उद्योगपर्व
अध्यायः ७१
` जनमेजय उवच।
प्रयाते सञ्जये साधौ कौरवान्प्रति वै तदा।
किं चक्रुः पाण्डवास्तत्र मम पूर्वपितामहाः ।।
एतत्सर्वं द्विजश्रेष्ठ विस्तरं मम सत्तम।
कथयस्व प्रयत्नेन श्रोतुमिच्छामि पण्डित ।।
वैशंपायन उवाच।
सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः।
अर्जुनं भीमसेनं च माद्रीपुत्रौ च भारत ।।
विराटं द्रुपदं चैव केकयानां महारथान्।
अब्रुवीदुपसङ्गम्य शङ्खचक्रगदाधरम् ।
अभियाचामहे गत्वा प्रयातुं कुरुसंसदम् ।।
यथा भीष्मेण द्रोणेन बाह्लीकेन च धीमता।
अन्यैश्च कुरुभिः सार्धं न युध्येमहि संयुगे ।।
एष नः प्रथमः कल्प एतन्निश्रेय उत्तमम् ।
एवमुक्ताः सुमनसस्तेऽभिजग्मुर्जनार्दनम् ।।
पाण्डवैः सह राजानो मरुत्वन्त इवामराः।
तदा च दुःसहाः सर्वे सदस्यास्ते नरर्षभाः ।।
जनार्दनं समासाद्य कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीत्परवीरध्नं दाशार्हं पाण्डुनन्दनः ।।'
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ।।
त्वां हि माधवमाश्रित्य निर्भया मोघदर्पितम् ।
धार्तराष्ट्रं सहामात्यं स्वयं समनुयुङ्क्ष्महे ।।
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिन्दम्।
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ।।
श्रीभगवानुवाच।
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् ।
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ।।
युधिष्ठिर उवाच।
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्।
एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् ।।
` मृदुपूर्वं साममिश्रं सममुग्रं च माधव ।
न कतृं न्यायमास्थाय गर्हिताश्च ततो वयम् ।।'
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः।
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ।।
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति।
लुब्धः पापेन मनसा चरन्नसममात्मनः ।।
यत्तद्द्वादशवर्षाणि वनेषु ह्युषिता वयम्।
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ।।
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो।
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ।।
गृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति ।
वश्यत्वात्पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनं ।।
सुयोधनमते तिष्ठन्राजाऽस्मासु जनार्दन।
मिथ्याचरति लुब्धः संश्चरन्हि प्रियमात्मनः ।।
इतो दुःखतरं किं नु यदहं मातरं ततः।
संविधातुं न शक्नोमि मित्राणां वा जनार्दन ।।
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन।
भवता चैव नाथेन पञ्च ग्रामा वृता मया ।।
अविस्थलं वृकस्थलं माकन्दी वारणावतम्।
अवसानं च गोविन्द कंचिदेवात्र पञ्चम् ।।
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा।
वसेम सहिता येषु मा च नो भरता नशन् ।।
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते।
स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किं ।।
कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः।
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियं ।।
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् ।
श्रीर्हता पुरुषं हन्ति पुरुषस्याधं वधः ।।
अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः।
अपुष्पादफलाद्वृक्षाद्यथा कृष्ण पतत्रिणः ।।
एतच्च मरणं तात उन्मत्तपतितादिव।
ज्ञातयो विनिवर्तन्ते प्रेतसत्वादिवासवः ।।
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् ।
यत्र नैवाऽद्य न प्रातर्भोजनं प्रतिदृश्यते ।।
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्।
जीवन्ति धनिनो लोके मृता ये त्वधना नराः ।।
ये धनादपकर्षन्ति नरं स्वबलमास्थिताः।
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ।।
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः।
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ।।
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्।
दास्यमेके च गच्छन्ति परेषामर्थहेतुना ।।
आपदेवास्य मरणात्पुरुषस्य गरीयसी।
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ।।
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्मवत्।
समन्तात्सर्वभूतानां न तदत्येति कश्चन ।।
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः।
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ।।
स तदाऽऽत्मापराधेन संप्राप्तो व्यसनं महत्।
सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन ।।
न चास्य सर्वशास्राणि प्रभवन्ति निबर्हणे ।
सोऽभिक्रुध्याति भृत्यानां सुहृदश्चाभ्यसूयति ।।
तत्तदा मन्युरेवैति स भूयः संप्रमुह्यति।
स मोहवशमापन्नः क्रूरं कर्म निषेवते ।।
पापकर्मतया चैव सङ्करं तेन पुष्यति।
सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् ।।
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति।
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति ।।
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते ।
शास्त्रनिष्ठः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ।।
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते।
श्रीमान्स यावद्भवति तावद्भवति पूरुषः ।।
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा।
नाधर्मे कुरुते बुद्धिं न च पापे प्रवर्तते ।।
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्।
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ।।
ह्रीमानवति देवांश्च पितॄनात्मानमेव च।
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ।।
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन।
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ।।
ते वयं न श्रियं हातुमलं न्यायेन केनचित्।
अत्र नो यतमानानां वधश्चेदपि साधु तत् ।।
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव।
प्रशान्ताः समभूताश्च श्रियं तामश्रुवीमहि ।।
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया।
यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यवाप्नुमः ।।
ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः।
तेषामप्यवधः कार्यः किंपुनर्ये स्युरीदृशाः ।।
