उद्योगपर्व
अध्यायः ६९
धृतराष्ट्र उवाच।
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः।
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ।।
सञ्जय उवाच।
श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम्।
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ।।
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः।
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ।।
मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम्।
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ।।
कृषिर्भूवाचकः शब्दो गश्च निर्वृतिवाचकः।
विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः ।।
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ।
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जानार्दनः ।।
यतः सत्वं न च्यवते यच्च यत्वान्न हीयते।
सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ।।
न जायते जनित्राऽयमजस्तस्मादनीकजित् ।
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः ।।
हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्रुते ।
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ।।
अघो न क्षीयते जातु यस्मात्तस्मादधोक्षजः।
नराणामयनाच्चापि ततो नारायणः स्मृतः ।।
पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः।
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात्।
सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते ।।
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम्।
सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः ।।
विष्णुर्विक्रमणाद्देवो जयनाञ्जिष्णुरुच्यते।
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्भवाम् ।।
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ।।
एवंविधो धर्मनित्यो भगवान्मधुसूदनः ।
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
तयानसन्धिपर्वणि ऊनसस्ततितमोऽध्यायः ।।