उद्योगपर्व

अध्यायः ४५

Udyoga Parva (Sanskrit) · Adhyaya 45
अक्षर का आकार

सनत्सुजात उवाच।

शोकः क्रोधश्च लोभश्च कामो मानः परासुता।
ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता ।।

द्वादशैते महादोषा मनुष्यप्राणनाशनाः।
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते।
यौराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति ।।

स्पृहयालुरुग्रः परुषो वा वदान्यः
क्रोधं बिभ्रन्मनसा वै विकत्थी।
नृशंसधर्माः षडिमे जना वै
प्राप्याप्यर्थं नोत सभाजयन्ते ।।

संभोगसंविद्विषमोऽतिमानी
दत्त्वा विकत्थी कृपणो दुर्बलश्च।
बहुप्रशंकसी वनिताद्विट् सदैव
सप्तैवोक्ताः पापशीला नृशंसाः ।।

धर्मश्च सत्यं च तपो दमश्च
अमात्सर्यं ह्रीस्तितिक्षानसूया।
दानं श्रुतं चैव धृतिः क्षमा च
महाव्रता द्वादश ब्राह्मणस्य ।।

यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः
सर्वामपीमां पृथिवीं स शिष्यात्।
त्रिभिर्द्वाभ्यामेकतो वार्थितो यो
नास्य स्वमस्तीति च वेदितव्यम् ।।

दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम्।
एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् ।।

सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते।
नरकप्रतिष्ठास्ते स्युर्य एवं कुरुते जनाः ।।

मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः ।
लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः ।।

कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम्।
अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम् ।।

ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता।
तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् ।।

नभ्यर्थितश्चार्हति शुद्धभावः ।।

त्यक्तद्रव्यः संवसेन्नेह कामा-
द्भिङ्क्ते कर्मस्वाशिषं बाधते च ।।

द्रव्यवान्गुणवानेवं त्यागी भवति सात्विकः।
पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः ।।

एतत्समृद्धमप्यृद्धं तपो भवति केवलम्।
सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम् ।।

यतो यज्ञः प्रवर्धन्ते मत्यस्यैवावरोधनात्।
मनसान्यस्य भवति वाच्यन्यस्याथ कर्मणा ।।

सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति।
ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे श्रृणु ।।

अध्यापयेन्महदेतद्यशस्यं
वाचो विकराः कवयो वदन्ति।
अस्मिन्योगे सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति।।

न कर्मणा सुकृतेनैव राजन्
सत्यं जयेज्जुहुयाद्वा यजेद्वा।
नैतेन वालोऽमृत्युमभ्येति राजन्
रतिं चासौ न लभत्यन्तकाले ।।

तृष्णीमेक उपासीत चेष्टेत मनसापि न।
तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् ।।

अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति।
वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सनत्सुजातपर्वणि पञ्चचत्वारिंशोऽध्यायः ।।