विराटपर्व
अध्यायः १
।। श्रीवेदव्यासाय नमः ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।
।। जनमेजय उवाच ।
कथं विराटनगरे मम पूर्वपितामहाः ।
अज्ञातवासमुषिता दुर्योधनभयार्दिताः ।।
पतिव्रता महाभागा सततं सुखभागिनी ।
द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् ।।
ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह।
अज्ञातवासमुषिताः कथं च परिचारकाः ।।
वैशंपायन उवाच।
यथा विराटनगरे तव पूर्वपितामहाः ।
अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु ।।
तथा स तान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः।
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः ।।
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः।
अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत् ।।
ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः।
समाहूयानुजान्सर्वानिति होवाच भारत ।।
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ।।
उषिताश्च वने वासं यथा द्वादश वत्सरान्।
अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम् ।।
वैशंपायन उवाच।
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः।
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ।।
उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः ।
ये तत्र ब्राह्मणा आसन्वनवाससहायिनः ।
ये च भक्ता वसन्ति स्म वनवासे तपस्विनः ।।
तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः ।
0
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् ।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ।।
उषिताश्च वने वासं यथा द्वादशवत्सरान् ।
भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः ।।
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम्।
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ।।
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ।।
युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च ।
दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति ।।
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह।
समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि ।।
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा।
संमूर्च्छितोऽभवद्राजा सास्रकण्ठो युधिष्ठिरः ।।
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ।।
प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् ।
प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः ।।
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा।
आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह ।।
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः।
नैवंविधाः प्रमुह्यन्ति धीराः कस्यांचिदापदि ।।
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा।
तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः ।।
दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः।
ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च ।।
इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे।
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ।।
प्रसादाद्ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् ।
निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च ।।
विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता।
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ।।
प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा।
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ।।
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा।
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ।।
प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे।
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ।।
हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम्।
विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम् ।।
यथा विवस्वता तात छन्नेनोत्तमतेजसा।
निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः ।।
विष्णुना वसता चात्र गृहे दशरथस्य वै।
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ।।
एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि।
अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि ।।
वैशंपायन उवाच।
इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः।
शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः ।।
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः।
राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् ।।
अवेक्षय महाराज तव गाण्डीवधन्वना।
धर्मार्थपरया बुद्ध्या न किंचित्साहसं कृतम् ।।
सहदेवो मया नित्यं नकुलश्च निवारितौ ।
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ।।
न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् ।
तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान् ।।
इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः ।
सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः ।।
ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः ।
तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः ।
अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः ।।
विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम्।
संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः ।
उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश ।।
अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम्।
तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ ।।
इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः ।
प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान् ।।
सर्वे वेदविदो मुख्या यतयो मुनयस्तदा।
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ।।
ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः।
अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः ।।
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः।
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ।।
क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः ।
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ।।
पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः ।
सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन् ।।
।। इति श्रीमन्महाभारते
विराटपर्वणि
पाण्डवप्रवेशपर्वणि प्रथमोऽध्यायः ।। 1 ।।