उद्योगपर्व
अध्यायः ९७
वैशंपायन उवाच।
जामदग्न्यवचः श्रुत्वा कण्वेऽपि भगवानृषिः ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ।।
कण्व उवाच।
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः।
तथैव भगवन्तौ तौ नरनारायणावृषी ।।
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः।
अजथ्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ।।
निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम् ।
वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा ।।
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा।
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ।।
मुहूर्तमरणास्त्वन्ये मानुषा मूगपक्षिणः।
तैर्यग्योन्याश्च ये चान्ये जीवलोकचरास्तथा ।।
भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये।
तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते ।।
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हसि ।
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धरान् ।।
बलवानहमित्येव न मन्तव्यं सुयोधन ।
बलवन्तो बलिभ्यो हि दृश्यन्ते पूरुषर्षभ ।।
न बलं बलिनां मध्ये बलं भवति कौरव ।
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ।।
मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः।
तस्यैकैव कुले मन्या रूपतो लोकविश्रुता ।।
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी ।
श्रिया च वपुषा चैव स्त्रियोऽन्याःसाऽतिरिच्यते ।।
तस्याः प्रदानसमयं मातलिः सह भार्यया ।
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ।।
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्।
नराणां मृदुसत्वानां कुले कन्याप्ररोहणम् ।।
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते।
कुलत्रयं संशयितं कुरुते कन्यका सताम् ।।
देवमानुषलोकौ द्वौ मानुषेणैव चक्षुषा।
अपगाह्यैव विचितौ न च मे रोचते वरः ।।
कण्व उवाच।
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान्।
अरोचयद्वरकृते तथैव बहुलानृषीन् ।।
भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया ।
मातलिर्नागलोकाय चकार गमने मतिम् ।।
न मे देवमनुष्येषु गुणकेश्याः समो वरः।
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ।।
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम्।
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि सप्तनवतितमोऽध्यायः ।।