उद्योगपर्व
अध्यायः ४७
वैशंपायन उवाच।
एवं सनत्सुजातेन विदुरेण च धीमता।
सार्धं कथयतो राज्ञः सा व्यतीयय सर्वरी ।।
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते।
सभामाविविशुर्हृष्टाःक सूतस्योपदिदृक्षया ।।
शुश्रूषमाणाः पार्थानां वाचो धर्मार्थसंहिताः ।
धृतराष्ट्रमुखाः सर्वे ययू राजन्सभां शुभाम् ।।
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् ।
चन्द्रप्रभां सुरुचिरां सिक्तां चिन्दनवारिणा ।।
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि।
अश्मसारमयैर्दान्तैःक स्वास्तीर्णैः सोत्तरच्छदैः ।।
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ।
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः।
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ।।
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः।
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ।।
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्।
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ।।
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः ।
शुशुभे सा सभा रजन्सिंहैरिव गिरेर्गुहा ।।
ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः ।
आसनानि विचित्राणि भेजिरे सूर्यवर्चसः ।।
आसनस्थेषु सर्वेषु तेषु राजसु भारत।
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ।।
अयं सरथ आयाति योऽयासीत्पाण्डवान्प्रति।
दूतो नस्तूर्णमायाति सैन्धवैः साधुवाहिभिः ।।
..पेयाय स तु क्षिप्रं रथात्प्रस्कन्द्य कुण्डली।
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ।।
सञ्जय उवाच।
प्राप्तोऽस्मि पाण्डवान्गत्वा तं विजानीत कौरवाः।
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ।।
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्।
पुनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ।।
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः।
अब्रवं पाण्डवान्गत्वा नात्र किञ्चन हापितम् ।।
` धृतराष्ट्र उवाच।
पृच्छामि त्वां सञ्जय राजमध्ये
यदब्रवीद्वाक्यमदीनसत्वः।
जनार्दनस्तात युधां प्रणेता
दुरात्मनां जीवितच्छिन्महात्मा ।।
सञ्जय उवाच।
आगुल्फेभ्योऽभिसंवीतः प्रयतोऽहं कृताञ्जलिः।
शुद्धान्तं प्राविशं राजन्नाख्यातो नरसिंहयोः ।।
न चाभिमन्युर्न यमौ तं देशमभिजग्मतुः ।
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ।।
उभौ मध्वासवक्षीबौ वरचन्दनरूषितौ ।
स्त्रग्विणौ वरवस्त्राङ्गौ वराभरणभूषितौ ।।
नैकरत्नविचित्रं च काञ्चनं च वरासनम्।
नानास्तरणसंस्तीर्णं यत्रासाते नरर्षभौ ।।
सत्याङ्कमुपधानं तु कृत्वा शेते जनार्दनः।
अर्जुनाङ्कगतौ पादौ केशवस्योपलक्षये।
अर्जुनस्य च कृष्णायाः शुभायाश्चाङ्कगावुभौ ।।
काञ्चनं पादपीठं तु पार्थो वै प्रादिशन्मुदा।
दासीभ्यामाहृतं मह्यं स्पृष्ट्वा भूमावुपाविशम् ।।
ऊर्ध्वरेखाङ्कितौ पादौ पार्थस्य शुभलक्षणौ।
पादपीठादपहृतौ धारयेतां वरस्त्रियौ ।।
न नूनं कल्मषं किञ्चिन्मम कर्मसु विद्यते।
स्त्रीरत्नाभ्यां समेतौ यन्मिथो मामभ्यभाषताम् ।।
विस्मयो मे महानासीदास्त्रं मे बहुसङ्गतम्।
हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहितावुभौ ।।
श्यामौ बृहन्तौ तरुणौ नागाविव समुच्छ्रितौ ।
एकशय्यागतौ दृष्ट्वा भयं मे महदाविशत् ।।
ततोऽभ्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ ।
सङ्कल्पो धर्मराजस्य नानवाप्योऽस्ति कश्चन।
निदेशगाविमौ यस्य नरनारायणावुभौ ।।
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः ।
अञ्जलिं मूर्ध्नि सन्धाय सन्देशं चाभ्यचोदयम् ।।
धनुर्धरोचितेनाथ पाणिनैकं सलक्षणम्।
पादमानाययत्पार्थः केशवस्य यशस्विनः ।।
इन्द्रकेतुरिवोत्थाय दिव्याभरणभूषितः।
इन्द्रवीर्योपमः कृष्णः संविष्टो माऽभ्यभाषत ।।
स वाचं वदतां श्रेष्ठ आददे वचनक्षमाम्।
दीपनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ।।
बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः।
मतिमान्मतिमास्थाय केशवः सन्दधे वचः ।।
वचनं वचनज्ञस्य शिक्षाक्षरसमन्वितम्।
मनःप्रह्लादनं श्रेष्ठं पश्चाद्धृदयतापनम् ।।
श्रीभगवानुवाच।
सञ्जयैतद्वचो ब्रूयाः प्राप्य क्षत्रियसंसदम्।
श्रृण्वतः कुरुवृद्धस्य आचार्यस्य च धीमतः ।।
अर्थांस्त्यजत पार्थेषु सुखमाप्नुत कामजम्।
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये।।
यजध्वं विविधैर्यज्ञैर्दक्षिणाश्च प्रयच्छत।
पुत्रेर्दारैश्च मोदध्वमागतं वो महद्भयम् ।।
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति।
गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम् ।।
तेजोमयं दुराधर्पं बिभ्रता गाण्डिवं धनुः।
मद्द्वितीयेन पार्थेन वैरं वः प्रत्युपस्थितम् ।।
कृष्णस्यैतद्वचः श्रुत्वा महन्मे भयमाविशत्।
तव पुत्रस्य लोभं च वर्धमानं प्रपश्यतः ।।
सोमेन्द्रसदृशौ वीरौ तौ मन्दो नावबुध्यते।
भीष्मद्रोणाश्रयाच्चैव कर्णस्य च विकत्थनात् '।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि सप्तचत्वारिंशोऽध्यायः ।।