उद्योगपर्व
अध्यायः ६३
दुर्योधन उवाच।
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्।
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ।।
वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः ।
समेन वयसा चैव प्रातिभेन श्रुतेन च ।।
अस्त्रेण योधयुग्या च शीघ्रत्वे कौशले तथा।
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः ।।
पितामह विजानीषे पार्थेषु विजयं कथम्।
नाहं भवति न द्रोणे न कृपे न च बाह्लिके ।।
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे।
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे ।।
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ।
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः ।।
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ।
यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना ।
अतरित्रानिव जले बाहुभिर्मामका रणे ।।
पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान्।
तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः ।।
`सुखान्यवाप्य सहिताः कृत्वा कर्म सुदुस्तरम्।
विस्रब्धास्तु भविष्यामः प्राप्ते काले गतज्वराः ।।
वैशंपायन उवाच।
अथाब्रवीन्महाराजो धृतराष्ट्रः सुदुर्मनाः ।
विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसंनिधौ ।।
धृतराष्ट्र उवाच।
मोहितो मृत्युपाशेन कालस्य वशमागतः।
तात कर्णेन सहितः पुत्रो दुर्योधनो मम ।।'
विदुर उवाच।
इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ।।
तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते ।
दमो दानं तपो ज्ञानमधीतं चानुवर्तते ।।
दमस्तेजो वर्धयति पवित्रं दम उत्तमम् ।
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत् ।।
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा ।।
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम्।
तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः ।।
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम् ।।
अकार्पण्यमसंरम्भः सन्तोषं श्रद्दधानता ।
एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः ।।
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम्।
मान ईर्ष्यां च शोकश्च नैतद्दान्तो निषेवते।
अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम् ।।
अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता ।
समुद्रकल्पः परुषः स दान्तः परिकीर्तितः ।।
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽत्मविद्बुधः ।
प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति ।।
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः।
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः ।।
सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः।
समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति ।।
कर्मणाऽचरितं पूर्वं सद्भिराचरितं च यत्।
तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ।।
नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः।
कालाकाङ्क्षी चरँल्लोके ब्रह्मभूयाय कल्पते ।।
शकुनीनामिवाकाशे पदं नैवोपलभ्यते।
एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते ।।
उत्सृज्यैव गृहान्यस्तु मोक्षमेवाभिमन्यते ।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि त्रिषष्टितमोऽध्यायः ।।