्मराजं युधिष्ठिरम् ।। 74 ।।

उपास्ते स्म सभायां यं कृत्स्नाऽपि च वसुन्धरा।
तमुपासीनमद्यान्यं पश्य भारत भारतम् ।। 75 ।।

एवं बहुविदैर्दुःखैः पीड्यमानामनाथवत्।
शोकसागरमध्यस्थां किं मां भीम न पश्यसि ।। 76 ।।

इदं तु मे दुःखतरं यत्त्वां वक्ष्यामि भारत।
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ।। 77 ।।

शार्दूलैर्महिषैर्नागौरगारे योत्स्यसे सदा।
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलोऽभवत् ।। 78 ।।

हसन्त्यन्तःपुरे नार्यो मम चेष्टां निरीक्ष्य च ।। 79 ।।

तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत।
प्रेक्ष्य मामनवद्याङ्गीं कश्मलाभिहतामिव ।। 80 ।।

स्नेहात्संवासजादेव तदा वै चारुहासिनी ।
युध्यमानं महावीर्यमिमं समनुशोचति ।। 81 ।।

कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः।
स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ ।। 82 ।।

सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी।
अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ ।। 83 ।।

इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् ।
क्रुध्यन्तीं मां च संप्रेक्ष्य पर्यशङ्कत मां त्वयि ।। 84 ।।

तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः।
नोवाच किंचिद्वचनं संरम्भाद्रक्तलोचनः ।। 85 ।।

ज्ञात्वा-तु रुषितं भीमं द्रौपदी पुनरब्रवीत्।
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ।। 86 ।।

यंस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत्।
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ।। 87 ।।

योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्।
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ।। 88 ।।

यस्माद्भयममित्राणां सदैव पुरुषर्षभात्।
स लोकपरिभूतेन वेषेणास्ते धनंजयः ।। 89 ।।

यस्यं ज्यातलनिर्घोषात्समकम्पन्त शत्रवः।
षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् ।
कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् ।। 90 ।।

स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते ।। 91 ।।

किरीटं सूर्यसंकाशं यस्य मूर्धन्यशोभत।
वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ।। 92 ।।

यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि ।
आधारः सर्वविद्यानां यो धारयति कुण्डले ।। 93 ।।

यं वै राजसहस्राणि तेजसाऽप्रतिमं भुवि ।
समरे नातिवर्तन्ते वेलामिव महोर्मयः ।। 94 ।।

सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ।। 95 ।।

यस्य स्म रथनिर्घोषात्समकम्पत मेदिनी।
सपर्वतवनाकाशा सहस्थावरजङ्गमा ।। 96 ।।

यस्मिञ्जाते महेष्वासे कुन्त्याः प्रीतिरवर्धत।
न स शोचति मामद्य भीमसेन तवानुजः ।। 97 ।।

विभूषितमलंकारैः कुण्डलैः परिपातुकैः।
कम्बुपाणिमथायान्तं दृष्ट्वा सीदति मे मनः ।। 98 ।।

वेणीविकृतकेशान्तं भीमधन्वानमर्जुनम्।
कन्यापरिवृतं दृष्ट्वा शोकं गच्छति मे मनः ।। 99 ।।

यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम्।
प्रच्छन्नमिव मातङ्गं परिपूर्णं करेणुभिः ।। 100 ।।

मात्स्यं पार्थं च गायन्तं विराटं समुपस्थितम्।
पश्यामि तूर्यमध्यस्थं दृष्ट्वा मुह्यति मे मनः ।। 101 ।।

नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम्।
अजातशत्रुं कौरव्यं मग्नं द्युर्द्यूतदेविनम् ।। 102 ।।

ऐन्द्रवारुणवायव्यब्रह्माग्नेयैः सवैष्णवैः ।
अग्नीन्संतर्पयन्पार्थः सर्वशत्रुनिबर्हणः।
दिव्यैरस्त्रैरमेयात्मा सर्वांश्चैकरथोऽजयत् ।। 103 ।।

कौबेरं वैष्णवं शैवमस्त्राण्यन्यानि भारत।
दर्शयन्नस्त्रवीर्यं च वासुदेवसहायवान् ।। 104 ।।

दिव्यं गान्धर्वमस्त्रं च वायव्यमथ वैष्णवम्।
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दर्शयन् ।। 105 ।।

पौलोमान्कालकेयांश्च इन्द्रशत्रून्महाबलान्।
निवातकवचैः सार्धं घोरानेकरथोऽजयत्।
सोन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ।। 106 ।।

यो वै महातपः कुर्वन्महाबलपराक्रमः ।
युद्धेन तोषयामास शंकरं शूलपाणिनम् ।। 107 ।।

कन्यापुरगतं दृष्ट्वा गोष्ठेष्विव महावृषम्।
स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः ।। 108 ।।

यः स्त्रीभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया ।
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ।। 109 ।।

राजकन्याश्च वेश्याश्च विशां दुहितरश्च याः।
सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः ।
प्रेष्यकर्मणि तं दृष्ट्वा शोचामि विलपामि च ।। 120 ।।

विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनम्।
अभ्यकीर्यन्त बृन्दानि दामग्रन्थिमुदीक्षितुम् ।
विनयन्तं जवेनाश्वान्धर्मराजस्य पश्यतः ।। 111 ।।

किंनु मां मन्यसे पार्थ सुखितेति परन्तप।
तथा दृष्ट्वा यवीयांसं सहदेवं युधांपतिम् ।। 112 ।।

तं दृष्ट्वा गोषु गोसङ्ख्यं वत्सचर्मक्षितीशयम्।
दुःखशोकपरीताङ्गी पाण्डुभूताऽस्मि पाण्डव ।। 113 ।।

सहदेवस्य वृत्तानि चिन्तयन्ती पुनःपुनः ।
न पश्यामि महाभाग सहदेवस्य दुःष्कृतम्।
यस्मादेवंविधं क्लेशं प्राप्नुयात्सत्यविक्रमः ।। 114 ।।

दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम्।
गोषु गोवृषसंकाशं मात्स्येनापि निवेशितम् ।। 115 ।।

संरब्धतररक्ताक्षं गोपालानां पुरोगमम्।
विराटमभिनन्दन्तं वित्ते मे भवति ज्वरः ।। 116 ।।

सहदेवं हि मे नित्यं वीरमार्या प्रशंसति।
महाभिजनसंपन्नो नीतिमान्कुलवानपि ।। 117 ।।

हीनिषेवो ह्यनवमो धार्मिकश्च प्रियश्च मे।
स तेऽरण्येषु वोढव्यः पाञ्चालि रजनीष्वपि ।। 118 ।।

सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः।
ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः ।। 119 ।।

इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी।
प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती ।। 120 ।।

तं दृष्ट्वा गोषु गोपालवेषमास्थाय धिष्ठितम्।
सहदेवं युधांश्रेष्ठं किंनु जीवामि पाण्डवः ।। 121 ।।

एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ।। 122 ।।

पुनः प्रतिविशिष्टानि दुःखानि शृणु भारत।
वर्धन्ते मयि कौन्तेय वक्ष्याम्यन्यानि तानि वै ।। 123 ।।

युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत।
शोषयन्ति शरीरं मे किंनु दुःखतरं ततः ।। 124 ।।

एकभर्ता तु या नारी सा सुखेनैव वर्तते।
पञ्च मे पतयः सन्ति मम दुःखमनन्तकम् ।। 125 ।।