उद्योगपर्व
अध्यायः ९५
वैशंपायन उवाच।
तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु।
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ।।
जीमूत इव धर्मान्ते सर्वां संश्रावयन्सभाम् ।
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ।।
श्रीभगवानुवाच।
कुरूणां पाण्डवानां च शमः स्यादिति भारत ।
अप्रणशेन वीराणामेतद्याचितुमागतः ।।
राजन्नान्यत्प्रवक्तव्यं तव नैःश्रेयसं वचः ।
विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम।।
इदं ह्यद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव ।
श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः ।।
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत ।
तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ।।
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति।
त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम् ।।
त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम।
मिथ्याप्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ।।
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः।
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ।।
अशिष्टा गतमर्यादा लोभेन हृतचेतसः।
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ पुरुषर्षभ ।।
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ।।
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत ।
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ।।
त्वय्यधीनः शमो राजन्मयि चैव विशांपते ।
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ।।
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः ।
हितं बलवदप्येषां तिष्ठतां तव शासने ।।
तव चैव हितं राजन्पाण्डवानामथो हितम् ।
शमे प्रयतमानस्य तव शासनकाङ्क्षिणः ।।
स्वयं निष्फलमालक्ष्य संविधत्स्व विशांपते ।
सहायभूता भरतास्तवैव स्युर्जनेश्वर ।।
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः ।
न हि शक्यास्तथाभूता यत्नादपि नराधिप ।।
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः ।
इन्द्रोपि देवैः सहितः प्रसहेत कुतो नृपाः ।।
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ।।
सैन्धवश्च कलिङ्गश्च काम्भोजश्च सुदक्षिणः ।
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ।।
सात्यकिश्च महातेजा युयुत्सुश्च महारथः ।
को नु तान्विपरीतात्मा युद्ध्येत भरतर्षभ ।।
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्यधृष्यताम्।
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ।।
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते ।
श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ।।
स त्वं पुत्रैश्च पौत्रैश्च पितृभिर्भ्रातृभिस्तथा ।
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुं ।।
एतानेव पुरोधाय यत्कृत्य च यथा पुरा।
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ।।
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत ।
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ।।
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप ।
यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप ।।
संयुगे वै महाराज दृश्यते सुमहान्क्षयः।
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ।।
पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः ।
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ।।
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः।
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ।।
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे।
क्षीणानुभयतः शूरान्राथिनो रथिभिर्हतान् ।।
समवेताः पृथिव्यां हि राजानो राजसत्तम ।
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ।।
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः।
त्वयि प्रकृतिमापन्ने शेषः स्यात्कुरुनन्दन ।।
शुक्ला वादन्या ह्रीमन्त आर्याः पुण्याभिजातयः ।।
अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ।।
शिवेनेमे भूमिपालाः समागम्य परस्परम्।
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ।।
सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ ।
अमर्षं च निराकृत्य वैराणि च परन्तप ।।
हार्दं यत्पाण्डवेष्वासीत्प्राप्तोऽस्मिन्नायुषः क्षये ।
तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ ।।
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः ।
तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ।।
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः।
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ।।
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च।
भवतः शासनाद्दुःखसमुभूतं सहानुगैः ।।
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः।
त्रयोदशं तथाऽज्ञातैः सजने परिवत्सरम् ।।
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः ।
नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ।।
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ ।
नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि ।
त्वं धर्ममर्थं संजानन्सम्यङ्वस्त्रातुमर्हसि ।।
गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ।
स भवान्मातृपितृव्रदस्मासु प्रतिपद्यताम् ।।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ।
वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा ।।
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः ।
संस्थापय पथिप्वस्मांस्तिष्ठ धर्मे सुवर्त्मनि ।।
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ ।
धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् ।।
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।।
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते।
नचास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ।।
धर्म एतानारुजति यथा नद्यनुकूलजान् ।।
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ।
ते सत्यमाहुर्धर्म्यं च न्याय्यं च भरतर्षभ ।।
शक्यं किमन्यद्वक्तुं ते दानादन्यञ्जनेश्वर ।
ब्रुवन्तु ते महीपालाः सभायां ये समासते ।।
धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् ।
प्रमुञ्चोमान्मृत्युपाशात्क्षत्रियान्पुरुषर्षभ ।।
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ।
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् ।
ततः सपुत्रः सिद्धार्थो भुङ्क्ष भोगान्परन्तप ।।
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा।
सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ।।
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः ।
इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ।।
स तत्र विवसन्सर्वान्वशमानीय पार्थिवान्।
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ।।
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता।
राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ।।
स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभां गताम्।
क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः।।
अहं तु तव तेषां च श्रेय इच्छामि भारत ।
धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ।।
अनर्थमर्थं मन्वानोऽप्यर्थं चानर्थमात्मनः ।
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशांपते ।।
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः ।
यत्ते पथ्यतमं राजंस्तस्मिंतिष्ठ परन्तप ।।
वैशंपायन उवाच।
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन्।
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि पञ्चनवतितमोऽध्यायः ।।