उद्योगपर्व
अध्यायः ७३
भीम उवाच।
यथायथैव शान्तिः स्यात्कुरूणां मधुसूदन।
तथातथैव भाषेथा मा स्म युद्धेन भीषयेः ।।
अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः।
नोग्रं दुर्योधनो वाच्यः साम्नैवेनं समाचरेः ।।
प्रकृत्या पापसत्वश्च तुल्यचेतास्तु दस्युभिः ।
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ।।
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः ।
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ।।
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्।
तादृशेन शमः कृष्ण मन्ये परमदुष्करः ।।
सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः ।
प्रतिहन्त्ये सुहृदां वाचश्चैव मनांसि च।।
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः ।
स्वभावात्पापमभ्येति तृणैश्छन्न इवोरगः ।।
दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव ।
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ।।
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्।
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ।।
दुर्योधनस्य क्रोधेन भरता मधुसूदन।
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ।।
अष्टादशेमे राजानः प्रख्यात मधुसूदन ।
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ।।
असुराणां समृद्धानां ज्वलतामिव तेजसा।
पर्यायकाले धर्मस्य प्राप्ते कलिरजायत ।।
हैहयानामुदावर्तो नीपानां जनमेजयः ।
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ।।
अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः।
अर्कजश्च बलीहानां चीनानां धौतमूलकः ।।
हयग्रीवो विदेहानां वरयुश्च महौजसाम् ।
बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः ।।
सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः ।
धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः ।।
शमश्च नन्दिवेगानामित्येते कुलपांसनाः ।
युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः ।।
अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः ।
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ।।
तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम् ।
कामानुबद्धं बहुलं नोग्रमुग्रपराक्रमम् ।।
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः।
नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरता नशन् ।।
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह।
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ।।
वाच्यः पितामहो वृद्धो ये च कृष्ण समासदः ।
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ।।
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति ।
अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने ।।
।। इति श्रीमन्महाभारते उग्योगपर्वणि
भगवद्यानपर्वणि त्रिसप्ततितमोऽध्यायः ।।