ज्ञातयश्चैव भूयिष्ठाः सहाया गुरवश्च नः।
तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ।।
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबन्धवः।
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ।।
शूद्रः करोति शुश्रूषां वैश्मा वै पण्यजीविकाः ।
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ।।
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति।
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ।।
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे।
बलं तु नीतिमाधाय युध्ये जयपराजयौ ।।
नात्मच्छन्देन भूतानां जीवितं मरणं तथा।
नाप्यकाले सुखं प्राप्यं दुःखं वाऽपि यदूत्तम ।।
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत।
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ।।
जयो नैवोभयोर्दृष्टो नोभयोश्च पराजयः।
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ।।
सर्वथा वृजिनं युद्धं को ध्नन्न प्रतिहन्यते।
हतस्य च हृषीकेश समौ जयपराजयौ ।।
पराजयश्च मरणान्मन्ये नैव विशिष्यते।
यस्य स्याद्विजयः कृष्ण तस्यप्यपचयो ध्रुवम् ।।
अन्ततो दयितं ध्नन्ति केचिदप्यपरे जनाः ।
तस्याङ्गबलहीनस्य पुत्रान्भ्रातॄनपश्यतः ।।
निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते।
ये ह्येव धीरा ह्रीमन्त आर्याः करुणवेदिनः ।।
त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः।
हत्वाऽप्यनुशयो नित्यं परानपि जनार्दन ।।
अनुबद्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते।
शेषो हि बलमासाद्य न शेषमनुशेषयेत् ।।
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया।
जयो वैरं प्रसृजति दुःखमास्ते पराजितः ।।
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ।
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा ।।
अनिर्वृत्तेन मनसा ससर्प इव वेश्मनि।
उत्सादयति यः सर्वं यशसा स विमुच्यते ।।
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति।
न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि ।।
आख्यातारश्च विद्यन्ते पुमांश्चेद्विद्यते कुले।
न चापि वैरं वैरेण केशव व्युपशाम्यति ।।
हविषाऽग्निर्यथा कृष्ण भूय एवाभिवर्धते।
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः ।।
अन्तरं लिप्समानानामयं दोषो निरन्तरः ।
पौरुषे यो हि बलवानाधिर्हृदयबाधनः।
तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत् ।।
अथवा मूलघातेन द्विषतां मधुसूदन ।
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ।।
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः।
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ।।
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्।
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ।।
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्।
सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः ।।
प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते।
तच्छुनामिव संपाते पण्डितैरुपलक्षितम्।।
लाङ्गूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम् ।
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ।।
तत्र यो बलवान्कृष्ण जित्वा सोत्ति तदामिषम्।
एवमेव मनुष्येषु विशेषो नास्ति कश्चन ।।
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्।
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ।।
पिता राजा च वृद्धश्च सर्वथा मानमर्हति।
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ।।
पुत्रस्नेहश्च बलवान्धृतराष्ट्रस्य माधव ।
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ।।
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् ।
कथमर्थाच्च धर्माच्च न हीयेमहि माधव ।।
ईदृशेऽत्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन।
उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम ।।
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम्।
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ।।
वैशंपायन उवाच।
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः ।
उभयोरेव वामर्थे यास्यामि कुरुसंसदम्।।
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् ।
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ।।
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान्।
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ।।
युधिष्ठिर उवाच।
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति ।
सुयोधनः सूक्तमपि न करिष्यति ते वचः ।।
समेतं पार्थिवं क्षत्रं दुर्योधनवशानुगम्।
तेषां मध्यावतरणं तव कृष्ण न रोचये ।।
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम्।
न च सर्वामरैश्वर्यं तव द्रोहेण माधव ।।
श्रीभगवानुवाच।
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम्।
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षितां ।।
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।
क्रुद्धस्य संयुगे स्थातुं सिंहस्येवेतरे मृगाः ।
अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम्।
निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ।।
न जातु गमनं पार्थ भवेत्तत्र निरर्थकम् ।
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता
` एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् ।
भातॄणां समवेतानां सकाशे पुरुषोत्तमम् ' ।।
युधिष्ठिर उवाच।
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्।
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ।।
विष्वक्सेन कुरून्गत्वा भरताञ्शमयन्प्रभो।
यथा सर्वे सुमनसः सह स्याम सुचेतसः ।।
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः।
सौहृदेनाविशङ्ख्योऽसि स्वस्ति प्राप्नुहि भूतये ।।
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थान्वेत्थ भाषितुम्।
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ।।
यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः।
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि एकसप्ततितमोऽध्यायः ।।