उद्योगपर्व
अध्यायः ९
युधिष्ठिर उवाच।
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ।।
शल्य उवाच।
शृणु राजन्पुरावृत्तमितिहासं पुरातनम्।
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ।।
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ।।
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः ।
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ।।
वेदानेकेन सोऽधीते सुरामेकेन चापिबत्।
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ।।
स तपस्वी मुदुर्दान्तो धर्मे तपसि चोद्यतः ।
तपस्तस्य महत्तीव्रं सुदुश्चरमरिन्दम ।।
तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः ।
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ।।
कथं सज्जेच्च भोगेषु न च तप्येन्महत्तपः ।
विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत् ।।
इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ ।
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ।।
यथा स सज्जेत्रिशिराः कामभोगेषु वै भृशम् ।
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ।।
शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः ।
हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः ।।
प्रलोभयत भद्रं वः शमयध्वं भयं मम।
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः ।।
भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः ।
अप्सरस ऊचुः।
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने।
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ।।
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः।
तं प्रलोयितुं देव गच्छामः सहिता वयम् ।।
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ।
शल्य उवाच।
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्।
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ।।
नृत्तं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम्।
नाभ्यगच्छत्प्रहर्षं ताः स पश्यन्सुमहातपाः ।।
इन्द्रियाणि वशे कृत्वा पूर्णसागरसन्निभः।
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ।।
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन्।
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ।।
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ।
संपूज्याप्सरसः शक्रो विसृज्य च महामतिः ।।
चिन्तयामास तस्यैव वधोपायं युधिष्ठिर।
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् ।।
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत्।
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं नभविष्यति ।।
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा।
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ।।
अथ वैश्वानरनिभं घोररूपं भयावहम्।
मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति ।।
स पपात हतस्तेन वज्रेण दृढमाहतः।
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ।।
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम्।
न शर्म लेभे देवेन्द्रो दीपिततस्तस्य तेजसा ।।
हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते।
घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै ।।
` शिरांसि तस्याजायन्त त्रीण्येव शकुनास्त्रयः।
तित्तिरिः कलविङ्कश्च तथैव च कपिञ्जलः ।
विश्वरूपशिरांस्येव जायन्ते तानि भारत ' ।।
ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन्।
अथाजगाम परशुं स्कन्धेनादाय वर्धकिः ।।
तदरण्यं महाराज यत्रास्तेऽसौ निपातितः ।
स भीतस्तत्र तक्षाणं घटमानं शचीपतिः ।।
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ।।
तक्षोवाच।
महास्कन्धो भृशं ह्येष परशुर्नभविष्यति।
कर्तुं चाहं न शक्ष्यामि कर्म राद्भिर्विगर्हितम् ।।
इन्द्र उवाच।
मा भैस्त्वं शीघ्रमेतद्वै कुरुष्व वचनं मम।
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ।।
तक्षोवाच।
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ।।
इन्द्र उवाच।
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते।
कुरुष्वैतद्यथोक्तं मे तक्षन्माऽत्र विचारय ।।
` मया हि निहतः शेते त्रिशिरास्त्वं च विद्वि वै।
वैशंपायन उवाच।
स प्रह्वः प्राञ्जलिर्भूत्वा इदं वचनमब्रवीत्' ।।
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा।
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ।।
शक्र उवाच।
पश्चाद्धर्मं चरिष्यामि पावनार्थ सुदुश्चरम्।
शत्रुरेष महावीर्यो वज्रेण निहतो मया ।।
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै।
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ।।
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः ।
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ।।
शल्य उवाच।
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात्तदा।
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा।।
निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथ।
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ।।
येन वेदानधीते स्म पिबते सोममेव च।
तस्माद्वक्रार्द्विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः ।।
येन सर्वा दिशो राजन्पिबन्निव नीरीक्षते।
तस्माद्वक्राद्विनिश्चेरुस्तित्तिरास्तस्य पाण्डव ।।
यत्सुरापं तु तस्यासीद्वक्रं त्रिशिरसस्तदा।
कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ ।।
ततस्तेषु निकृत्तेषु विज्वरो मघवानथ।
`तक्ष्णे तथा वरं दत्त्वा प्रहृष्टस्त्रिदशेश्वरः ।।'
जगाम त्रिदिवं देवस्तक्षाऽपि स्वगृहान्ययौ।
मेने कृतार्थमात्मानं हत्वा शत्रुं सुरारिहा ।।
` तक्षापि स्वगृहं गत्वा नैव शंसति कस्यचित्।
अथैनं नाभिजानन्ति वर्षमेकं तथागतम् ।।
अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो।
तमाक्रोशन्त मघवान्नः प्रभुर्ब्रह्महा इति।
तत इन्द्रो व्रतं घोरमाचरत्पाकशासनः।
तपसा च सुसंयुक्तः सह देवैर्मरुद्गणैः ।।
समुद्रेषु पृथिव्यां च वनस्पतिषु स्त्रीषु च।
विभज्य ब्रह्महत्यां च तान्वरैरप्ययोजयत् ।।
वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च।
वनस्पतिभ्यः स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम्।।
ततस्तु शुद्धो भगवान्देवैर्लोकैश्च पूजितः ।
इन्द्रस्थानमुपातिष्ठत्पूज्यमानो महर्षिभिः' ।।
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम्।
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ।।
त्वष्टोवाच।
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्।
विनाऽपराधेन यतः पुत्रं हिंसितवान्मम ।।
तस्माच्छक्रविनाशाय वृत्रमुत्पादयाम्यहम्।
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महम् ।
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ।।
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः ।
अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ।।
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम।
सोऽवर्घत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ।।
किं करोमीति चोवाच कालसूर्य इवोदितः।
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ।।
ततो युद्धं समभवद्वृत्रवासवयोर्महत्।
संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ।।
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् ।
अपावृत्याक्षिपद्वक्रे शक्रं कोपसमन्वितः ।।
ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदिवेश्वराः।
असृजंस्ते महासत्वा जृम्भिकां वृत्रनाशिनीम् ।।
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्।
स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलनाशनः ।।
ततः प्रभृति लोकस्य जृम्भिका प्राणिसंश्रिता।
जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम् ।।
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ।
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ।।
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः।
त्वष्टुस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत।
निवृत्ते च तदा देवा विषादमगमन्परम् ।
समेत्य सह शक्रेण त्वष्टुस्तेजोविमोहिताः ।।
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत।
किं कार्यमिति वै राजन्विचिन्त्य भयमोहिताः ।।
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम्।
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
सेनोद्योगपर्वणि नवमोऽध्यायः ।।